ऋग्वेदादिभाष्यभूमिका (दयानन्दसरस्वतीविरचिता)/१८. वैद्यकशास्त्रमूलोद्देशः

 


अथ वैद्यकशास्त्रमूलोद्देशः संक्षेपतः

सुमित्रिया न आप ओषधयः सन्तु।

दुर्मित्रियास्तस्मै सन्तु

योऽस्मान् द्वेष्टि यं च वयं द्विष्मः॥1॥

-य॰ अ॰ 6। मं॰ 22।

भाष्यम् - अस्याभिप्रायार्थः - इदं वैद्यकशास्त्रस्यायुर्वेदस्य मूलमस्ति।

हे परमवैद्येश्वर! भवत्कृपया (नः) अस्मभ्यं (ओषधयः) सोमादयः , ( सुमित्रिया) अत्र इयाडियाजीकाराणामुपसङ् ख्यानम् इति वार्त्तिकेन ' जसः ' स्थाने ' डियाच् ' इत्यादेशः। सुमित्राः सुखप्रदा रोगनाशकाः सन्तु , यथावद्विज्ञाताश्च। तथैव (आपः) प्राणाः सुमित्राः सन्तु। तथा (योऽस्मान् द्वेष्टि) योऽधर्मात्मा कामक्रोधादिर्वा रोगश्च विरोधी भवति , ( यं च वयं द्विष्मः) यमधर्मात्मानं रोगं च वयं द्विष्मः , ( तस्मै॰) दुर्मित्रियाः दुःखप्रदा विरोधिन्यः सन्तु। अर्थात् ये सुपथ्यकारिणस्तेभ्य ओषधयो मित्रवद् दुःखनाशिका भवन्ति। तथैव कुपथ्यकारिभ्यो मनुष्येभ्यश्च शत्रुवद् दुःखाय भवन्तीति॥

एवं वैद्यकशास्त्रस्य मूलार्थविधायका वेदेषु बहवो मन्त्राः सन्ति , प्रसङ्गाभावान्नात्र लिख्यन्ते। यत्र यत्र ते मन्त्राः सन्ति तत्र तत्रैव तेषामर्थान् यथावदुदाहरिष्यामः।

भाषार्थ - (सुमित्रिया न॰) हे परमेश्वर! आपकी कृपा से (आपः) अर्थात् जो प्राण और जल आदि पदार्थ तथा (ओषधयः) सोमलता आदि सब ओषधि (नः) हमारे लिये (सुमित्रियाः सन्तु) सुखकारक हों तथा (दुर्मित्रियाः) जो दुष्ट, प्रमादी, हमारे द्वेषी लोग हैं और हम जिन दुष्टों से द्वेष करते हैं, उन के लिए विरोधिनी हों। क्योंकि जो धर्मात्मा और पथ्य के करनेवाले मनुष्य हैं, उन को ईश्वर के रचे सब पदार्थ सुख देनेवाले होते हैं और जो कुपथ्य करनेवाले तथा पापी हैं, उन के लिए सदा दुःख देने वाले होते हैं।

इत्यादि मन्त्र वैद्यकविद्या के मूल के प्रकाश करनेवाले हैं।

॥इति वैद्यकविद्याविषयः संक्षेपतः॥18॥

ऋग्वेदादिभाष्यभूमिका (दयानन्दसरस्वतीविरचिता)/१७. ताराविद्यामूलम्

ऋग्वेदादिभाष्यभूमिका (दयानन्दसरस्वतीविरचिता)/१९. पुनर्जन्मविषयः

एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

डिजिटल दीमक और बिखरता समाज (The Modern Crisis)

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें