गृहीतवेतनः कर्म त्यजन्द्विगुणं आवहेत् । अगृहीते समं दाप्यो भृत्यै रक्ष्य उपस्करः । । २.१९३ । । |
दाप्यस्तु दशमं भागं वाणिज्यपशुसस्यतः । अनिश्चित्य भृतिं यस्तु कारयेत्स महीक्षिता । । २.१९४ । । |
देशं कालं च योऽतीयाल्लाभं कुर्याच्च योऽन्यथा । तत्र स्यात्स्वामिनश्छन्दोऽधिकं देयं कृतेऽधिके । । २.१९५ । । |
यो यावत्कुरुते कर्म तावत्तस्य तु वेतनम् । उभयोरप्यसाध्यं चेत्साध्ये कुर्याद्यथाश्रुतम् । । २.१९६ । । |
अराजदैविकं नष्टं भाण्डं दाप्यस्तु वाहकः । प्रस्थानविघ्नकृच्चैव प्रदाप्यो द्विगुणां भृतिम् । । २.१९७ । । |
प्रक्रान्ते सप्तमं भागं चतुर्थं पथि संत्यजन् । भृतिं अर्धपथे सर्वां प्रदाप्यस्त्याजकोऽपि च । । २.१९८ । । याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/द्यूतसमाह्वयप्रकरणम् ग्लहे शतिकवृद्धेस्तु सभिकः पञ्चकं शतम् । गृह्णीयाद्धूर्तकितवादितराद्दशकं शतम् । । २.१९९ । । | स सम्यक्पालितो दद्याद्राज्ञे भागं यथाकृतम् । जितं उद्ग्राहयेज्जेत्रे दद्यात्सत्यं वचः क्षमी । । २.२०० । । | प्राप्ते नृपतिना भागे प्रसिद्धे धूर्तमण्डले । जितं ससभिके स्थाने दापयेदन्यथा न तु । । २.२०१ । । | द्रष्टारो व्यवहाराणां साक्षिणश्च त एव हि । राज्ञा सचिह्नं निर्वास्याः कूटाक्षोपधिदेविनः । । २.२०२ । । | द्यूतं एकमुखं कार्यं तस्करज्ञानकारणात् । एष एव विधिर्ज्ञेयः प्राणिद्यूते समाह्वये । । २.२०३ । । |
|