चातुर्वर्ण्यस्य कृत्स्नोऽयं उक्तो धर्मस्त्वयानघः । कर्मणां फलनिर्वृत्तिं शंस नस्तत्त्वतः पराम् । । १२.१ । । |
स तानुवाच धर्मात्मा महर्षीन्मानवो भृगुः । अस्य सर्वस्य शृणुत कर्मयोगस्य निर्णयम् । । १२.२ । । |
शुभाशुभफलं कर्म मनोवाग्देहसंभवम् । कर्मजा गतयो नॄणां उत्तमाधममध्यमः । । १२.३ । । |
तस्येह त्रिविधस्यापि त्र्यधिष्ठानस्य देहिनः । दशलक्षणयुक्तस्य मनो विद्यात्प्रवर्तकम् । । १२.४ । । |
परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम् । वितथाभिनिवेशश्च त्रिविधं कर्म मानसम् । । १२.५ । । |
पारुष्यं अनृतं चैव पैशुन्यं चापि सर्वशः । असंबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् । । १२.६ । । |
अदत्तानां उपादानं हिंसा चैवाविधानतः । परदारोपसेवा च शारीरं त्रिविधं स्मृतम् । । १२.७ । । |
मानसं मनसैवायं उपभुङ्क्ते शुभाशुभम् । वाचा वाचा कृतं कर्म कायेनैव च कायिकम् । । १२.८ । । |
शरीरजैः कर्मदोषैर्याति स्थावरतां नरः । वाचिकैः पक्षिमृगतां मानसैरन्त्यजातिताम् । । १२.९ । । |
वाग्दण्डोऽथ मनोदण्डः कायदण्डस्तथैव च । यस्यैते निहिता बुद्धौ त्रिदण्डीति स उच्यते । । १२.१० । । |
त्रिदण्डं एतन्निक्षिप्य सर्वभूतेषु मानवः । कामक्रोधौ तु संयम्य ततः सिद्धिं नियच्छति । । १२.११ । । |
योऽस्यात्मनः कारयिता तं क्षेत्रज्ञं प्रचक्षते । यः करोति तु कर्माणि स भूतात्मोच्यते बुधैः । । १२.१२ । । |
जीवसंज्ञोऽन्तरात्मान्यः सहजः सर्वदेहिनाम् । येन वेदयते सर्वं सुखं दुःखं च जन्मसु । । १२.१३ । । |
तावुभौ भूतसंपृक्तौ महान्क्षेत्रज्ञ एव च । उच्चावचेषु भूतेषु स्थितं तं व्याप्य तिष्ठतः । । १२.१४ । । |
असंख्या मूर्तयस्तस्य निष्पतन्ति शरीरतः । उच्चावचानि भूतानि सततं चेष्टयन्ति याः । । १२.१५ । । |
पञ्चभ्य एव मात्राभ्यः प्रेत्य दुष्कृतिनां नृणाम् । शरीरं यातनार्थीयं अन्यदुत्पद्यते ध्रुवम् । । १२.१६ । । |
तेनानुभूय ता यामीः शरीरेणेह यातनाः । तास्वेव भूतमात्रासु प्रलीयन्ते विभागशः । । १२.१७ । । |
सोऽनुभूयासुखोदर्कान्दोषान्विषयसङ्गजान् । व्यपेतकल्मषोऽभ्येति तावेवोभौ महौजसौ । । १२.१८ । । |
तौ धर्मं पश्यतस्तस्य पापं चातन्द्रितौ सह । याभ्यां प्राप्नोति संपृक्तः प्रेत्येह च सुखासुखम् । । १२.१९ । । |
यद्याचरति धर्मं स प्रायशोऽधर्मं अल्पशः । तैरेव चावृतो भूतैः स्वर्गे सुखं उपाश्नुते । । १२.२० । । |
यदि तु प्रायशोऽधर्मं सेवते धर्मं अल्पशः । तैर्भूतैः स परित्यक्तो यामीः प्राप्नोति यातनाः । । १२.२१ । । |
यामीस्ता यातनाः प्राप्य स जीवो वीतकल्मषः । तान्येव पञ्च भूतानि पुनरप्येति भागशः । । १२.२२ । । |
एता दृष्ट्वास्य जीवस्य गतीः स्वेनैव चेतसा । धर्मतोऽधर्मतश्चैव धर्मे दध्यात्सदा मनः । । १२.२३ । । |
सत्त्वं रजस्तमश्चैव त्रीन्विद्यादात्मनो गुणान् । यैर्व्याप्येमान्स्थितो भावान्महान्सर्वानशेषतः । । १२.२४ । । |
यो यदैषां गुणो देहे साकल्येनातिरिच्यते । स तदा तद्गुणप्रायं तं करोति शरीरिणम् । । १२.२५ । । |
सत्त्वं ज्ञानं तमोऽज्ञानं रागद्वेषौ रजः स्मृतम् । एतद्व्याप्तिमदेतेषां सर्वभूताश्रितं वपुः । । १२.२६ । । |
तत्र यत्प्रीतिसंयुक्तं किं चिदात्मनि लक्षयेत् । प्रशान्तं इव शुद्धाभं सत्त्वं तदुपधारयेत् । । १२.२७ । । |
यत्तु दुःखसमायुक्तं अप्रीतिकरं आत्मनः । तद्रजो प्रतीपं विद्यात्सततं हारि देहिनाम् । । १२.२८ । । |
यत्तु स्यान्मोहसंयुक्तं अव्यक्तं विषयात्मकम् । अप्रतर्क्यं अविज्ञेयं तमस्तदुपधारयेत् । । १२.२९ । । |
त्रयाणां अपि चैतेषां गुणानां यः फलोदयः । अग्र्यो मध्यो जघन्यश्च तं प्रवक्ष्याम्यशेषतः । । १२.३० । । |
वेदाभ्यासस्तपो ज्ञानं शौचं इन्द्रियनिग्रहः । धर्मक्रियात्मचिन्ता च सात्त्विकं गुणलक्षणम् । । १२.३१ । । |
आरम्भरुचिताधैर्यं असत्कार्यपरिग्रहः । विषयोपसेवा चाजस्रं राजसं गुणलक्षणम् । । १२.३२ । । |
लोभः स्वप्नोऽधृतिः क्रौर्यं नास्तिक्यं भिन्नवृत्तिता । याचिष्णुता प्रमादश्च तामसं गुणलक्षणम् । । १२.३३ । । |
त्रयाणां अपि चैतेषां गुणानां त्रिषु तिष्ठताम् । इदं सामासिकं ज्ञेयं क्रमशो गुणलक्षणम् । । १२.३४ । । |
यत्कर्म कृत्वा कुर्वंश्च करिष्यंश्चैव लज्जति । तज्ज्ञेयं विदुषा सर्वं तामसं गुणलक्षणम् । । १२.३५ । । |
येनास्मिन्कर्मना लोके ख्यातिं इच्छति पुष्कलाम् । न च शोचत्यसंपत्तौ तद्विज्ञेयं तु राजसम् । । १२.३६ । । |
यत्सर्वेणेच्छति ज्ञातुं यन्न लज्जति चाचरन् । येन तुष्यति चात्मास्य तत्सत्त्वगुणलक्षणम् । । १२.३७ । । |
तमसो लक्षणं कामो रजसस्त्वर्थ उच्यते । सत्त्वस्य लक्षणं धर्मः श्रैष्ठ्यं एषां यथोत्तरम् । । १२.३८ । । |
येन यस्तु गुणेनैषां संसरान्प्रतिपद्यते । तान्समासेन वक्ष्यामि सर्वस्यास्य यथाक्रमम् । । १२.३९ । । |
देवत्वं सात्त्विका यान्ति मनुष्यत्वं च राजसाः । तिर्यक्त्वं तामसा नित्यं इत्येषा त्रिविधा गतिः । । १२.४० । । |
त्रिविधा त्रिविधैषा तु विज्ञेया गौणिकी गतिः । अधमा मध्यमाग्र्या च कर्मविद्याविशेषतः । । १२.४१ । । |
स्थावराः कृमिकीटाश्च मत्स्याः सर्पाः सकच्छपाः । पशवश्च मृगाश्चैव जघन्या तामसी गतिः । । १२.४२ । । |
हस्तिनश्च तुरङ्गाश्च शूद्रा म्लेच्छाश्च गर्हिताः । सिंहा व्याघ्रा वराहाश्च मध्यमा तामसी गतिः । । १२.४३ । । |
चारणाश्च सुपर्णाश्च पुरुषाश्चैव दाम्भिकाः । रक्षांसि च पिशाचाश्च तामसीषूत्तमा गतिः । । १२.४४ । । |
झल्ला मल्ला नटाश्चैव पुरुषाः शस्त्रवृत्तयः । द्यूतपानप्रसक्ताश्च जघन्या राजसी गतिः । । १२.४५ । । |
राजानः क्षत्रियाश्चैव राज्ञां चैव पुरोहिताः । वादयुद्धप्रधानाश्च मध्यमा राजसी गतिः । । १२.४६ । । |
गन्धर्वा गुह्यका यक्षा विबुधानुचराश्च ये । तथैवाप्सरसः सर्वा राजसीषूत्तमा गतिः । । १२.४७ । । |
तापसा यतयो विप्रा ये च वैमानिका गणाः । नक्षत्राणि च दैत्याश्च प्रथमा सात्त्विकी गतिः । । १२.४८ । । |
यज्वान ऋषयो देवा वेदा ज्योतींषि वत्सराः । पितरश्चैव साध्याश्च द्वितीया सात्त्विकी गतिः । । १२.४९ । । |
ब्रह्मा विश्वसृजो धर्मो महानव्यक्तं एव च । उत्तमां सात्त्विकीं एतां गतिं आहुर्मनीषिणः । । १२.५० । । |
एष सर्वः समुद्दिष्टस्त्रिप्रकारस्य कर्मणः । त्रिविधस्त्रिविधः कृत्स्नः संसारः सार्वभौतिकः । । १२.५१ । । |
इन्द्रियाणां प्रसङ्गेन धर्मस्यासेवनेन च । पापान्संयान्ति संसारानविद्वांसो नराधमाः । । १२.५२ । । |
यां यां योनिं तु जीवोऽयं येन येनेह कर्मणा । क्रमशो याति लोकेऽस्मिंस्तत्तत्सर्वं निबोधत । । १२.५३ । । |
बहून्वर्षगणान्घोरान्नरकान्प्राप्य तत्क्षयात् । संसारान्प्रतिपद्यन्ते महापातकिनस्त्विमान् । । १२.५४ । । |
श्वसूकरखरोष्ट्राणां गोऽजाविमृगपक्षिणाम् । चण्डालपुक्कसानां च ब्रह्महा योनिं ऋच्छति । । १२.५५ । । |
कृमिकीटपतङ्गानां विड्भुजां चैव पक्षिणाम् । हिंस्राणां चैव सत्त्वानां सुरापो ब्राह्मणो व्रजेत् । । १२.५६ । । |
लूताहिसरटानां च तिरश्चां चाम्बुचारिणाम् । हिंस्राणां च पिशाचानां स्तेनो विप्रः सहस्रशः । । १२.५७ । । |
तृणगुल्मलतानां च क्रव्यादां दंष्ट्रिणां अपि । क्रूरकर्मकृतां चैव शतशो गुरुतल्पगः । । १२.५८ । । |
हिंस्रा भवन्ति क्रव्यादाः कृमयोऽमेध्यभक्षिणः । परस्परादिनः स्तेनाः प्रेत्यान्त्यस्त्रीनिषेविणः । । १२.५९ । । |
संयोगं पतितैर्गत्वा परस्यैव च योषितम् । अपहृत्य च विप्रस्वं भवति ब्रह्मराक्षसः । । १२.६० । । |
मणिमुक्ताप्रवालानि हृत्वा लोभेन मानवः । विविधाणि च रत्नानि जायते हेमकर्तृषु । । १२.६१ । । |
धान्यं हृत्वा भवत्याखुः कांस्यं हंसो जलं प्लवः । मधु दंशः पयः काको रसं श्वा नकुलो घृतम् । । १२.६२ । । |
मांसं गृध्रो वपां मद्गुस्तैलं तैलपकः खगः । चीरीवाकस्तु लवणं बलाका शकुनिर्दधि । । १२.६३ । । |
कौशेयं तित्तिरिर्हृत्वा क्षौमं हृत्वा तु दर्दुरः । कार्पासतान्तवं क्रौञ्चो गोधा गां वाग्गुदो गुडम् । । १२.६४ । । |
छुच्छुन्दरिः शुभान्गन्धान्पत्रशाकं तु बर्हिणः । श्वावित्कृतान्नं विविधं अकृतान्नं तु शल्यकः । । १२.६५ । । |
बको भवति हृत्वाग्निं गृहकारी ह्युपस्करम् । रक्तानि हृत्वा वासांसि जायते जीवजीवकः । । १२.६६ । । |
वृको मृगेभं व्याघ्रोऽश्वं फलमूलं तु मर्कटः । स्त्रीं ऋक्षः स्तोकको वारि यानान्युष्ट्रः पशूनजः । । १२.६७ । । |
यद्वा तद्वा परद्रव्यं अपहृत्य बलान्नरः । अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः । । १२.६८ । । |
स्त्रियोऽप्येतेन कल्पेन हृत्वा दोषं अवाप्नुयुः । एतेषां एव जन्तूनां भार्यात्वं उपयान्ति ताः । । १२.६९ । । |
स्वेभ्यः स्वेभ्यस्तु कर्मभ्यश्च्युता वर्णा ह्यनापदि । पापान्संसृत्य संसारान्प्रेष्यतां यान्ति शत्रुषु । । १२.७० । । |
वान्ताश्युल्कामुखः प्रेतो विप्रो धर्मात्स्वकाच्च्युतः । अमेध्यकुणपाशी च क्षत्रियः कटपूतनः । । १२.७१ । । |
मैत्राक्षज्योतिकः प्रेतो वैश्यो भवति पूयभुक् । चैलाशकश्च भवति शूद्रो धर्मात्स्वकाच्च्युतः । । १२.७२ । । |
यथा यथा निषेवन्ते विषयान्विषयात्मकाः । तथा तथा कुशलता तेषां तेषूपजायते । । १२.७३ । । |
तेऽभ्यासात्कर्मणां तेषां पापानां अल्पबुद्धयः । संप्राप्नुवन्ति दुःखानि तासु तास्विह योनिषु । । १२.७४ । । |
तामिस्रादिषु चोग्रेषु नरकेषु विवर्तनम् । असिपत्रवनादीनि बन्धनछेदनानि च । । १२.७५ । । |
विविधाश्चैव संपीडाः काकोलूकैश्च भक्षणम् । करम्भवालुकातापान्कुम्भीपाकांश्च दारुणान् । । १२.७६ । । |
संभवांश्च वियोनीषु दुःखप्रायासु नित्यशः । शीतातपाभिघातांश्च विविधानि भयानि च । । १२.७७ । । |
असकृद्गर्भवासेषु वासं जन्म च दारुणम् । बन्धनानि च काष्ठानि परप्रेष्यत्वं एव च । । १२.७८ । । |
बन्धुप्रियवियोगांश्च संवासं चैव दुर्जनैः । द्रव्यार्जनं च नाशं च मित्रामित्रस्य चार्जनम् । । १२.७९ । । |
जरां चैवाप्रतीकारां व्याधिभिश्चोपपीडनम् । क्लेशांश्च विविधांस्तांस्तान्मृत्युं एव च दुर्जयम् । । १२.८० । । |
यादृशेन तु भावेन यद्यत्कर्म निषेवते । तादृशेन शरीरेण तत्तत्फलं उपाश्नुते । । १२.८१ । । |
एष सर्वः समुद्दिष्टः कर्मणां वः फलोदयः । नैःश्रेयसकरं कर्म विप्रस्येदं निबोधत । । १२.८२ । । |
वेदाभ्यासस्तपो ज्ञानं इन्द्रियाणां च संयमः । अहिंसा गुरुसेवा च निःश्रेयसकरं परम् । । १२.८३ । । |
सर्वेषां अपि चैतेषां शुभानां इह कर्मणाम् । किं चिच्छ्रेयस्करतरं कर्मोक्तं पुरुषं प्रति । । १२.८४ । । |
सर्वेषां अपि चैतेषां आत्मज्ञानं परं स्मृतम् । तद्ध्यग्र्यं सर्वविद्यानां प्राप्यते ह्यमृतं ततः । । १२.८५ । । |
षण्णां एषां तु सर्वेषां कर्मणां प्रेत्य चेह च । श्रेयस्करतरं ज्ञेयं सर्वदा कर्म वैदिकम् । । १२.८६ । । |
वैदिके कर्मयोगे तु सर्वाण्येतान्यशेषतः । अन्तर्भवन्ति क्रमशस्तस्मिंस्तस्मिन्क्रियाविधौ । । १२.८७ । । |
सुखाभ्युदयिकं चैव नैःश्रेयसिकं एव च । प्रवृत्तं च निवृत्तं च द्विविधं कर्म वैदिकम् । । १२.८८ । । |
इह चामुत्र वा काम्यं प्रवृत्तं कर्म कीर्त्यते । निष्कामं ज्ञातपूर्वं तु निवृत्तं उपदिश्यते । । १२.८९ । । |
प्रवृत्तं कर्म संसेव्यं देवानां एति साम्यताम् । निवृत्तं सेवमानस्तु भूतान्यत्येति पञ्च वै । । १२.९० । । |
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । समं पश्यन्नात्मयाजी स्वाराज्यं अधिगच्छति । । १२.९१ । । |
यथोक्तान्यपि कर्माणि परिहाय द्विजोत्तमः । आत्मज्ञाने शमे च स्याद्वेदाभ्यासे च यत्नवान् । । १२.९२ । । |
एतद्धि जन्मसाफल्यं ब्राह्मणस्य विशेषतः । प्राप्यैतत्कृतकृत्यो हि द्विजो भवति नान्यथा । । १२.९३ । । |
पितृदेवमनुष्याणां वेदश्चक्षुः सनातनम् । अशक्यं चाप्रमेयं च वेदशास्त्रं इति स्थितिः । । १२.९४ । । |
या वेदबाह्याः स्मृतयो याश्च काश्च कुदृष्टयः । सर्वास्ता निष्फलाः प्रेत्य तमोनिष्ठा हि ताः स्मृताः । । १२.९५ । । |
उत्पद्यन्ते च्यवन्ते च यान्यतोऽन्यानि कानि चित् । तान्यर्वाक्कालिकतया निष्फलान्यनृतानि च । । १२.९६ । । |
चातुर्वर्ण्यं त्रयो लोकाश्चत्वारश्चाश्रमाः पृथक् । भूतं भव्यं भविष्यं च सर्वं वेदात्प्रसिध्यति । । १२.९७ । । |
शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । वेदादेव प्रसूयन्ते प्रसूतिर्गुणकर्मतः । । १२.९८ । । |
बिभर्ति सर्वभूतानि वेदशास्त्रं सनातनम् । तस्मादेतत्परं मन्ये यज्जन्तोरस्य साधनम् । । १२.९९ । । |
सेनापत्यं च राज्यं च दण्डनेतृत्वं एव च । सर्वलोकाधिपत्यं च वेदशास्त्रविदर्हति । । १२.१०० । । |
यथा जातबलो वह्निर्दहत्यार्द्रानपि द्रुमान् । तथा दहति वेदज्ञः कर्मजं दोषं आत्मनः । । १२.१०१ । । |
वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् । इहैव लोके तिष्ठन्स ब्रह्मभूयाय कल्पते । । १२.१०२ । । |
अज्ञेभ्यो ग्रन्थिनः श्रेष्ठा ग्रन्थिभ्यो धारिणो वराः । धारिभ्यो ज्ञानिनः श्रेष्ठा ज्ञानिभ्यो व्यवसायिनः । । १२.१०३ । । |
तपो विद्या च विप्रस्य निःश्रेयसकरं परम् । तपसा किल्बिषं हन्ति विद्ययामृतं अश्नुते । । १२.१०४ । । |
प्रत्यक्षं चानुमानं च शास्त्रं च विविधागमम् । त्रयं सुविदितं कार्यं धर्मशुद्धिं अभीप्सता । । १२.१०५ । । |
आर्षं धर्मोपदेशं च वेदशास्त्राविरोधिना । यस्तर्केणानुसंधत्ते स धर्मं वेद नेतरः । । १२.१०६ । । |
नैःश्रेयसं इदं कर्म यथोदितं अशेषतः । मानवस्यास्य शास्त्रस्य रहस्यं उपदिश्यते । । १२.१०७ । । |
अनाम्नातेषु धर्मेषु कथं स्यादिति चेद्भवेत् । यं शिष्टा ब्राह्मणा ब्रूयुः स धर्मः स्यादशङ्कितः । । १२.१०८ । । |
धर्मेणाधिगतो यैस्तु वेदः सपरिबृंहणः । ते शिष्टा ब्राह्मणा ज्ञेयाः श्रुतिप्रत्यक्षहेतवः । । १२.१०९ । । |
दशावरा वा परिषद्यं धर्मं परिकल्पयेत् । त्र्यवरा वापि वृत्तस्था तं धर्मं न विचालयेत् । । १२.११० । । |
त्रैविद्यो हेतुकस्तर्की नैरुक्तो धर्मपाठकः । त्रयश्चाश्रमिणः पूर्वे परिषत्स्याद्दशावरा । । १२.१११ । । |
ऋग्वेदविद्यजुर्विच्च सामवेदविदेव च । त्र्यवरा परिषज्ज्ञेया धर्मसंशयनिर्णये । । १२.११२ । । |
एकोऽपि वेदविद्धर्मं यं व्यवस्येद्द्विजोत्तमः । स विज्ञेयः परो धर्मो नाज्ञानां उदितोऽयुतैः । । १२.११३ । । |
अव्रतानां अमन्त्राणां जातिमात्रोपजीविनाम् । सहस्रशः समेतानां परिषत्त्वं न विद्यते । । १२.११४ । । |
यं वदन्ति तमोभूता मूर्खा धर्मं अतद्विदः । तत्पापं शतधा भूत्वा तद्वक्तॄननुगच्छति । । १२.११५ । । |
एतद्वोऽभिहितं सर्वं निःश्रेयसकरं परम् । अस्मादप्रच्युतो विप्रः प्राप्नोति परमां गतिम् । । १२.११६ । । |
एवं स भगवान्देवो लोकानां हितकाम्यया । धर्मस्य परमं गुह्यं ममेदं सर्वं उक्तवान् । । १२.११७ । । |
सर्वं आत्मनि संपश्येत्सच्चासच्च समाहितः । सर्वं ह्यात्मनि संपश्यन्नाधर्मे कुरुते मनः । । १२.११८ । । |
आत्मैव देवताः सर्वाः सर्वं आत्मन्यवस्थितम् । आत्मा हि जनयत्येषां कर्मयोगं शरीरिणाम् । । १२.११९ । । |
खं संनिवेशयेत्खेषु चेष्टनस्पर्शनेऽनिलम् । पक्तिदृष्ट्योः परं तेजः स्नेहेऽपो गां च मूर्तिषु । । १२.१२० । । |
मनसीन्दुं दिशः श्रोत्रे क्रान्ते विष्णुं बले हरम् । वाच्यग्निं मित्रं उत्सर्गे प्रजने च प्रजापतिम् । । १२.१२१ । । |
प्रशासितारं सर्वेषां अणीयांसं अणोरपि । रुक्माभं स्वप्नधीगम्यं विद्यात्तं पुरुषं परम् । । १२.१२२ । । |
एतं एके वदन्त्यग्निं मनुं अन्ये प्रजापतिम् । इन्द्रं एके परे प्राणं अपरे ब्रह्म शाश्वतम् । । १२.१२३ । । |
एष सर्वाणि भूतानि पञ्चभिर्व्याप्य मूर्तिभिः । जन्मवृद्धिक्षयैर्नित्यं संसारयति चक्रवत् । । १२.१२४ । । |
एवं यः सर्वभूतेषु पश्यत्यात्मानं आत्मना । स सर्वसमतां एत्य ब्रह्माभ्येति परं पदम् । । १२.१२५ । । |
इत्येतन्मानवं शास्त्रं भृगुप्रोक्तं पठन्द्विजः । भवत्याचारवान्नित्यं यथेष्टां प्राप्नुयाद्गतिम् । । १२.१२६ । । |
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know