सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.3 तृतीयप्रपाठकः/2.3.2 द्वितीयोऽर्द्धः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.3 तृतीयप्रपाठकः/2.3.2 द्वितीयोऽर्द्धः

गोवित्पवस्व वसुविद्धिरण्यविद्रेतोधा इन्दो भुवनेष्वर्पितः ।

त्वं सुवीरो असि सोम विश्ववित्तं त्वा नर उप गिरेम आसते ।। ९५५ ।।

त्वं नृचक्षा असि सोम विश्वतः पवमान वृषभ ता वि धावसि ।

स नः पवस्व वसुमद्धिरण्यवद्वयं स्याम भुवनेषु जीवसे ।। ९५६ ।।

ईशान इमा भुवनानि ईयसे युजान इन्दो हरितः सुपर्ण्यः ।

तास्ते क्षरन्तु मधुमद्घृतं पयस्तव व्रते सोम तिष्ठन्तु कृष्टयः ।। ९५७ ।।

पवमानस्य विश्ववित्प्र ते सर्गा असृक्षत ।

सूर्यस्येव न रश्मयः ।। ९५८ ।।

केतुं कृण्वं दिवस्परि विश्वा रूपाभ्यर्षसि ।

समुद्रः सोम पिन्वसे ।। ९५९ ।।

जज्ञानो वाचमिष्यसि पवमान विधर्मणि ।

क्रन्दं देवो न सूर्यः ।। ९६० ।।

प्र सोमासो अधन्विषुः पवमानास इन्दवः ।

श्रीणाना अप्सु वृञ्जते ।। ९६१ ।।

अभि गावो अधन्विषुरापो न प्रवता यतीः ।

पुनाना इन्द्रमाशत ।। ९६२ ।।

प्र पवमान धन्वसि सोमेन्द्राय मादनः ।

नृभिर्यतो वि नीयसे ।। ९६३ ।।

इन्दो यदद्रिभिः सुतः पवित्रं परिदीयसे ।

अरमिन्द्रस्य धाम्ने ।। ९६४ ।।

त्वं सोम नृमादनः पवस्व चर्षणीधृतिः ।

सस्निर्यो अनुमाद्यः ।। ९६५ ।।

पवस्व वृत्रहन्तम उक्थेभिरनुमाद्यः ।

शुचिः पावको अद्भुतः ।। ९६६ ।।

शुचिः पावक उच्यते सोमः सुतः स मधुमान् ।

देवावीरघशंसहा ।। ९६७ ।।

प्र कविर्देववीतयेऽव्या वारेभिरव्यत ।

साह्वान्विश्वा अभि स्पृधः ।। ९६८ ।।

स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति ।

पवमानः सहस्रिणं ।। ९६९ ।।

परि विश्वानि चेतसा मृज्यसे पवसे मती ।

स नः सोम श्रवो विदः ।। ९७० ।।

अभ्यर्ष बृहद्यशो मघवद्भ्यो ध्रुवं रयिं ।

इषं स्तोतृभ्य आ भर ।। ९७१ ।।

त्वं राजेव सुव्रतो गिरः सोमाविवेशिथ ।

पुनानो वह्ने अद्भुत ।। ९७२ ।।

स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः ।

सोमश्चमूषु सीदति ।। ९७३ ।।

क्रीडुर्मखो न मंहयुः पवित्रं सोम गच्छसि ।

दधत्स्तोत्रे सुवीर्यं ।। ९७४ ।।

यवंयवं नो अन्धसा पुष्टंपुष्टं परि स्रव ।

विश्वा च सोम सौभगा ।। ९७५ ।।

इन्दो यथा तव स्तवो यथा ते जातमन्धसः ।

नि बर्हिषि प्रिये सदः ।। ९७६ ।।

उत नो गोविदश्ववित्पवस्व सोमान्धसा ।

मक्षूतमेभिरहभिः ।। ९७७ ।।

यो जिनाति न जीयते हन्ति शत्रुमभीत्य ।

स पवस्व सहस्रजित् ।।९७८ ।।

यास्ते धारा मधुश्चुतोऽसृग्रमिन्द ऊतये ।

ताभिः पवित्रमासदः ।। ९७९ ।।

सो अर्षेन्द्राय पीतये तिरो वाराण्यव्यया ।

सीदन्नृतस्य योनिमा ।। ९८० ।।

त्वं सोम परि स्रव स्वादिष्ठो अङ्गिरोभ्यः ।

वरिवोविद्धृतं पयः ।। ९८१ ।।

तव श्रियो वर्ष्यस्येव विद्युतोग्नेश्चिकित्र उषसामिवेतयः ।

यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमासनि ।। ९८२ ।।

वातोपजूत इषितो वशां अनु तृषु यदन्ना वेविषद्वितिष्ठसे ।

आ ते यतन्ते रथ्यो३ यथा पृथक्शर्धांस्यग्ने अजरस्य धक्षतः ।। ९८३ ।।

मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतरं मतिं ।

त्वामर्भस्य हविषः समानमित्तवां महो वृणते नान्यं त्वत् ।।९८४ ।।

पुरूरुणा चिद्ध्यस्त्यवो नूनं वां वरुण ।

मित्र वंसि वां सुमतिं ।। ९८५ ।।

ता वां सम्यगद्रुह्वाणेषमश्याम धाम च ।

वयं वां मित्रा स्याम ।। ९८६ ।।

पातं नो मित्रा पायुभिरुत त्रायेथां सुत्रात्रा ।

साह्याम दस्यूं तनूभिः ।। ९८७ ।।

उत्तिष्ठन्नोजसा सह पीत्वा शिप्रे अवेपयः ।

सोममिन्द्र चमूसुतं ।। ९८८ ।।

अनु त्वा रोदसी उभे स्पर्धमानमददेतां ।

इन्द्र यद्दस्युहाभवः ।। ९८९ ।।

वाचमष्टापदीमहं नवस्रक्तिमृतावृधं ।

इन्द्रात्परितन्वं ममे ।। ९९० ।।

१०

इन्द्राग्नी युवामिमे३ऽभि स्तोमा अनूषत ।

पिबतं शम्भुवा सुतं ।। ९९१ ।।

या वां सन्ति पुरुस्पृहो नियुतो दाशुषे नरा ।

इन्द्राग्नी ताभिरा गतं ।। ९९२ ।।

ताभिरा गच्छतं नरोपेदं सवनं सुतं ।

इन्द्राग्नी सोमपीतये ।। ९९३ ।।

११

अर्षा सोम द्युमत्तमोऽभि द्रोणानि रोरुवत् ।

सीदन्योनौ वनेष्वा ।। ९९४ ।।

अप्सा इन्द्राय वायवे वरुणाय मरुद्भ्यः ।

सोमा अर्षन्तु विष्णवे ।। ९९५ ।।

इषं तोकाय नो दधदस्मभ्यं सोम विश्वतः ।

आ पवस्व सहस्रिणं ।। ९९६ ।।

१२

सोम उ ष्वाणः सोतृभिरधि ष्णुभिरवीनां ।

अश्वयेव हरिता याति धारया मन्द्रया याति धारया ।। ९९७ ।।

अनूपे गोमान्गोभिरक्षाः सोमो दुग्धाभिरक्षाः ।

समुद्रं न संवरणान्यग्मन्मन्दी मदाय तोशते ।। ९९८ ।।

१३

यत्सोम चित्रमुक्थ्यं दिव्यं पार्थिवं वसु ।

तन्नः पुनान आ भर ।। ९९९ ।।

वृषा पुनान आयूंषि स्तनयन्नधि बर्हिषि ।

हरिः सन्योनिमासदः ।। १००० ।।

युवं हि स्थः स्वःपती इन्द्रश्च सोम गोपती ।

ईशाना पिप्यतं धियः ।। १००१ ।।

१४

इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।

तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ।।१००२ ।।

असि हि वीर सेन्योऽसि भूरि पराददिः ।

असि दभ्रस्य चिद्वृधो यजमानाय शिक्षसि सुन्वते भूरि ते वसु ।। १००३ ।।

यदुदीरत आजयो धृष्णवे धीयते धनां ।

युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ।। १००४ ।।

१५

स्वादोरित्था विषूवतो मध्वः पिबन्ति गौर्यः ।

या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभसे वस्वीरनु स्वराज्यं ।। १००५ ।।

ता अस्य पृशनायुवः सोमं श्रीणन्ति पृश्नयः ।

प्रिया इन्द्रस्य धेनवो वज्रं हिन्वन्ति सायकं वस्वीरनु स्वराज्यं ।। १००६ ।।

ता अस्य नमसा सहः सपर्यन्ति प्रचेतसः ।

व्रतान्यस्य सश्चिरे पुरूणि पूर्वचित्तये वस्वीरनु स्वराज्यं ।। १००७ ।।

१६

असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।

श्येनो न योनिमासदत् ।।१००८ ।।

शुभ्रमन्धो देववातमप्सु धौतं नृभिः सुतं ।

स्वदन्ति गावः पयोभिः ।। १००९ ।।

आदीमश्वं न हेतारमशूशुभन्नमृताय ।

मधो रसं सधमादे ।। १०१० ।।

१७

अभि द्युम्नं बृहद्यश इषस्पते दीदिहि देव देवयुं ।

वि कोशं मध्यमं युव ।। १०११ ।।

आ वच्यस्व सुदक्ष चम्वोः सुतो विशां वह्निर्न विश्पतिः ।

वृष्टिं दिवः पवस्व रीतिमपो जिन्वन्गविष्टये धियः ।। १०१२ ।।

१८

प्राणा शिशुर्महीनां हिन्वन्नृतस्य दीधितिं ।

विश्वा परि प्रिया भुवदध द्विता ।। १०१३ ।।

उप त्रितस्य पाष्यो३रभक्त यद्गुहा पदं ।

यज्ञस्य सप्त धामभिरध प्रियं ।। १०१४ ।।

त्रीणि त्रितस्य धारया पृष्टेष्वैरयद्रयिं ।

मिमीते अस्य योजना वि सुक्रतुः ।। १०१५ ।।

१९

पवस्व वाजसातये पवित्रे धारया सुतः ।

इन्द्राय सोम विष्णवे देवेभ्यो मधुमत्तरः ।। १०१६ ।।

त्वां रिहन्ति धीतयो हरिं पवित्रे अद्रुहः ।

वत्सं जातं न मातरः पवमान विधर्मणि ।। १०१७ ।।

त्वं द्यां च महिव्रत पृथिवीं चाति जभ्रिषे ।

प्रति द्रापिममुञ्चथाः पवमान महित्वना ।। १०१८ ।।

२०

इन्दुर्वाजी पवते गोन्योघा इन्द्रे सोमः सह इन्वन्मदाय ।

हन्ति रक्षो बाधते पर्यरातिं वरिवस्कृण्वन्वृजनस्य राजा ।। १०१९ ।।

अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः ।

इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ।। १०२० ।।

अभि व्रतानि पवते पुनानो देवो देवान्त्स्वेन रसेन पृञ्चन् ।

इन्दुर्धर्माण्यृतुथा वसानो दश क्षिपो अव्यत सानो अव्ये ।। १०२१ ।।

२१

आ ते अग्न इधीमहि द्युमन्तं देवाजरं ।

युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ।। १०२२ ।।

आ ते अग्न ऋचा हविः शुक्रस्य ज्योतिषस्पते ।

सुश्चन्द्र दस्म विश्पते हव्यवाट्तुभ्यं हूयत इषं स्तोतृभ्य आ भर ।। १०२३ ।।

ओभे सुश्चन्द्र विश्पते दर्वी श्रीणीष आसनि ।

उतो न उत्पुपूर्या उक्थेषु शवसस्पत इषं स्तोतृभ्य आ भर ।। १०२४ ।।

२२

इन्द्राय साम गायत विप्राय बृहते बृहत् ।

ब्रह्मकृते विपश्चिते पनस्यवे ।। १०२५ ।।

त्वमिन्द्राभिभूरसि त्वं सूर्यमरोचयः ।

विश्वकर्मा विश्वदेवो महां असि ।। १०२६ ।।

विभ्राजं ज्योतिषा त्व३रगच्छो रोचनं दिवः ।

देवास्त इन्द्र सख्याय येमिरे ।। १०२७ ।।

२३

असावि सोम इन्द्र ते शविष्ठ धृष्णवा गहि ।

आ त्वा पृणक्त्विन्द्रियं रजः सूर्यो न रश्मिभिः ।। १०२८ ।।

आ तिष्ठ वृत्रहन्रथं युक्ता ते ब्रह्मणा हरी ।

अर्वाचीनं सु ते मनो ग्रावा कृणोतु वग्नुना ।। १०२९ ।।

इन्द्रमिद्धरी वहतोऽप्रतिधृष्टशवसं ।

ऋषीणां सुष्टुतीरुप यज्ञं च मानुषाणां ।। १०३० ।।


एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

डिजिटल दीमक और बिखरता समाज (The Modern Crisis)

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें