सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.5 पञ्चमप्रपाठकः/2.5.1 प्रथमोऽर्द्धः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.5 पञ्चमप्रपाठकः/2.5.1 प्रथमोऽर्द्धः

शिशुं जज्ञानं हर्यतं मृजन्ति शुम्भन्ति विप्रं मरुतो गणेन ।

कविर्गीर्भिः काव्येना कविः सन्त्सोमः पवित्रमत्येति रेभन् ॥११७५ ॥ ऋ. ९.९६.१७

ऋषिमना य ऋषिकृत्स्वर्षाः सहस्रनीथः पदवीः कवीनां ।

तृतीयं धाम महिषः सिषासन्त्सोमो विराजमनु राजति ष्टुप् ॥११७६ ॥

चमूषच्छ्येनः शकुनो विभृत्वा गोविन्दुर्द्रप्स आयुधानि बिभ्रत् ।

अपामूर्मिं सचमानः समुद्रं तुरीयं धाम महिषो विवक्ति ॥ ११७७ ॥

एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् ।

वर्धन्तो अस्य वीर्यं ॥ ११७८ ॥ ऋ. ९.८.१

पुनानासश्चमूषदो गच्छन्तो वायुमश्विना ।

ते नो धत्त सुवीर्यं ॥ ११८१ ॥

इन्द्रस्य सोम राधसे पुनानो हार्दि चोदय ।

देवानां योनिमासदं ॥ ११८० ॥

मृजन्ति त्वा देश क्षिपो हिन्वन्ति सप्त धीतयः ।

अनु विप्रा अमादिषुः ॥ ११८१ ॥

देवेभ्यस्त्वा मदाय कं सृजानमति मेष्यः ।

स गोभिर्वासयामसि ॥ ११८२ ॥

पुनानः कलशेष्वा वस्त्राण्यरुषो हरिः ।

परि गव्यान्यव्यत ॥ ११८३ ॥

मघोन आ पवस्व नो जहि विश्वा अप द्विषः ।

इन्दो सखायमा विश ॥ ११८४ ॥

नृचक्षसं त्वा वयमिन्द्रपीतं स्वर्विदं ।

भक्षीमहि प्रजामिषं ॥ ११८५ ॥

वृष्टिं दिवः परि स्रव द्युम्नं पृथिव्या अधि ।

सहो नः सोम पृत्सु धाः ॥ ११८६ ॥

सोमः पुनानो अर्षति सहस्रधारो अत्यविः ।

वायोरिन्द्रस्य निष्कृतं ॥ ११८७ ॥

पवमानमवस्यवो विप्रमभि प्र गायत ।

सुष्वाणं देववीतये ॥ ११८८ ॥

पवन्ते वाजसातये सोमाः सहस्रपाजसः ।

गृणाना देववीतये ॥ ११८९ ॥

उत नो वाजसातये पवस्व बृहतीरिषः ।

द्युमदिन्दो सुवीर्यं ॥ ११९० ॥

अत्या हियाना न हेतृभिरसृग्रं वाजसातये ।

वि वारमव्यमाशवः ॥ ११९१ ॥

ते नः सहस्रिणं रयिं पवन्तामा सुवीर्यं ।

सुवाना देवास इन्दवः ॥ ११९२ ॥

वाश्रा अर्षन्तीन्दवोऽभि वत्सं न मातरः ।

दधन्विरे गभस्त्योः ॥ ११९३ ॥

जुष्ट इन्द्राय मत्सरः पवमान कनिक्रदत् ।

विश्वा अप द्विषो जहि ॥ ११९४ ॥

अपघ्नन्तो अराव्णः पवमानाः स्वर्दृशः ।

योनावृतस्य सीदत ॥ ११९५ ॥

सोमा असृग्रमिन्दवः सुता ऋतस्य धारया ।

इन्द्राय मधुमत्तमाः ॥ ११९६ ॥

अभि विप्रा अनूषत गावो वत्सं न धेनवः ।

इन्द्रं सोमस्य पीतये ॥ ११९७ ॥

मदच्युत्क्षेति सादने सिन्धोरूर्मा विपश्चित् ।

सोमो गौरी अधि श्रितः ॥ ११९८ ॥

दिवो नाभा विचक्षणोऽव्यो वारे महीयते ।

सोमो यः सुक्रतुः कविः ॥ ११९९ ॥

यः सोमः कलशेष्वा अन्तः पवित्र आहितः ।

तमिन्दुः परि षस्वजे ॥ १२०० ॥

प्र वाचमिन्दुरिष्यति समुद्रस्याधि विष्टपि ।

जिन्वन्कोशं मधुश्चुतं ॥ १२०१ ॥

नित्यस्तोत्रो वनस्पतिर्धेनामन्तः सबर्दुघां ।

हिन्वानो मानुषा युजा ॥ १२०२ ॥

आ पवमान धारय रयिं सहस्रवर्चसं ।

अस्मे इन्दो स्वाभुवं ॥ १२०३ ॥

अभि प्रिया दिवः कविर्विप्रः स धारया सुतः ।

सोमो हिन्वे परावति ॥ १२०४ ॥

उत्ते शुष्मास ईरते सिन्धोरूर्मेरिव स्वनः ।

वाणस्य चोदया पविं ॥ १२०५ ॥

प्रसवे त उदीरते तिस्रो वाचो मखस्युवः ।

यदव्य एषि सानवि ॥ १२०६ ॥

अव्या वारैः परि प्रियं हरिं हिन्वन्त्यद्रिभिः ।

पवमानं मधुश्चुतं ॥ १२०७ ॥

आ पवस्व मदिन्तम पवित्रं धारया कवे ।

अर्कस्य योनिमासदं ॥ १२०८ ॥

स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः ।

एन्द्रस्य जठरं विश ॥ १२०९ ॥

अया वीती परि स्रव यस्त इन्दो मदेष्वा ।

अवाहन्नवतीर्नव ॥ १२१० ॥

पुरः सद्य इत्थाधिये दिवोदासाय शंबरं ।

अध त्यं तुर्वशं यदुं ॥ १२११॥

परि नो अश्वमश्वविद्गोमदिन्दो हिरण्यवत् ।

क्षरा सहस्रिणीरिषः ॥ १२१२ ॥

अपघ्नन्पवते मृधोऽप सोमो अराव्णः ।

गच्छन्निन्द्रस्य निष्कृतं ॥ १२१३ ॥

महो नो राय आ भर पवमान जही मृधः ।

रास्वेन्दो वीरवद्यशः ॥ १२१४ ॥

न त्वा शतं च न ह्रुतो राधो दित्सन्तमा मिनन् ।

यत्पुनानो मखस्यसे ॥ १२१५ ॥

अया पवस्व धारया यया सूर्यमरोचयः ।

हिन्वानो मानुषीरपः ॥ १२१६ ॥

अयुक्त सूर एतशं पवमानो मनावधि ।

अन्तरिक्षेण यातवे ॥ १२१७ ॥

उत त्या हरितो रथे सूरो अयुक्त यातवे ।

इन्दुरिन्द्र इति ब्रुवन् ॥१२१८ ॥

अग्निं वो देवमग्निभिः सजोषा यजिष्ठं दूतमध्वरे कृणुध्वं ।

यो मर्त्येषु निध्रुविरृतावा तपुर्मूर्धा घृतान्नः पावकः ॥ १२१९ ॥

प्रोथदश्वो न यवसेऽविष्यन्यदा महः संवरणाद्व्यस्थात् ।

आदस्य वातो अनु वाति शोचिरध स्म ते व्रजनं कृष्णमस्ति ॥ १२२० ॥

उद्यस्य ते नवजातस्य वृष्णोऽग्ने चरन्त्यजरा इधानाः ।

अच्छा द्यामरुषो धूम एषि सं दूतो अग्न ईयसे हि देवान् ॥१२२१ ॥

१०

तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।

स वृषा वृषभो भुवत् ॥१२२२ ॥

इन्द्रः स दामने कृत ओजिष्ठः स बले हितः ।

द्युम्नी श्लोकी स सोम्यः ॥ १२२३ ॥

गिरा वज्रो न सम्भृतः सबलो अनपच्युतः ।

ववक्ष उग्रो अस्तृतः ॥ १२२४ ॥

११

अध्वर्यो अद्रिभिः सुतं सोमं पवित्र आ नय ।

पुनाहीन्द्राय पातवे ॥ १२२५ ॥

तव त्य इन्दो अन्धसो देवा मधोर्व्याशत ।

पवमानस्य मरुतः ॥ १२२६ ॥

दिवः पीयूषमुत्तमं सोममिन्द्राय वज्रिणे ।

सुनोता मधुमत्तमं ॥ १२२७ ॥

१२

धर्त्ता दिवः पवते कृत्व्यो रसो दक्षो देवानामनुमाद्यो नृभिः ।

हरिः सृजानो अत्यो न सत्वभिर्वृथा पाजांसि कृणुषे नदीष्वा ॥ १२२८ ॥

शूरो न धत्त आयुधा गभस्त्योः स्वा३ः सिषासन्रथिरो गविष्टिषु ।

इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभिः ॥ १२२९ ॥

इन्द्रस्य सोम पवमान ऊर्मिणा तविष्यमाणो जठरेष्वा विश ।

प्र नः पिन्व विद्युदभ्रेव रोदसी धिया नो वाजां उप माहि शश्वतः ॥ १२३० ॥

१३

यदिन्द्र प्रागपागुदङ्न्यग्वा हूयसे नृभिः ।

सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ॥ १२३१ ॥

यद्वा रुमे रुशमे श्यावके कृप इन्द्र मादयसे सचा ।

कण्वासस्त्वा स्तोमेभिर्ब्रह्मवाहस इन्द्रा यच्छन्त्या गहि ॥ १२३२ ॥

१४

उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।

सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥१२३३ ॥

तं हि स्वराजं वृषभं तमोजसा धिषणे निष्टतक्षतुः ।

उतोपमानां प्रथमो नि षीदसि सोमकामं हि ते मनः ॥ १२३४ ॥

१५

पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः ।

वायुमा रोह धर्मणा ॥ १२३५ ॥

पवमान नि तोशसे रयिं सोम श्रवाय्यं ।

इन्दो समुद्रमा विश ॥ १२३६ ॥

अपघ्नन्पवसे मृधः क्रतुवित्सोम मत्सरः ।

नुदस्वादेवयुं जनं ॥ १२३७ ॥

१६

अभी नो वाजसातमं रयिमर्ष शतस्पृहं ।

इन्दो सहस्रभर्णसं तुविद्युम्नं विभासहं ॥ १२३८ ॥

वयं ते अस्य राधसो वसोर्वसो पुरुस्पृहः ।

नि नेदिष्ठतमा इषः स्याम सुम्ने ते आध्रिगो ॥ १२३९ ॥

परि स्य स्वानो अक्षरदिन्दुरव्ये मदच्युतः ।

धारा य ऊर्ध्वो अध्वरे भ्राजा न याति गव्ययुः ॥ १२४० ॥

१७

पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ॥ १२४१ ॥

शुक्रः पवस्व देवेभ्यः सोम दिवे पृथिव्यै शं च प्रजाभ्यः ॥ १२४२ ॥

दिवो धर्त्तासि शुक्रः पीयूषः सत्ये विधर्मन्वाजी पवस्व ॥ १२४३ ॥

१८

प्रेष्ठं वो अतिथिं स्तुषे मित्रमिव प्रियं ।

अग्ने रथं न वेद्यं ॥ १२४४ ॥

कविमिव प्रशंस्यं यं देवास इति द्विता ।

नि मर्त्येष्वादधुः ॥ १२४५ ॥

त्वं यविष्ठ दाशुषो नॄँ: पाहि शृणुही गिरः ।

रक्षा तोकमुत त्मना ॥ १२४६ ॥

१९

एन्द्र नो गधि प्रिय सत्राजिदगोह्य ।

गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥ १२४७ ॥

अभि हि सत्य सोमपा उभे बभूथ रोदसी ।

इन्द्रासि सुन्वतो वृधः पतिर्दिवः ॥ १२४८ ॥

त्वं हि शश्वतीनामिन्द्र धर्त्ता पुरामसि ।

हन्ता दस्योर्मनोर्वृधः पतिर्दिवः ॥ १२४९ ॥

२०

पुरां भिन्दुर्युवा कविरमितौजा अजायत ।

इन्द्रो विश्वस्य कर्मणो धर्त्ता वज्री पुरुष्टुतः ॥ १२५० ॥

त्वं वलस्य गोमतोऽपावरद्रिवो बिलं ।

त्वां देवा अबिभ्युषस्तुज्यमानास आविषुः ॥ १२५१ ॥

इन्द्रमीशानमोजसाभि स्तोमैरनूषत ।

सहस्रं यस्य रातय उत वा सन्ति भूयसीः ॥ १२५२ ॥



एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

डिजिटल दीमक और बिखरता समाज (The Modern Crisis)

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें