रामायणम्/बालकाण्डम्/सर्गः ६१

 श्रीमद्वाल्मीकियरामायणे बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥


विश्वामित्रो महातेजाः प्रस्थितान् वीक्ष्य तानृषीन्।
अब्रवीन्नरशार्दूल सर्वांस्तान् वनवासिनः ॥१॥

महाविघ्नः प्रवृत्तोऽयं दक्षिणामास्थितो दिशम्।
दिशमन्यां प्रपत्स्यामस्तत्र तप्स्यामहे तपः ॥२॥

पश्चिमायां विशालायां पुष्करेषु महात्मनः।
सुखं तपश्चरिष्यामः सुखं तद्धि तपोवनम् ॥३॥

एवमुक्त्वा महातेजाः पुष्करेषु महामुनिः।
तप उग्रं दुराधर्षं तेपे मूलफलाशनः ॥४॥

एतस्मिन्नेव काले तु अयोध्याधिपतिर्महान्।
अम्बरीष इति ख्यातो यष्टुं समुपचक्रमे ॥५॥

तस्य वै यजमानस्य पशुमिन्द्रो जहार ह।
प्रणष्टे तु पशौ विप्रो राजानमिदमब्रवीत् ॥६॥

पशुरभ्याहृतो राजन् प्रणष्टस्तव दुर्नयात्।
अरक्षितारं राजानं घ्नन्ति दोषा नरेश्वर ॥७॥

प्रायश्चित्तं महद्ध्येतन्नरं वा पुरुषर्षभ।
आनयस्व पशुं शीघ्रं यावत् कर्म प्रवर्तते ॥८॥

उपाध्यायवचः श्रुत्वा स राजा पुरुषर्षभः।
अन्वियेष महाबुद्धिः पशुं गोभिः सहस्रशः ॥९॥

देशाञ्जनपदांस्तांस्तान् नगराणि वनानि च।
आश्रमाणि च पुण्यानि मार्गमाणो महीपतिः ॥१०॥

स पुत्रसहितं तात सभार्यं रघुनन्दन।
भृगुतुंगे समासीनमृचीकं संददर्श ह ॥११॥

तमुवाच महातेजाः प्रणम्याभिप्रसाद्य च।
महर्षिं तपसा दीप्तं राजर्षिरमितप्रभः ॥१२॥

पृष्ट्वा सर्वत्र कुशलमृचीकं तमिदं वचः।
गवां शतसहस्रेण विक्रीणीषे सुतं यदि ॥१३॥

पशोरर्थे महाभाग कृतकृत्योऽस्मि भार्गव।
सर्वे परिगता देशा यज्ञियं न लभे पशुम् ॥१४॥

दातुमर्हसि मूल्येन सुतमेकमितो मम।
एवमुक्तो महातेजा ऋचीकस्त्वब्रवीद् वचः ॥१५॥

नाहं ज्येष्ठं नरश्रेष्ठ विक्रीणीयां कथंचन।
ऋचीकस्य वचः श्रुत्वा तेषां माता महात्मनाम् ॥१६॥

उवाच नरशार्दूलमम्बरीषमिदं वचः।
अविक्रेयं सुतं ज्येष्ठं भगवानाह भार्गवः ॥१७॥

ममापि दयितं विद्धि कनिष्ठं शुनकं प्रभो।
तस्मात् कनीयसं पुत्रं न दास्ये तव पार्थिव ॥१८॥

प्रायेण हि नरश्रेष्ठ ज्येष्ठाः पितृषु वल्लभाः।
मातॄणां च कनीयांसस्तस्माद् रक्ष्ये कनीयसम् ॥१९॥

उक्तवाक्ये मुनौ तस्मिन् मुनिपत्न्यां तथैव च।
शुनःशेपः स्वयं राम मध्यमो वाक्यमब्रवीत् ॥२०॥

पिता ज्येष्ठमविक्रेयं माता चाह कनीयसम्।
विक्रेयं मध्यमं मन्ये राजपुत्र नयस्व माम् ॥२१॥

अथ राजा महाबाहो वाक्यान्ते ब्रह्मवादिनः।
हिरण्यस्य सुवर्णस्य कोटिभी रत्नराशिभिः ॥२२॥

गवां शतसहस्रेण शुनःशेपं नरेश्वरः।
गृहीत्वा परमप्रीतो जगाम रघुनन्दन ॥२३॥

अम्बरीषस्तु राजर्षी रथमारोप्य सत्वरः।
शुनःशेपं महातेजा जगामाशु महायशाः ॥२४॥

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये बालकाण्डे एकषष्ठितमः सर्गः ॥१-६१॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

आधुनिक कोशिकीय जीव विज्ञान (Cell Biology), शरीर विज्ञान (Anatomy) और क्वांटम चेतना

View of the Site

यह ब्लॉग खोजें