एवं गृहाश्रमे स्थित्वा विधिवत्स्नातको द्विजः । वने वसेत्तु नियतो यथावद्विजितेन्द्रियः । । ६.१ । । |
गृहस्थस्तु यथा पश्येद्वलीपलितं आत्मनः । अपत्यस्यैव चापत्यं तदारण्यं समाश्रयेत् । । ६.२ । । |
संत्यज्य ग्राम्यं आहारं सर्वं चैव परिच्छदम् । पुत्रेषु भार्यां निक्षिप्य वनं गच्छेत्सहैव वा । । ६.३ । । |
अग्निहोत्रं समादाय गृह्यं चाग्निपरिच्छदम् । ग्रामादरण्यं निःसृत्य निवसेन्नियतेन्द्रियः । । ६.४ । । |
मुन्यन्नैर्विविधैर्मेध्यैः शाकमूलफलेन वा । एतानेव महायज्ञान्निर्वपेद्विधिपूर्वकम् । । ६.५ । । |
वसीत चर्म चीरं वा सायं स्नायात्प्रगे तथा । जटाश्च बिभृयान्नित्यं श्मश्रुलोमनखानि च । । ६.६ । । |
यद्भक्ष्यं स्याद्ततो दद्याद्बलिं भिक्षां च शक्तितः । अम्मूलफलभिक्षाभिरर्चयेदाश्रमागतान् । । ६.७ । । |
स्वाध्याये नित्ययुक्तः स्याद्दान्तो मैत्रः समाहितः । दाता नित्यं अनादाता सर्वभूतानुकम्पकः । । ६.८ । । |
वैतानिकं च जुहुयादग्निहोत्रं यथाविधि । दर्शं अस्कन्दयन्पर्व पौर्णमासं च योगतः । । ६.९ । । |
ऋक्षेष्ट्याग्रयणं चैव चातुर्मास्यानि चाहरेत् । तुरायणं च क्रमशो दक्षस्यायनं एव च । । ६.१० । । |
वासन्तशारदैर्मेध्यैर्मुन्यन्नैः स्वयं आहृतैः । पुरोडाशांश्चरूंश्चैव विधिवन्निर्वपेत्पृथक् । । ६.११ । । |
देवताभ्यस्तु तद्धुत्वा वन्यं मेध्यतरं हविः । शेषं आत्मनि युञ्जीत लवणं च स्वयं कृतम् । । ६.१२ । । |
स्थलजाउदकशाकानि पुष्पमूलफलानि च । मेध्यवृक्षोद्भवान्यद्यात्स्नेहांश्च फलसंभवान् । । ६.१३ । । |
वर्जयेन्मधु मांसं च भौमानि कवकानि च । भूस्तृणं शिग्रुकं चैव श्लेश्मातकफलानि च । । ६.१४ । । |
त्यजेदाश्वयुजे मासि मुन्यन्नं पूर्वसंचितम् । जीर्णानि चैव वासांसि शाकमूलफलानि च । । ६.१५ । । |
न फालकृष्टं अश्नीयादुत्सृष्टं अपि केन चित् । न ग्रामजातान्यार्तोऽपि मूलाणि च फलानि च । । ६.१६ । । |
अग्निपक्वाशनो वा स्यात्कालपक्वभुगेव वा । अश्मकुट्टो भवेद्वापि दन्तोलूखलिकोऽपि वा । । ६.१७ । । |
सद्यः प्रक्षालको वा स्यान्माससंचयिकोऽपि वा । षण्मासनिचयो वा स्यात्समानिचय एव वा । । ६.१८ । । |
नक्तं चान्नं समश्नीयाद्दिवा वाहृत्य शक्तितः । चतुर्थकालिको वा स्यात्स्याद्वाप्यष्टमकालिकः । । ६.१९ । । |
चान्द्रायणविधानैर्वा शुक्लकृष्णे च वर्तयेत् । पक्षान्तयोर्वाप्यश्नीयाद्यवागूं क्वथितां सकृत् । । ६.२० । । |
पुष्पमूलफलैर्वापि केवलैर्वर्तयेत्सदा । कालपक्वैः स्वयं शीर्णैर्वैखानसमते स्थितः । । ६.२१ । । |
भूमौ विपरिवर्तेत तिष्ठेद्वा प्रपदैर्दिनम् । स्थानासनाभ्यां विहरेत्सवनेषूपयन्नपः । । ६.२२ । । |
ग्रीष्मे पञ्चतपास्तु स्याद्वर्षास्वभ्रावकाशिकः । आर्द्रवासास्तु हेमन्ते क्रमशो वर्धयंस्तपः । । ६.२३ । । |
उपस्पृशंस्त्रिषवणं पितॄन्देवांश्च तर्पयेत् । तपश्चरंश्चोग्रतरं शोषयेद्देहं आत्मनः । । ६.२४ । । |
अग्नीनात्मनि वैतानान्समारोप्य यथाविधि । अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः । । ६.२५ । । |
अप्रयत्नः सुखार्थेषु ब्रह्मचारी धराशयः । शरणेष्वममश्चैव वृक्षमूलनिकेतनः । । ६.२६ । । |
तापसेष्वेव विप्रेषु यात्रिकं भैक्षं आहरेत् । गृहमेधिषु चान्येषु द्विजेषु वनवासिषु । । ६.२७ । । |
ग्रामादाहृत्य वाश्नीयादष्टौ ग्रासान्वने वसन् । प्रतिगृह्य पुटेनैव पाणिना शकलेन वा । । ६.२८ । । |
एताश्चान्याश्च सेवेत दीक्षा विप्रो वने वसन् । विविधाश्चाउपनिषदीरात्मसंसिद्धये श्रुतीः । । ६.२९ । । |
ऋषिभिर्ब्राह्मणैश्चैव गृहस्थैरेव सेविताः । विद्यातपोविवृद्ध्यर्थं शरीरस्य च शुद्धये । । ६.३० । । |
अपराजितां वास्थाय व्रजेद्दिशं अजिह्मगः । आ निपाताच्छरीरस्य युक्तो वार्यनिलाशनः । । ६.३१ । । |
आसां महर्षिचर्याणां त्यक्त्वान्यतमया तनुम् । वीतशोकभयो विप्रो ब्रह्मलोके महीयते । । ६.३२ । । |
वनेषु च विहृत्यैवं तृतीयं भागं आयुषः । चतुर्थं आयुषो भागं त्यक्वा सङ्गान्परिव्रजेत् । । ६.३३ । । |
आश्रमादाश्रमं गत्वा हुतहोमो जितेन्द्रियः । भिक्षाबलिपरिश्रान्तः प्रव्रजन्प्रेत्य वर्धते । । ६.३४ । । |
ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् । अनपाकृत्य मोक्षं तु सेवमानो व्रजत्यधः । । ६.३५ । । |
अधीत्य विधिवद्वेदान्पुत्रांश्चोत्पाद्य धर्मतः । इष्ट्वा च शक्तितो यज्ञैर्मनो मोक्षे निवेशयेत् । । ६.३६ । । |
अनधीत्य द्विजो वेदाननुत्पाद्य तथा सुतान् । अनिष्ट्वा चैव यज्ञैश्च मोक्षं इच्छन्व्रजत्यधः । । ६.३७ । । |
प्राजापत्यं निरुप्येष्टिं सर्ववेदसदक्षिणाम् । आत्मन्यग्नीन्समारोप्य ब्राह्मणः प्रव्रजेद्गृहात् । । ६.३८ । । |
यो दत्त्वा सर्वभूतेभ्यः प्रव्रजत्यभयं गृहात् । तस्य तेजोमया लोका भवन्ति ब्रह्मवादिनः । । ६.३९ । । |
यस्मादण्वपि भूतानां द्विजान्नोत्पद्यते भयम् । तस्य देहाद्विमुक्तस्य भयं नास्ति कुतश्चन । । ६.४० । । |
अगारादभिनिष्क्रान्तः पवित्रोपचितो मुनिः । समुपोढेषु कामेषु निरपेक्षः परिव्रजेत् । । ६.४१ । । |
एक एव चरेन्नित्यं सिद्ध्यर्थं असहायवान् । सिद्धिं एकस्य संपश्यन्न जहाति न हीयते । । ६.४२ । । |
अनग्निरनिकेतः स्याद्ग्रामं अन्नार्थं आश्रयेत् । उपेक्षकोऽसंकुसुको मुनिर्भावसमाहितः । । ६.४३ । । |
कपालं वृक्षमूलानि कुचेलं असहायता । समता चैव सर्वस्मिन्नेतन्मुक्तस्य लक्षणम् । । ६.४४ । । |
नाभिनन्देत मरणं नाभिनन्देत जीवितम् । कालं एव प्रतीक्षेत निर्वेशं भृतको यथा । । ६.४५ । । |
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिबेत् । सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् । । ६.४६ । । |
अतिवादांस्तितिक्षेत नावमन्येत कं चन । न चेमं देहं आश्रित्य वैरं कुर्वीत केन चित् । । ६.४७ । । |
क्रुद्ध्यन्तं न प्रतिक्रुध्येदाक्रुष्टः कुशलं वदेत् । सप्तद्वारावकीर्णां च न वाचं अनृतां वदेत् । । ६.४८ । । |
अध्यात्मरतिरासीनो निरपेक्षो निरामिषः । आत्मनैव सहायेन सुखार्थी विचरेदिह । । ६.४९ । । |
न चोत्पातनिमित्ताभ्यां न नक्षत्राङ्गविद्यया । नानुशासनवादाभ्यां भिक्षां लिप्सेत कर्हि चित् । । ६.५० । । |
न तापसैर्ब्राह्मणैर्वा वयोभिरपि वा श्वभिः । आकीर्णं भिक्षुकैर्वान्यैरगारं उपसंव्रजेत् । । ६.५१ । । |
क्ल्प्तकेशनखश्मश्रुः पात्री दण्डी कुसुम्भवान् । विचरेन्नियतो नित्यं सर्वभूतान्यपीडयन् । । ६.५२ । । |
अतैजसानि पात्राणि तस्य स्युर्निर्व्रणानि च । तेषां अद्भिः स्मृतं शौचं चमसानां इवाध्वरे । । ६.५३ । । |
अलाबुं दारुपात्रं च मृण्मयं वैदलं तथा । एताणि यतिपात्राणि मनुः स्वायंभुवोऽब्रवीत् । । ६.५४ । । |
एककालं चरेद्भैक्षं न प्रसज्जेत विस्तरे । भैक्षे प्रसक्तो हि यतिर्विषयेष्वपि सज्जति । । ६.५५ । । |
विधूमे सन्नमुसले व्यङ्गारे भुक्तवज्जने । वृत्ते शरावसंपाते भिक्षां नित्यं यतिश्चरेत् । । ६.५६ । । |
अलाभे न विषदी स्याल्लाभे चैव न हर्षयेत् । प्राणयात्रिकमात्रः स्यान्मात्रासङ्गाद्विनिर्गतः । । ६.५७ । । |
अभिपूजितलाभांस्तु जुगुप्सेतैव सर्वशः । अभिपूजितलाभैश्च यतिर्मुक्तोऽपि बध्यते । । ६.५८ । । |
अल्पान्नाभ्यवहारेण रहःस्थानासनेन च । ह्रियमाणानि विषयैरिन्द्रियाणि निवर्तयेत् । । ६.५९ । । |
इन्द्रियाणां निरोधेन रागद्वेशक्षयेण च । अहिंसया च भूतानां अमृतत्वाय कल्पते । । ६.६० । । |
अवेक्षेत गतीर्नॄणां कर्मदोषसमुद्भवाः । निरये चैव पतनं यातनाश्च यमक्षये । । ६.६१ । । |
विप्रयोगं प्रियैश्चैव संयोगं च तथाप्रियैः । जरया चाभिभवनं व्याधिभिश्चोपपीडनम् । । ६.६२ । । |
देहादुत्क्रमणं चाष्मात्पुनर्गर्भे च संभवम् । योनिकोटिसहस्रेषु सृतीश्चास्यान्तरात्मनः । । ६.६३ । । |
अधर्मप्रभवं चैव दुःखयोगं शरीरिणाम् । धर्मार्थप्रभवं चैव सुखसंयोगं अक्षयम् । । ६.६४ । । |
सूक्ष्मतां चान्ववेक्षेत योगेन परमात्मनः । देहेषु च समुत्पत्तिं उत्तमेष्वधमेषु च । । ६.६५ । । |
दूषितोऽपि चरेद्धर्मं यत्र तत्राश्रमे रतः । समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणम् । । ६.६६ । । |
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकम् । न नामग्रहणादेव तस्य वारि प्रसीदति । । ६.६७ । । |
संरक्षणार्थं जन्तूनां रात्रावहनि वा सदा । शरीरस्यात्यये चैव समीक्ष्य वसुधां चरेत् । । ६.६८ । । |
अह्ना रात्र्या च याञ् जन्तून्हिनस्त्यज्ञानतो यतिः । तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान्षडाचरेत् । । ६.६९ । । |
प्राणायामा ब्राह्मणस्य त्रयोऽपि विधिवत्कृताः । व्याहृतिप्रणवैर्युक्ता विज्ञेयं परमं तपः । । ६.७० । । |
दह्यन्ते ध्मायमानानां धातूनां हि यथा मलाः । तथेन्द्रियाणां दह्यन्ते दोषाः प्राणस्य निग्रहात् । । ६.७१ । । |
प्राणायमैर्दहेद्दोषान्धारणाभिश्च किल्बिषम् । प्रत्याहारेण संसर्गान्ध्यानेनानीश्वरान्गुणान् । । ६.७२ । । |
उच्चावचेषु भूतेषु दुर्ज्ञेयां अकृतात्मभिः । ध्यानयोगेन संपश्येद्गतिं अस्यान्तरात्मनः । । ६.७३ । । |
सम्यग्दर्शनसंपन्नः कर्मभिर्न निबध्यते । दर्शनेन विहीनस्तु संसारं प्रतिपद्यते । । ६.७४ । । |
अहिंसयेन्द्रियासङ्गैर्वैदिकैश्चैव कर्मभिः । तपसश्चरणैश्चोग्रैः साधयन्तीह तत्पदम् । । ६.७५ । । |
अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनम् । चर्मावनद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः । । ६.७६ । । |
जराशोकसमाविष्टं रोगायतनं आतुरम् । रजस्वलं अनित्यं च भूतावासं इमं त्यजेत् । । ६.७७ । । |
नदीकूलं यथा वृक्षो वृक्षं वा शकुनिर्यथा । तथा त्यजन्निमं देहं कृच्छ्राद्ग्राहाद्विमुच्यते । । ६.७८ । । |
प्रियेषु स्वेषु सुकृतं अप्रियेषु च दुष्कृतम् । विसृज्य ध्यानयोगेन ब्रह्माभ्येति सनातनम् । । ६.७९ । । |
यदा भावेन भवति सर्वभावेषु निःस्पृहः । तदा सुखं अवाप्नोति प्रेत्य चेह च शाश्वतम् । । ६.८० । । |
अनेन विधिना सर्वांस्त्यक्त्वा सङ्गाञ् शनैः शनैः । सर्वद्वन्द्वविनिर्मुक्तो ब्रह्मण्येवावतिष्ठते । । ६.८१ । । |
ध्यानिकं सर्वं एवैतद्यदेतदभिशब्दितम् । न ह्यनध्यात्मवित्कश्चित्क्रियाफलं उपाश्नुते । । ६.८२ । । |
अधियज्ञं ब्रह्म जपेदाधिदैविकं एव च । आध्यात्मिकं च सततं वेदान्ताभिहितं च यत् । । ६.८३ । । |
इदं शरणं अज्ञानां इदं एव विजानताम् । इदं अन्विच्छतां स्वर्गं इदं आनन्त्यं इच्छताम् । । ६.८४ । । |
अनेन क्रमयोगेन परिव्रजति यो द्विजः । स विधूयेह पाप्मानं परं ब्रह्माधिगच्छति । । ६.८५ । । |
एष धर्मोऽनुशिष्टो वो यतीनां नियतात्मनाम् । वेदसंन्यासिकानां तु कर्मयोगं निबोधत । । ६.८६ । । |
ब्रह्मचारी गृहस्थश्च वानप्रस्थो यतिस्तथा । एते गृहस्थप्रभवाश्चत्वारः पृथगाश्रमाः । । ६.८७ । । |
सर्वेऽपि क्रमशस्त्वेते यथाशास्त्रं निषेविताः । यथोक्तकारिणं विप्रं नयन्ति परमां गतिम् । । ६.८८ । । |
सर्वेषां अपि चैतेषां वेदस्मृतिविधानतः । गृहस्थ उच्यते श्रेष्ठः स त्रीनेतान्बिभर्ति हि । । ६.८९ । । |
यथा नदीनदाः सर्वे सागरे यान्ति संस्थितिम् । तथैवाश्रमिणः सर्वे गृहस्थे यान्ति संस्थितिम् । । ६.९० । । |
चतुर्भिरपि चैवैतैर्नित्यं आश्रमिभिर्द्विजैः । दशलक्षणको धर्मः सेवितव्यः प्रयत्नतः । । ६.९१ । । |
धृतिः क्षमा दमोऽस्तेयं शौचं इन्द्रियनिग्रहः । धीर्विद्या सत्यं अक्रोधो दशकं धर्मलक्षणम् । । ६.९२ । । |
दश लक्षणानि धर्मस्य ये विप्राः समधीयते । अधीत्य चानुवर्तन्ते ते यान्ति परमां गतिम् । । ६.९३ । । |
दशलक्षणकं धर्मं अनुतिष्ठन्समाहितः । वेदान्तं विधिवच्छ्रुत्वा संन्यसेदनृणो द्विजः । । ६.९४ । । |
संन्यस्य सर्वकर्माणि कर्मदोषानपानुदन् । नियतो वेदं अभ्यस्य पुत्रैश्वर्ये सुखं वसेत् । । ६.९५ । । |
एवं संन्यस्य कर्माणि स्वकार्यपरमोऽस्पृहः । संन्यासेनापहत्यैनः प्राप्नोति परमं गतिम् । । ६.९६ । । |
एष वोऽभिहितो धर्मो ब्राह्मणस्य चतुर्विधः । पुण्योऽक्षयफलः प्रेत्य राज्ञां धर्मं निबोधत । । ६.९७ । । |
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know