आङ्गिरसस्मृतिः


श्रीगणेशाय नमः।

अथ वीरमित्रोदयस्य समयप्रकाशः।

कोपाटोपनटत्सटोद्भटमटद्भ्रूभीषणभ्रूकुटि

भ्राम्यद्भैरवदृष्टि निर्भरनमद्दर्वीकरोर्वीधरम्।

नीर्वाणारिवपुर्विपाटविकटाभोगत्रुटद्धाटक-

ब्रह्नाण्डोरुकटाहकोटि नृहरेरव्यादपूर्वं वपुः ।। 1 ।।

सटाग्रव्यग्रेन्दुस्रवदमृतबिन्दुप्रतिवल

न्महादैत्यारम्भम्फुरितगुरुसंरम्भरभसः।

लिहन्नाशाचक्रं हुतवहशिखावद्रसनया

नृसिंहो रंहोभिर्द्दमयतु मदंहो मदकलम् ।। 2 ।।

संसारध्वंसिकंसप्रमुखसुररिपुप्रांशुवशावतस-

भ्रंशी वंशीधरो वः प्रचुरयतु चिरं शं स राधारिरंसी।

यच्चूडारूढगूढास्मतमधुरमुखाम्भोजशोबां दिदृक्षु-

र्गुञ्जाभिः सानुरागालिकानकटनटच्चन्द्रकव्यक्तचक्षुः ।। 3 ।।

लीलाभ्रान्तिविसर्पदम्वरतया व्यग्राद्धकान्तं पद-

न्यासन्यञ्चदुदञ्चदद्रिवसुधाभोगीन्द्रकूर्म्माधिपम्।

फूत्कारस्फुरदुत्पतत्फणिकुलं रिङ्गज्जटाताडन-

ध्मातव्योमगभरिदुन्दुभि नटन्नव्यात्स वो धूर्ज्जटिः ।। 4 ।।

कुम्भोद्भ्रान्तमधुव्रतावलिवलट्झङ्कारकोलाहलैः

शुण्डास्फालनविह्वलैः स्तुत इव व्यालैर्वियत्प्लाविभिः।

मज्जत्कुम्भमहावगाहनकृतारम्भो महाम्भोनिधौ

हेरम्बः कुरुतां कृताम्बरकरालम्बश्चिरं वः शिवम् ।। 5 ।।

समन्तात्पश्यन्ती समसमयमेव त्रिभुवनं

त्रिभिर्न्नैत्रैर्द्दोर्भिर्द्दशभिरपि पान्ती दश दिशः।

दधाना पारीन्द्रोपरि चरणमेकं परपदा

हतारिर्वो हन्यान्महिषमथनी मोहमहिषम् ।। 6 ।।

वामान् भिन्दन्नवामान् भुवमनु सुखयन्पूरयन्नर्थिकामान्

श्रीमान् भीमानुकारी बहलबलभरैर्मेदिनीमल्लनामा।

आसीदासीविषेन्द्रद्युतिधवलयशा भूपचक्रावतसः

सीकाशीराजवंशे विधुरिव जलधौ सर्वभूसार्वभौमः ।। 7 ।।

सङ्ग्रामग्रामकामो निरुपममहिमा सत्त्वविश्रामधाम

क्रामन्नेवारिचक्रं मिहिर इव तमो विक्रमोरुक्रमेण।

सारैर्मेरोरुदारैरपर इव गिरिर्मेदिनीमल्लनेन

प्रख्यातः क्षोणिचक्र समजनि नुपातिर्मेदिनीमल्लनामा ।। 8 ।।

निर्य्यद्भिस्तर्ज्जयद्भिर्विधुमिव जगतीमर्ज्जुनाभैर्यशोभिः

सम्पूर्यावार्यवीर्यो विशिखवितरणैरर्ज्जुनो दुर्ज्जनानाम्।

साम्राज्योपार्ज्जर्नश्रीरगणितगुणभूरर्ज्जुनप्रांशुबाहु-

र्नाम्नाभूदर्ज्जुनोऽस्मान्नरपतिरतुलो मेदिनीमल्लभूपात् ।। 9 ।।

बुद्धिः शुद्धिमती क्षमा निरुपमा विद्यानवद्या मनो

गाम्भीर्यैकनिकेतनं वितरणे दीनार्तिनिर्दारणम्।

आसीदर्ज्जुनभूपतेर्विदधेतो विद्रावणे विद्विषां

भूमीनामवनं च कारणगुणात्कार्यं यशोऽप्यर्ज्जुनम् ।। 10 ।।

तस्मादाविरभूत्प्रभूतमहिमा भूमपितेरर्ज्जुना-

त्सौजन्यैकनिधिर्गुणैरनवधिर्लावण्यवारांनिधिः।

भिन्दन् दुर्जनमर्ज्जयन् बहुयशः प्रौढप्रतापोदयै-

र्दुर्जेयो मलखाननाम निखिलक्ष्मामण्डलाखण्डलः ।। 11 ।।

यस्मिन् शासति नीतिभिः क्षितिमिमां निर्वैरमासीज्जग-

त्पारीन्द्रेण समं करीन्द्ररभसारम्भोऽपि सम्भावितः।

श्येनः क्रीडति कौतुकी स्म विहगैश्चिक्रीड नक्रैर्झषः

किं वान्यद्गहनेऽभवत्सह मृगैः शार्दूलविक्रीडितम् ।। 12 ।।

हिमविशदयशोऽभिशोभिताशो महिमतिरोहितवारिधिप्रभावः।

समजनि मलखानतः प्रतापैस्त्रिजगति रुद्र इव प्रतापरुद्रः ।। 13 ।।

शुचि धनमर्थिंनि सहसा यशसा सममानने गुणो जगतः।

पुत्रे भूरभिदध्रे चेतो रुद्रे प्रतापरुद्रेण ।। 14 ।।

जातः प्रतापरुद्रात्ससमुद्रां पालयन्नवनीम्।

कृतरिपुकाननदाहो मधुकरसाहौ महीपतिः शुशुभे ।। 15 ।।

पृथुः पुण्याभोगैर्विहितहितयोगैरनुदय-

त्खलायोगैर्योगैः कृतसुकतियोगैरपि गुरुः।

भुजस्तम्भालम्बासशयितविश्वम्भरतया

बभौ प्रौढोत्साहः स मधुकरसाहः क्षितिपतिः ।। 16 ।।

प्रजागणरुजापहो द्युतिमहोदयाविष्कृतः

सुधांशुरिव मांसलो रसभरैः सभारञ्जनः।

प्रदीप्तकुमुदावलिर्द्विजपतिश्च नक्षत्रपो

नृपो जयति सत्कृपो मधुकरः कृतारित्रपः ।। 17 ।।

विन्यस्य वीरसिंहे भूपतिसिंहे महीभारम्।

ज्ञानानलमलदाहो मधुकरसाहो दिवं भेजे ।। 18 ।।

अन्तर्गम्भीरतान्धूकृतरिपुनिवहो नृत्यसङ्गीतरङ्गी

सन्मातङ्गी तुरङ्गी धरणिपतिरभूद्वीरसिंहो नृसिंहः ।। 19 ।।

अमुष्य प्रस्थाने सति सपदि नानेभनिवहै-

रिहैकोऽपि द्वेषी न खलु रणशेषी समजनि।

परं तस्थौ दुःस्थो गहनकुहरस्थोऽपि भयतः

क्षिपन्नुच्चैर्दिक्षु भ्रमितचकितं चक्षुरभितः ।। 20 ।।

दानं कल्पमहीरुहोपरि यशः क्षीरोदनीरोपरि

प्रज्ञा शक्रपुरोहितोपरि महासारोऽपि मेरूपरि।

दावाग्नेरुपरि प्रतापगरिमा कामोपरि श्रीरभृ

त्सिंहातिक्रमवीरसिंहनृपतेः किं किं न कस्योपरि ।। 21 ।।

दानैरर्थिनमर्थनाविरहिणं प्रत्यर्थिनं च क्षणा-

त्कुर्वाणे सति वीरसिंहनिखिलक्ष्मामण्डलाखण्डले।

कामं चेतसि कामधेनुरतनोत्कल्पद्रुमः कल्पितं

मोघीभूतजनिः समाश्रितखनिश्चिन्तां च चिन्तामणिः ।। 22 ।।

भ्रामंभ्राममसम्भ्रमं त्रिजगतीवक्राणि चक्रे चिरा-

च्चारं शीलितविष्णुपादपदवीब्रह्नाण्डभाण्डोपरि।

ब्रह्नाण्डं निजमण्डमण्डलमिवाच्छाद्यैव सैवाधुना

विश्वेषामपि यस्य भास्वरयशोहंसी वतंसीयति ।। 23 ।।

जलकणिकामिव जलधिं कणमिव कनकाचलं मनुते।

नृपसिंहवीरसिंहो वितरणरंहो यदा तनुते ।। 24 ।।

यदा भवति कुण्डलीकृतमहाधनुर्मण्डल-

स्तदा नयनताण्डवत्रुजितखाण्डवः पाण्डवः।

मनोवितरणोत्सुकं वहति वीरसिंहो यदा

तदा पुनरुदारधीरयमवर्णि कर्णो जनैः ।। 25 ।।

शौर्यौदार्यगभीरताधृतिदयादानादिनानागुणा-

नुर्वीदुर्वहभारवत्यहिपतिस्पर्द्धालदोःशालिनि।

संयोज्यैव जुहारसिंहधरणीधौरेयचूडामणौ

मज्जन् ब्रह्नणि वीरसिंहसुकृती तस्थौ स्वयं निर्गुणः ।। 26 ।।

नद्यः स्वादुजला द्रुमाश्च सुफला भूरुर्वरा भूसुरा

वेदध्वानविधूयमानदुरिता लोका विशोका बभुः।

राजन्नीतिनिरीतिरीति पितरीवोर्वीमिमां शासति

श्रीद्धीरजुहारसिंहनृपतौ भ्रूभङ्गभग्नद्विषि ।। 27 ।।

सङ्गरामोत्कटताण्डवोद्भटभटैरारब्धहेलाहठै

श्चण्डाडम्बरपूरिताम्बरतटक्षीराब्धिगोध्रावटैः।

भूभृत्सिंहजुहारसिंहधरणीजानेः प्रयाणे रणे

शौर्यौदार्यधनोऽपि को नु धरणीचक्रे न चक्रे भयम् ।। 28 ।।

तावद्वीरगभीरहुंकृतिरवस्तावद्गजाडम्बर-

स्तावत्तुङ्गतुरङ्गरिङ्गणचमत्कारश्चमूनामपि।

तावत्तोयमहामहीभृदटवीदुर्गग्रहो विद्विषां

यावन्नैव जुहारसिंहनृपतिर्युद्धाय बद्धोत्सवः ।। 29 ।।

अयं यदि महामना वितरणाय धत्ते धियं

भियं कनकभूधरोऽञ्चति हियं च कर्णोऽटति।

दधीचिरपचीयते बलिरलीकरूपायते

तदातिमलिनायते स किल कल्पभूमीरुहः ।। 30 ।।

प्रासादागतडागनागमणिभूदानादिनानातपः-

प्रागल्भ्येन महेन्द्रचन्द्रवरुणब्रह्नेशविष्णुस्थली।

प्राचण्ड्यन जिता मिता वसुमती कोदण्डदोर्हण्डयो-

र्जागर्त्तीति जुहारसिंहनृपतेः कुत्र प्रतापो न वा ।। 31 ।।

ब्रह्नाभूच्चतुराननः स्मरहरः पञ्चानन षण्मुखः

स्कन्दो भूपजुहारसिंहयशसो गानोत्सवेऽत्युत्सुकः।

तस्याभोगमुदीक्ष्य भूधरनभोनद्यस्त्रिलोकी दिशः

सप्तद्वीपमयी मही च विधिना विज्ञेन निर्वाहिताः ।। 32 ।।

तुङ्गत्वादनवाप्य दैवततरोः पुष्पाणि सर्वाः समं

श्रीमद्वीरजुहारसिंहनृपतेर्द्दानं समानं जगुः।

व्रीडादुर्वहभारनिर्भरनमद्‌ग्रीवे तु देवद्रुमे

श्लाघन्ते सुलभायमानकुसु प्रास्तं भूरि देवस्त्रियः ।। 33 ।।

भीमो यः सहदेव एव पृतनादुर्धर्षपार्स्वा लसन्

श्रीभूमनिकुलः सदाजुनमहाख्यातिः क्षमामण्डले।

कर्णश्रीः कृतवर्मभीष्मघटनाशौटीर्यदुर्योधनो

रोषादेष युधिस्थिरो यदि भवेत्कः स्यादमुष्याग्रतः ।। 34 ।।

सत्कीर्तिग्रामदामाभरणभृतजगद्विक्रमादित्यनामा

धाम्नो भूम्ना महिम्ना विघटितरिपुणा विक्रमोपक्रमेण।

सुप्रांशुः पीवरांसः पृथुभुजपरिघस्तस्य वंशावतंसो

विश्वोदञ्चत्प्रशंसो गुणिगणहदयानन्दनो नन्दनोऽभूत् ।। 35 ।।

आशापूर्त्तिप्रकुर्वन् करवितरणतः पझिनीप्राणबन्धुः

प्रोद्यद्दिव्याम्बरश्रीः स्फुटमहिमरुचिः सर्वदाध्वस्तदोषः।

जम्भारातेरिहोच्चैरचलसमुदयात्सुप्रभातप्रकाशी

पुत्रो राज्ञः पवित्रो रचयति सुदिनं विक्रमादित्य एव ।। 36 ।।

सार्थाकुर्वन्निरर्थीकृतसुरविटपी चार्थिसार्थं निजार्थै--

र्व्यर्थीभूतारिपृथ्वीपतिरमरगुरुस्पर्द्धिवर्द्धिष्णुबुद्धिः।

मानैर्यानादिदानैर्बहुविधगुणिभिर्गीयते यः सभायां

भ्रातर्जातः स भूयः सुकविकुलमुदे विक्रमादित्य एव ।। 37 ।।

दानं दीनमनोरथावधि रणारम्भोऽरिनाशावधि

क्रोधो वागवधि प्रतापयशसोः पन्था दिगन्तावधि।

दाक्षिण्यं क्षितिरक्षणावधि हरौ भक्तिश्च जीवावधि

व्यालुप्तावधि वीरविक्रमरवेः श्रेयः परं वर्द्धते ।। 38 ।।

हेमाद्रेः श्रियमन्यथैव कुरुते चक्रे च गौरीं तनुं

कैलाशोपरि शोभते पटयति स्पष्टं च दिङ्मण्डलम्।

भोगीन्द्रं न दधे श्रुतौ बल जटागूढां च गह्गां व्यधा-

ल्लोकानामयमीश्वरोऽस्य यशसस्त्वैश्वर्यमुज्जृम्भते ।। 39 ।।

श्रीगोपाचलमौलिमण्डलमणिः श्रीदूरवारान्वये

श्रीहंसोदयहंसपण्डित इति ख्यातो द्विजाधीश्वरः।

यं लक्ष्मीश्च सरस्वती च विगतद्वन्द्वं चिरं भेजतु-

र्भोक्तारं रभसात्समानमुभयोः सान्नाढयमाढयं गुणैः ।। 40 ।।

पटु दिक्षु विदिक्षु कुर्वतीनां नटलीलां स्फुटकीर्त्तिनर्त्तकीनाम्।

स्फुरदध्वरधूमधोरणीह च्युतवेणीति जनैरमानि यस्य ।। 41 ।।

ततोऽनल इवारणेरतुलधामभूर्भूभुजां

शिरोमाणरुरोमणिर्धरणिनामवाभ्रुवः।

रथी बहुगुणी धनी भुवि वनीपकश्रीखनी

रमारमणमिश्रणी परशुराममिश्रोऽजनि ।। 42 ।।

येनागत्व पुरा पुरारिनगरे विद्यानवद्यार्जिता

श्रीचण्डीश्वरमग्निहोत्रितिलकं लब्ध्वा गरीयोगुरुम्।

शुद्धा सैव महोद्यमेन बहुधा भान्ती भवन्ती स्थिरा

तद्वंस्येषु कियन्न कल्पलतिकेवाद्यापि सूते फलम् ।। 43 ।।

आस्यारविन्दमनुपास्य गुरोरपास्य

लास्यं चतुर्मुखमुखेषु सहस्वतीह।

सालङ्कृतिश्च सरसा च गुणान्विता च

यस्यातनोति रसनोपरि ताण्डवानि ।। 44 ।।

अङ्के लोमलतेव सीमनि दृशोरेकेव रेखाञ्चनी

कस्तूरीमकरीव भालफलके धारेव मूर्ध्न्यालकी।

ऊर्द्ध्वं भृङ्गपरम्परेव कबरी सौरभ्यलोभाकुला

यस्यैवाध्वरधूमधोरणिरभूदाशाकुरङ्गीदृशः ।। 45 ।।

सुभासुरयशोनिधेः सुनिरवद्यविद्यानिधेः

सुचारुकवितानिधेः स्मृतिनिधेः श्रुतिश्रीनिधेः।

अयं सुकृतगौरवात्परशुराममिश्राह्गणै-

रनूनगरिमा पितुर्जगति मित्रमिश्रोऽजनि ।। 46 ।।

धर्मार्थैकनिकेतनं विधिमयं कर्मावनीदर्शनं

स्मृत्यम्भोजमहोदयं श्रुतिमयं श्रीवीरमित्रोदयम्।

द्राक्‌सिद्धीकृतकार्यसिद्धिशतया श्रीवीरसिंहाज्ञया

तेने विश्वमुदे पुरे पुरभिदः श्रीमित्रमिश्रः कृती ।। 47 ।।

हारीतगोभिलपराशरनारदादिमुन्युक्तमर्थमखिलं हृदयेऽवधार्य।

श्रीवीरसिंहनृपदेशितमित्रमिश्रो विद्वन्मणिः प्रकुरुते समयप्रकाशम् ।। 48 ।।

तत्र कालप्रकाशे तु क्रमोऽयमभिधीयते।

नित्यकालस्वरूपं प्राव्कालोपाधिरथोदितः।।

सम्वत्सरायनर्तूनां क्रमेणाथ विनिर्णयः।

मासपक्षतिथीनां च क्रमेणाथ निरूपणम्।।

सामान्यतस्तिथीनां च ग्राह्याग्राह्यविवेचनम्।

प्रतिपन्निर्णयात्पस्चात् द्वितीयाया विनिर्णयः।।

तृतीयानिर्णयस्यान्ते चतुर्थीनिर्णयः स्मृतः।

पञ्चमीनिर्णयात्पश्चात्षष्ठीनिर्णय ईरितः।।

सप्तमीनिर्णयस्यान्तेऽष्टमीसामान्यनिर्णयः।

कृष्णजस्माष्टमी पश्चाद्विस्तरेण निरूपिता।।

नवमीनिर्णयो रामनवम्याश्चाथ निर्णयः।

महानवम्यास्तदनु निर्णयः समुदीरितः।।

दशमीनिर्णयः पश्चादेकादश्या विनिर्णयः।

द्वादशीनिर्णयस्यान्ते त्रयोदश्या विनिस्चयः।।

सामान्यतश्चतुर्दश्या निर्णयोऽथ प्रकीर्त्तितः।

नरसिंहचतुर्दश्या निर्णयोऽत्र प्रकीर्त्तितः।।

अथात्रैव प्रसङ्गेन जयन्तीनां विनिश्चयः।

ज्येष्ठकार्तिकमाघेषु चतुर्दश्र्या विनिर्णयः।।

शिवरात्रिः पारणा च तत्राथ परिकीर्तिता।

अथ पञ्चदशीकृत्ये श्रावणीकृत्यनिर्णयः।

उषाकर्म प्रसङ्गेन उत्सर्गसमयास्त्रिधा।।

कार्त्तिके पञ्चदश्यास्तु निर्णयस्तदनन्तरम्।

होलिकानिर्णयः पर्वनिर्णयस्तदनन्तरम्।।

ग्रहणेचैकभक्ते च नक्ते कालस्य निर्णयः।

नक्तैकभक्तथोः प्राप्तौ निर्णयस्तदनन्तरम्।।

अयाचितस्य नक्षत्रोपवासस्याथ निश्चयः।

सङ्क्रान्तिनिर्णयात्पश्चान्मलमासो निरूपितः।।

मलमासेऽथ कृत्यानामकृत्यानां च निर्णयः।

गुरुशुक्रादिबाल्यादौ कार्याकार्य्यविवेचनम्।।

श्राद्धकालेष्वमावास्या अष्टकान्वष्टका तथा।

अष्टकापूर्वदिवसो वृद्धिः पक्षोऽसितस्ततः।।

आश्वयुक्‌कृष्णपक्षश्च तत्रैव भरणी तथा।

त्रयोदशीचतुर्द्दश्यौ क्रमेणेह निरूपिते।।

प्रकीर्णकश्राद्धकालाः काम्यश्राद्धदिनं ततः।

युगाद्याश्च युगान्ताश्च ततो मन्वन्तरादयः।।

कल्पाद्या व्यतिपातश्च वैधृतिश्चावमं दिनम्।

नवान्नश्राद्धकालश्च नवश्राद्धदिनं ततः।

प्रेतपिण्डस्य कालश्च तदन्ते परिकीर्त्तितः

पाथेयश्राद्धकालश्च प्रायणोत्तरमीरितः।।

अस्थिसञ्चंयने कालो दाने प्रेतोदकस्य च

दशादमध्ये दर्शस्य पाते प्रेतक्रिया ततः।।

षोडशश्राद्धकालाश्च तदनन्तरमीरिताः।

तिथिद्वैये पार्वणादिश्राद्धनिर्णय ईरितः।।

लक्षणं चापराह्णादेः कुतपस्य निरूपणम्।

श्राद्धवेलापिण्डदाननिषिद्धसमयास्ततः।।

प्रकीर्णकालाः प्रतिपदाद्या पुण्यतिथिस्ततः।

नक्षत्रवारादिवशात्पुण्याश्च तिथयस्ततः।।

अतः परं निशायां तु कृत्याकृत्यविवेचनम्।

चतुष्पथस्य सेवाया निषेधस्तदनन्तरम्।।

वर्ज्जनीयानि चोक्तानि तिथिकाल्विशेषयोः।

पर्वकृत्यं युगधर्म्मा युगवर्ज्वानि चाप्यथ।।

कलिधर्म्माः कलिवर्ज्यान्यथोक्तानि विशेषतः।

दीक्षाकालस्ततस्तस्यापवादः परिकीर्त्तितः।।

नामकी त्तनकालश्चाधानकालास्ततः परम्।

पशोः कालस्ततः कालश्चातुर्मास्येष्टिसामयोः।।

एवमत्र विशेषेण मित्रमिश्रेण सूरिणा।

स्मृतीः सर्वाः समालोक्य समयोऽत्र निरूपितः।।

तत्र तावत्कालसद्भावे प्रमाणानि श्रुत्यादीनि। तथाहि।

तस्मात्काल एव दद्यात्काले न दद्यादिति ऋग्वेदश्रुतिः।

अत्र काल इत्यत्र यथाक्रमं विहिते प्रतिषिद्धे इत्यध्याहारः।

"तं काले काल आगते यजत" इति यजुः। तथा, "सम्वत्सरमासादिकाल आगते ऽविजायत" इति च। "अहमेव कालो नाहं कालस्य" इति च। "काच सन्ध्या कश्चसन्ध्यायाः काल" इति सामवेदः। "कालं काल विभक्तिं च" इति मनुस्मृतिः। "श्राद्धकालाः प्रकीर्त्तता" इति याज्ञवल्क्यः। तथा धारणाध्यानसमाधित्रयरूपात्संयमविशेषाद्योगिनोऽतीतादिकालं प्रत्यक्षतः पश्र्यन्तीति योगशास्त्रे प्रत्यक्षमपि मानमुक्तम्।

सुखमहमस्वाप्सं न किञ्चिदवेदिषमिति सुप्तोत्थितस्मरणान्यथानु पपत्तिकल्पितं साक्षिप्रत्यक्षमपि प्रमाणमित्यौपनिषदाः। सर्वेन्द्रियवेद्य इति जैमिनीयाः।

अनादिरेष भगवान् कालोऽनन्तोऽजरः परः।

इति पुराणमपि मानम्। तस्मादस्ति कालः। स द्विविधः अखण्डः सखण्डश्च। आद्य ईश्वराद्भिन्न इति तार्किकाः। अभिन्न इति वेदान्तिनो नवी-नतार्किकाश्च। ईश्वारभेदे--

श्रुतिः, स विश्वकृद्विश्वविदात्मयोनिर्ज्ञः कालकालो गुणी सर्वविद्यः।

प्रधानक्षेत्रज्ञपातेर्गुणेशः सेसारमोहस्थितिबन्धहेतुः।। इति।

कालकालः = जन्यस्य सम्वत्सरादिरूपस्य कालस्याकलनात्।

विष्णुधर्मोत्तरेऽपि--

अनादिनिधनः कालो रुद्रः सङ्कर्षणः स्मृतः।

कलनात्सर्वभूतानां स कालः परिकीर्त्तितः।।

कर्षणात्सर्वभूतानां स तु सङ्कर्षणः स्मृतः।

सर्वभूतशमित्वाच्च स तु रुद्रः प्रकीर्त्तितः।।

अनादिनिधनत्वेन स महान्परमेश्वरः। इति।

एतेन परत्वापरत्वाभ्यामनुमाने आकाशादौ विनिगमकाभावादतिरिक्तकालसिद्धिरित्यपास्तं श्रुतेरेव विनिगमकत्वात्। एतच्च यथातथास्तु। नास्य कालस्यादृष्टार्थस्मरणादन्यः कर्मण्युपयोग इति न निरूप्यते। संवत्सरादिरूपस्तु सूर्यादिगत्यवच्छिन्नः कर्मणि "पोर्णमास्यां पौर्णमास्या यजेत्" "देशे काल उपायेन" इत्यादिश्रुतिस्मृतिभिरधिकरणत्वेन विनियुक्तत्वाद्विचार्यते। सूर्यादिगतिपरिच्छेद्यत्वं चोक्तम्--विष्णुधर्मोत्तरे,

तस्य सूक्ष्मातिसूक्ष्मस्य तथातिमहतो द्विजाः!।

मानसङ्ख्या बुधैर्ज्ञेया ग्रहगत्यनुसारतः।। इति।

प्रत्यक्षोपलभ्यमाननिमेषादिक्रियापरिच्छेदश्च तत्रैव--

लब्वक्षरसमा मात्रा निमेषः परिकीर्त्तितः।

अतः सूक्ष्मतरः कालो नोपलभ्यो भृगूत्तम!।।

नोपलभ्यं यथा द्रव्यं सुसूक्ष्मं परमाणुतः।

द्वौ निमेषौ त्रुटिर्ज्ञेया प्राणो दश त्रुटिः स्मृतः।।

विनाडिका तु षट् प्राणास्तत्षष्टया नाडिका स्मृता।

अहोरात्रं तु तत्शटया नित्यमेव प्रकीर्त्तितम्।।

त्रिंशन्मुहूर्त्तास्च तथा अहोरात्रेण कीर्त्तिताः।

तत्र पञ्चदश प्रोक्ता राम! नित्यं दिवाचराः।।

तथा पञ्चदश प्रोक्ता राम! नित्यं निशाचराः।

उत्तरां तु यदा काष्ठां क्रमादाक्रमते रविः।।

तथा तथा भवेद्वृद्धिर्दिवसस्य महाभुज!।

दिवसश्च यथा राम! वृद्धिं समधिगच्छति।।

तदाश्रितमुहूर्त्तानां तथा वृद्धिः प्रकीर्त्तिता। इत्यादि।

तत्र श्रुतौ निमेषादिकालानां संवत्सरावयवत्वेनोक्तत्वादवयविरूपः संवत्सरः प्रधानत्वाद्विचार्यते। संवत्सरो नाम सम्यग्वसन्त्ययनर्तुमासपक्षतिथ्यादयोऽस्मिन्निति व्युत्पत्त्या "द्वादश मासाः संवत्सर" इतिश्रुतेश्च द्वादशमासात्मकः कालविशेषः। स पञ्चविधः। सौरबार्हस्पत्यसावनचान्द्रनाक्षत्रभेदात्। तथा च ज्योतिःशास्त्रे--

सौरबृहस्पतिसावनशशधरनाक्षत्रिकाः क्रमेण स्युः।

मातुलपातालातुलविमलवराङ्गानि वत्सराः क्रमशः।। इति।

अस्यार्थः। गणकप्रसिद्ध्या कटपया वर्गाः। शुद्धस्वरः शून्यार्थः। तत्र वर्गाक्षरसह्खययाङ्कसङ्ग्रहः। तेन मातुलेत्यत्र पवर्गात्पञ्चमेन मकारेण पञ्चसङ्ख्या लभ्यते टबर्गषष्ठेन तकारेण षट्सङ्खया। यवर्गतृतीयेन लकारेण त्रित्वसङ्खया। एवं चाङ्कानां वामतो गतिरिति प्रकारेण मेलने सावनदिनानां पञ्चषष्टयधिकशतत्रयं सौरसंवत्सरो भवति। एवं पातालशब्द एकषष्टयधिकशतत्रयसङ्ख्यामाचष्टे। तावत्सूर्योदयपरिमितो बहिस्पत्यः संवत्सरः। एवमतुलशब्दः षष्ठयधिकशतत्रयसङ्खयामाह। तावत्सूर्योदयपरिमितस्सावनः सवत्सरः। एवे विमलशब्दः चतुष्पञ्चाशदधिकशतत्रयसङ्ख्यामाचष्टे। तावत्सूर्योदयपरिमितश्चान्द्रः। एव वराङ्गशब्दश्चतुर्विंशत्यधिकशतत्रयसङ्ख्यामाह तावत्सूर्योदयपरिमितो नाक्षत्रः संवत्सर इति। नन्वधिकमासवान्संवत्सरः कथं द्वादशमासात्मकोऽधिमासस्य त्रयोदशत्वादिति चेत्, न।

"षष्टया तु दिवसैर्मासः कथितो बादरायणैः।

इतिवचनात् षष्टिदिवसात्मकस्यैकमासत्वेन द्वादशसङूख्यानपायात्। "अस्ति त्रयोदशो मास" इति श्रुतिस्तु त्रयोदशदर्शान्तत्वेनेत्यदोषः। ये तु प्रभवादिषष्टिसंवत्सराः ते बार्हस्पत्यस्यैव भेदाः।

माघशुक्लं समारभ्य चन्द्रार्कौ वासवर्क्षगौ।

जीवयुक्तौ यदा स्यातां षष्ट्यब्दादिस्तदा स्मृतः।।

इति विष्णुधर्मोक्तेः। ते च--

प्रभवो विभवः शुक्लः प्रमोदोऽथ प्रजापतिः।

अङ्गिराः श्रीमुखो भावो युवा धातेश्वरस्तथा।।

बहुधान्यः प्रमाथी च विक्रमोऽथ वृषस्तथा।

चित्रभानुः सुभानुश्च तारणः पार्थिवो व्ययः।।

सर्वजित्सर्वधारी च विरोधी विकृतिः खरः।

नन्दनो विजयश्चैव जयो मन्मथदुर्मुखौ।।

हेमलम्बो विलम्बश्च विकारी शार्वरी प्लवः।

शुभकृच्छोभनः क्रोधी विश्वावसुपराभवौ।।

प्लवङ्गः कीलकः सौम्यः साधारणविरोधकृत्।

परिधावी प्रमादी च आनन्दो राक्षसोऽनलः।।

पिङ्गलः कालयुक्तश्च सिद्धार्थो रौद्रदुर्मती।

दुन्दुभी रूधिरोद्गारी रक्ताक्षी क्रोधनः क्षयः ।। इति।

एते प्रभवादयश्चान्द्रा अपीति माधवः। मीनादिस्थे मेषादिस्थे वा सूर्ये सौरसंवत्सरारम्भः। बृहस्पतिमध्यमराशिभोगेन बार्हस्पत्यारम्भः। यत्किञ्चिद्दिवसमारभ्य यत्किञ्चिथिमारभ्य वा चान्द्रारम्भः। यत्किञ्चिन्नक्षत्रादिमारभ्य सावनारम्भः।

अथैषां विनियोगः। तत्र चान्द्रस्य तिलकव्रताब्दिकश्राद्धादावुपयोगः। तिलकव्रतमुक्तम्--

भविष्यपुराणे,

वसन्ते किंशुकाशोकशोभिते प्रतिपत्तिथिः।

शुक्ला तस्यां प्रकुर्वीत स्नानं नियममास्थितः।।

ललाटपट्टे तिलकं कुर्याच्चन्दनपङ्कजम्।

ततः प्रभृत्यनुदिनं तिलकालङ्कृतं मुखम्।।

विधार्यं वत्सरं यावच्छशिनेव नभस्तलम्। इति।

अत्र प्रतिपत्तिथावुपक्रमविधानादस्य व्रतस्य चान्द्रसंवत्सरसाध्यत्वावगतिः। आब्दिके तु ब्रह्नसिद्धान्ते--

प्रतिसंवत्सरश्राद्धे मासश्चान्द्रमसः स्मृतः। इति।

सुजन्मादिव्रते सौरः। विष्णुधर्मोत्तरे--

भगवन्कर्मणा केन तिर्यग्योनौ न जायते।

इत्युपक्रम्य--

मेषसङ्गक्रमणे भानोः सोपवासो नरोत्तमः।।

इत्यादिना व्रतस्वरूपमभिधाय--

व्रतं चरन् वत्सरमेतदिष्टं म्लेच्छेषु तिर्यक्षु न चापि जन्म।

इत्युपसंहारात्। एवं यत्र सङ्क्रान्तिपुरस्कारेण कर्माण्युक्त्वा "संवत्सरं प्रकुर्वीत" इत्युक्तिस्तत्र संवत्सरः सौरो ग्राह्यः। "ब्रह्नहा द्वादशाब्दं चरेत्" इत्यादिप्रायश्चित्तादौ सावनः।

आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा।

सावनेनैव कर्त्तव्या शत्रूणां चाप्युपासना।।

इतिज्योतिर्गर्गोक्तेः। बार्हस्पत्यस्य तु यवदानादौ--

संवत्सरे तु दादॄणां तिलदानं महाफलम्।

परिपूर्वे तथा दानं यवानां द्विजसत्तम!।।

इदापूर्वे च वस्राणां धान्यानां चानुपूर्वके।

इत्पूर्वे रजतस्यापि दानं प्रोक्तं महाफलम्।।

इति विष्णुधर्मोक्तेः। अत्र सम्परीत्यादि वत्सरशब्दस्यादिः। तेन संवत्सरपरिवत्सरेत्यादिपञ्चनामका वत्सरा उक्ता भवन्ति। एतेषां पञ्चकस्य युगमिति संज्ञा। तथा च प्रभवादि प्रकृत्य--

ब्रह्नवैवर्त्त,--

संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः।

इदावत्सरस्तृतीयश्चतुर्थश्चानुवत्सरः।।

इद्वत्सरः पञ्चमस्तु कालस्तु युगसंज्ञकः। इति।

बार्हस्पत्य एव कदाचिल्लुप्तसंवत्सर इत्यभिधीयते। तथाच--

वसिष्ठः,

सहजां गतिमासाद्य यद्यतीचारगो गुरुः।

अवशिष्टं पूर्वराशिं नायास्यत्युपभुक्तये।।

अन्तर्भाव्योपभुक्तांशं वक्रानन्तरितं तदा।

मासैर्द्वादशभिर्लुप्तसंवत्सर इतीरितः।।

सहजां=वक्रातीचारभिन्नाम्। तथाचायमर्थः। यद्यतीचारगो गुरुः पूर्वराश्यवशिष्टांशानां भोगार्थं स्वाभाविकगतिमास्थितः पुनस्तं राशिं नैति तदोपभुक्तांशमतिचारभुक्तांशम् अन्तर्भांव्यारभ्य तद्दिनप्रभृतीतियावत् द्वादशमासं लुप्तसंवत्सरो भवतीत्यर्थः। अस्य व्कचिदपवादः।

मेषे झषे वृषे कुम्भे यद्यतीचारगो गुरुः।

न तत्र काललोपः स्यादित्याह भगवान्यमः।। इति।

पराशरः--

मासान् दशैका दश वा प्रभुज्य राशेर्यदा राशिमुपैति जीवः।

भुह्क्ते न पूर्वं न पुनस्तथापि न लुप्तसंवत्सरमाहुरार्याः।।

लुप्तसंवत्सरे कर्मनिषेधो राजमार्तण्डे,

अतीचारगतो जीवस्तं राशिं नैति चेत्पुनः।

लुप्तसंवत्सरो झेयः सर्वकर्मसु गर्हितः।। इति।

अस्यापवादमाह--

व्यासः,

यदातिचारं सुरराजमन्त्री करोति गोवृश्विचमीनसंस्थः।

नायात्यसौयद्यपिपूर्वराशिं शुभाय पाणिग्रहणं वदन्ति।।

इति संवत्सरनिर्णयः।

अथायनं निरूप्यते।

तत्र यद्यप्ययनशब्देन "अयनं वर्त्म मार्गाध्व" इति कोशात् मार्गंसामान्यमुच्यते। तथाप्यत्र सौरर्त्तुत्रितयम् अयनमुच्यते। "तस्मादादित्यः षण्मासान् दक्षिणेनैति षडुतरेण" इति तैत्तिरीयश्रुतेः। सौरमृतुत्रयमुपक्रम्य विण्णुधर्मोत्तरेऽपि, ऋतुत्रयं चायनं स्यादिति।

सिद्धान्तशिरोमणावपि--

कर्किमृगादिषट्के ते चायने दक्षिणसौम्यके स्तः। इति।

अस्यादित्यगतिपुरस्कारेण वि धानात्सौरत्वमेव। केचित्तु मार्गशी र्षादिषण्मासा उदगयनं ज्येष्ठादिष्ण्मासा दक्षिणायनमित्याहुस्तत्र मूलं ज्थोतिःशास्रे मृग्यमिति माधवः। अनयोश्च सौम्यदक्षिणयोर्विनियोगः उदगयन आपूर्यमाणपक्षे पुण्यनक्षत्रे चौलकर्मोपनयनगोदानविवाहादिरित्यादिः। तथा--

मातृभैरववाराहनारसिंहत्रिविक्रमाः।

महिषासुरहन्त्री च स्थाप्या वै दक्षिणायने।।

इत्यादिः तत्तत्प्रकरणोदितस्तत्र तत्र बोध्यः। सामान्यतश्चोक्तं ज्योतिषरत्नमालायाम्--

गृहप्रवेशत्रिदिवप्रतिष्ठाविवाहचौलव्रतबन्धपूर्वम्।

सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत्खलु दक्षिणे तु।। इति।

इत्ययननिर्णयः।

अथ ऋतुर्निर्णीयते।

स च मासद्वयात्मकः। तथाच तैत्तिरीयश्रुतिः--द्वन्द्वमुपदधाति। तस्माद् द्वन्द्वमृतव इति।

द्वन्द्वः मासद्वयम्।

मधुश्च माधवश्च वासन्तिकावृतू शुक्रश्च शुचिश्च ग्रैष्मावृतू नभश्च नभस्यश्च वार्षिकावृतू इषश्चोर्जश्च शारदावृतू सहश्च सहस्यश्च हैमन्तिकावृतू तपश्च तपस्यश्च शैशिरावृतू इति श्रुतेः।

अत्र च ऋतू इति द्विवचनं तद्‌घटकमासद्वयाभिप्रायेण। अत्र च मध्वादिशब्दास्चैत्रादिवाचकाः। तथा च--

माधवीये,

चैत्रो मासो मधुः प्रोक्तो वैशाखो माधवो भवेत्।

ज्येष्ठमासस्तु शुक्रः स्यादाषाढः शुचिरुच्यते।।

नभोमासः श्रावणः स्यात् नभस्यो भाद्र उच्यते।

इषश्चाश्वयुजो मासः कार्तिकश्चोर्जसंज्ञकः।।

सहोमासो मार्गशिरः सहस्यः पौषसंज्ञितः।

माघमासस्तपः प्रोक्तस्तपस्यः फाल्गुनः स्मृतः।। इति।

एते चर्तवो मधुश्च माधवश्चेतिपूर्वादाहृतश्रुतेः षड्विधाः। "षड्वा ऋतव" इति श्रुतेश्च। यत्तु ऐतरेयिब्राह्नणे "द्वादशमासाः पञ्चर्त्तव" इति पञ्चत्वाभिधानं तत्तत्रैव समाहितम्--"हेमन्तशिशिरयोः समासेन" इति। समास एकीकरणं तेनेत्यर्थः। वसन्तादयोऽपि प्रत्येकं द्विविधाः सौराश्चान्द्राश्च। तत्र चैत्रादीनां चान्द्रत्वेन तद्‌घटितास्ते चान्द्राः। श्रुतिरपि--चन्द्रमाः षड्ढोता स ऋतून् कल्पयतीति।

बड्वृचश्रुतौ--विश्वान्यन्यो भुवनान्यभिचष्टे ऋतूनन्यो विदधज्जायते पुनरिति।

अत्राभिचष्ट इत्यतः सञ्चारादिक्रियाजनकत्वेन सूर्योक्तेरन्य इत्यतश्चन्द्र एव ऋतुविधायक उक्तः। केचित्तु पुनर्ज्जायते इति लिङ्गादृतुकल्पकत्वं चन्द्रस्येति, तन्न। सूर्यस्यापि पुनः पुनर्जायमानत्वस्य श्रुतावुक्तत्वात्। ननु यदा मलमासो भवति तदा कथं द्विमासऋतुरितिचेत्, षष्ठया तु दिवसैर्मासः कथितो बादरायणैः।

इति वचनात् षष्टिदिनात्मकस्य मासस्यैकत्वात्। सौरस्तु विष्णुधर्मोत्तरे--

सौरं मासद्वयं राम! ऋतुरित्यभिधीयते। इति।

विष्णुपुराणेऽपि--द्वौ मासावर्कजावृतू इति। बौधायनेनापि--"मीनमेषयोर्वा वसन्त" इत्युक्तः। यद्यपि बोधायनवाक्येन वसन्तमात्रे सौरत्व मुक्तं तथापि विष्णुधर्मोत्तरवाक्यपर्यालोचनयाऽग्रेऽपि बोध्यम्। एतेषां विनियोगस्तु श्रुतिस्मृतिपुराणादिषु द्रष्टव्यः। तत्र श्रुतिः--वसन्ते ब्राह्नणोऽग्निमादधीत ग्रीष्मे राजन्य आदधीत शरदि वैश्य आदधीतेत्यादिः। तथा वर्षासु रथकार इति।

आश्वलायनः-हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका इति।

विष्णुधर्मोत्तरेऽपि- वसन्तादिऋतुषु षट्सु षण्मूर्त्तिव्रते पृथक्पूजाविशेषा उक्ताः। तत्रैव स्नानानुलेपनादिदानं ग्रीष्मे पानकदानं चोक्तम्। देवीपुराणे तु--वर्षासु तिलदानं शरद्यन्नदानम्। हेमन्तशिशिरयोर्वस्त्रदानमिति माधवः। तथा दिव्यादिव्यवस्था ऋतुविशेषपुरस्कारेणोक्ता तत्र तत्र द्रष्टव्येति।

इति ऋतिनिर्णयः।

अथ मासो निर्णीयते।

स च चान्द्रसौरसावननाक्षत्रभेदेन चतुर्विधः। तथाच--

ज्योतिःशास्रे,

प्रथमः सावनो मासो द्वितीयश्चान्द्र उच्यते।

नाक्षत्रस्तु तृतीयः स्यात्सौरो मासश्चतुर्थकः।। इति।

एतल्लक्षणानि विष्णुधर्मोत्तरे,

चन्द्रमाः पौर्णमास्यन्ते भास्करादतिरिच्यते।

राशिषट्कं तदा राम! मासार्धेन न संशयः।।

भागद्वादशकेनैवं तिथ्यां तिथ्यां क्रमेण तु।

चन्द्रमाः कृष्णपक्षान्ते सूर्येण सह युज्यते।।

असन्निकर्षादारभ्यासन्निकर्षमथापरम्।

चन्द्रार्कयोर्बुधैर्मासश्चान्द्र इत्यभिधीयते।।

सावने तु तथा मासे त्रिंशत्सूर्योदयाः स्मृताः।

आदित्यराशिभोगेन सौरो मासः प्रकीर्त्तितः।।

सर्वर्क्षपरिवर्त्तैस्तु नाक्षत्रो मास उच्यते। इति।

चान्द्रो द्विविधः कृष्णादिः शुक्लादिश्च। तत्र कृष्णादिस्तु उदाहृतविष्णुधर्मोत्तरे दर्शितः। शुक्लादिमाह--

हारीतः,

इन्द्राग्नो यत्र हूयेते मासादिः स प्रकीर्तितः।

अग्नीषोमौ स्मृतौ मध्ये समाप्तौ पितृसोमकौ।। इति।

अत्रेन्द्राग्न्यग्नीषोमपितृसोमशब्दैरमावास्योत्तरप्रतिपत्पौर्णमास्यमावास्या उपलक्ष्यन्ते। आद्यायामिन्द्राग्नियागविधानात् पौर्णमास्या मग्नीषोमीयविधानादमावास्यायां पिण्डपितृयज्ञे सोमस्य पितृमतो विधानात्। तेन शुक्लादिर्मासः प्रतिपादितो भवति। अनयोश्च व्यवस्थोक्ता--

न्निकाण्डमण्डनेन,

चान्द्रोऽपि शुक्लपक्षादिः कृष्णादिर्वेति च द्विधा।

कृष्णपक्षादिकं मासं नाङ्गीकुर्वन्ति केचन।।

येऽपीच्छान्ते न तेषामभीष्टो विन्ध्यस्य दक्षिणे। इति।

अत्र विन्ध्यदक्षिणतः कृष्णादिनिषेधादुत्तरतो द्वयोरपि विकल्पः। तत्रापि शुक्लादिर्मुख्यः कृष्णादिर्गौणः।

चैत्रे मासि जगद्ब्रह्ना ससर्ज प्रथमेऽहनि।

शुक्लपक्षे यमग्रं तु तदा सूर्योदये सति।।

प्रवर्तयामास तदा कालस्य गणनामपि।

ग्रहान्नागानृतून्मासान्वत्सरान्वत्सराधिपान्।।

इति ब्रह्नपुराणे मासर्त्तुसंवत्सरारम्भोक्तेः। नहि कृष्णादिवादिनां संवत्सरो भिद्यते। शुक्लादिनैव मलमासोक्तेश्च कृष्णादिना तदसंभवाच्च। यद्यपि यत्किंचित्त्रिंशत्तिथिसमुदायात्मको मासश्चान्द्र एव भवति तिथिघटितत्वात्, तथापि तत्र चैत्रादिव्यवहाराभावान्नासौ तृतीयविधात्वेन व्कचिदभिहितो धर्मशास्त्रे। एवं सौरादावपि मासशब्दो गौणः। अन्यथानेकशक्तिकल्पनापत्तेः। न च विनिगमनाविरहः।

मस्यन्ते पिरमीयन्ते स्वकला वृद्धिहानितः।

मास एते स्मृता मासास्त्रिंशत्तिथिसमन्विताः।।

इति सिद्धान्तशिरोमणिना वृद्धिहानिभ्यां चन्द्रकलापरिगणनस्यैव मासपदप्रव्कत्तिनिमित्तत्वप्रदर्शनात् इति। केचित्तु सर्वमासेषु सौरचान्द्रयोरेव सौर एव वा मुख्यो मासशब्द इत्याहुः। तदसत्। उक्तसिद्धान्तशिरोमणिवचनघिरोधात्। चतुर्ष्वपि मासपदप्रयोगस्तु छत्रिन्यायेन द्वादशविधपुत्रेषु पुत्रपदप्रयोगवदविरुद्धः। गौणमासानामपि वचनात्तत्र तत्र ग्रहणमविरुद्धम्। नास्ति वचनस्यातिभार इति न्यायात्। असति विशेषप्रमाणे चान्द्रस्यैव ग्रहणम्। एवं चैत्रादिशब्दा अपि चान्द्रस्यैव वाचकाः। अनेकार्थत्वस्यान्याय्यत्वात्। मासविशेषवचनत्वाच्च। "नक्षत्रेण युक्तः कालः" "सास्मिन् पौर्णमासी" इति संज्ञायामिति पाणिनिप्रदर्शितयोगबलाच्च। न चायं योगः सौरमासेऽपि सम्भवति मीनादिस्थे सवितरि कदाचिच्चित्रादियुक्तपौर्णमासीयोगसम्भवेऽपि कन्याधनुर्मकरस्थे सवितरि अश्विनीपुष्यमघायुक्तपौर्णमासीनां कदाचिदप्यसम्भवात्। न च यदा नक्षत्रयोगो न स्यात् तदा कथं चैत्रत्वमितिवाच्यम्। कदाचिद्योगस्यैव तथात्वात्। तथा च च्यवनः--

अन्त्योपान्त्यौ त्रिर्भौ ज्ञेयौ फाल्गुनश्च त्रिभो मतः।

शेषा मासा द्विभा ज्ञेयाः कृत्तिकादिव्यवस्थया।। इति।

अन्त्योपान्त्यौ = आश्विनभाद्रौ। एतच्च त्रिभत्वादिकं द्वित्रिनक्षत्रयोगेन यथा कृत्तिकारोहिण्यन्यतरयोगः कार्तिक्यां मृगार्द्रान्यतरयोगो मार्गशीर्ष्यामित्यादि। न च कार्तिकीं प्रकृत्य--"यदा याम्यं तु भवति व्कचित्तस्याम्" इति पाद्मे भरणीयोगस्याप्युक्तेः कथं द्विभत्वमिति वाच्यम्। पौर्णमास्यन्तिमक्षणे कृत्तिकारोहिण्यन्यतरयोगस्य विवक्षितत्वात्। चैत्रादीनां चान्द्रत्वं स्पष्टमुक्तम्--

ज्योतिःशास्त्रे,

मेषादिस्थे सवितरि यो यो मासः प्रपूर्यते चान्द्रः।

चैत्रादिः स तु विज्ञेयः पूर्त्तिद्वित्वेऽधिमासोऽन्‌त्यः।।

ब्रह्नगुप्तोऽपि--

मेषगरविसङ्क्रान्तिः शशिमासे भवति यत्र तच्चैत्रम्।

एवं वैशाखाद्य वृषादिसङ्क्रान्तियोगेन।। इति।

अनयोश्च लक्षणयोर्यथा नाधिमासादिष्वव्याप्तिस्तथा वक्ष्यते सावननाक्षत्रमासयोस्तु चैत्रादिपदप्रयोगाभावात्तद्वचनत्वमनाशङ्क्यमेव। मुख्यगौणमासानां व्यवस्था--

ब्नह्नसिद्धान्ते,

अमावास्यापरिच्छिन्नो मासः स्याद्ब्राह्नणस्य तु।

सङ्क्रान्तिपौर्णमासाभ्यां तथैव नृपवैश्ययोः।।

ज्योतिर्गर्गः,

सौरो मासो विवाहादौ यज्ञादौ सावनः स्मृतः।

आब्दिके पितृकार्ये च चान्द्रो मासः प्रशस्यते।।

आब्दिके=सांवत्सरिके। पितृकार्ये=षाण्मासिकादौ। तथा स एव--

आयुर्दायविभागश्च प्रायश्चित्तक्रिया तथा।

सावनेनैव कर्त्तव्या शत्रूणां चाप्युपासना।।

उप्रासना=समयपालनम्। यथा पाण्डवः कौरवाणाम्।

पितामहः--

दैवे कर्मणि पित्र्ये च मासश्चान्द्रमसः स्मृतः। इति।

विष्णुधर्मोत्तरे--

नक्षत्रसत्राण्ययनानि चेन्दोर्मासेन कुर्याद्भगणात्मकेन। इति।

ब्राह्ने--

तिथिकृत्ये च कृष्णादिं व्रते शुक्लादिमेव च।

विवाहादौ च सौरादिं मासं कृत्ये विनिर्दिशेत्।।

इति मासः।

अथ दिवसः

स चतुर्विधः। तदुक्तम्--

विष्णुधर्मोत्तरे,

तिथिनैकेन दिवसश्चान्द्रे माने प्रकीर्त्तितः।

अहोरात्रेण चैकेन सावनो दिवसः स्मृतः।।

आदित्यराशिभोगेन सौरो दिवस उच्यते।

चन्द्रनक्षत्रभोगेन नाक्षत्रो दिवसः स्मृतः।। इति।

राशिभोगेन=भुज्यमानराशित्रिंशत्तमेन भागेनेत्यर्थः।

इति दिवसः।

अथ पक्षः।

सद्विविधः शुक्लकृष्णभेदात्। तथाच--

षट्‌त्रिंशन्मते,

तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण तु।

चन्द्रवृद्धिकरः शुक्लः कृष्णश्चान्द्रक्षयात्मकः।। इति।

अनयोर्विनियोगमाहाश्वलायनः--

उदगयन आपूर्यमाणपक्षे कल्याणे नक्षत्रे चौलकर्मोपनयनगोदानविवाहाः।

तथा, हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टका इत्यादि।

इति पक्षः।

अथ सामान्यतस्तिथिर्निर्णीयते।

तत्र तिथिर्नामामासंज्ञकसर्वानुस्यूतनित्यकलाव्यतिरिक्तानां प्रतिपद्द्वितीयादिसंज्ञानां पञ्चदशकलनां मध्ये एकैकस्याः कलायाश्चन्द्र मण्डलस्य सूर्यमण्डलेन सह परमसन्निकर्षानन्तरं विप्रकर्षः परमविप्रकर्षानन्तरं वा सन्निकर्षो यावता कालेन भवति तावान्कालो यथाक्रमं शुक्लकृष्णपक्षगतो निरूढलक्षणया प्रतिपत्‌द्वितीयादिशब्दैः प्रतिपाद्यः। तथा चोक्तम्--

स्कान्दे प्रभासखण्डे,

<1>अमाषोढशभागेन <1.अस्यार्थः। या महामाया आधाररूपा देहिनां देहधारिणी संस्थिता सा चन्द्रमण्डलस्य षोडशभागेन पिरमिता चन्द्रदेहधारिणी अमानाम्नी महाकलेति प्रोक्ता क्षयोदयरहिता नित्या तिथिसंज्ञकैव। इतरा अपि पञ्चदशकला दिवसव्यवहारोपयोगिन्यः क्षयोदयवत्यः पञ्चदशतिथयो भवन्तीति तिथयः षोडशैवेत्यविरुद्धं वचनमिति।> देवि! प्रोक्ता महाकला।

संस्थिता परमा माया देहिनां देहधारिणी।।

अमादिपौर्णमास्यन्ता या एव शशिनः कलाः।

तिथयस्ताः समाख्याताः षोडशैव वरानने!।। इति।

षट्‌त्रिंशन्मतेऽपि--

तत्र पक्षावुभौ मासे शुक्लकृष्णौ क्रमेण हि।

चन्द्रवृद्धिकरः शुक्लः कृष्णश्चन्द्रक्षयात्मकः।।

पक्षत्याद्यास्तु तिथयः क्रमात्पञ्चदश स्मृताः।

दर्शान्ताः कृष्णपक्षे ताः पूर्णिमान्ताश्च शुक्लके।। इति।

सा च तिथिर्द्विविधा पूर्णा खण्डा च। तत्रोदयमारभ्योदयपर्यन्ता पूर्णा।

आदित्योदयवेलाया आरभ्य षष्टिनाडिकाः।

सम्पूर्णा इति विख्याताः।

इति नारदीयोक्तेः।

प्रतिपत्प्रभृतयः सर्वा उदयादोदयाद्रवेः।

सम्पूर्णा इति विख्याता हरिवासरवर्जिताः।।

इति स्कान्दोक्तेश्च। केचित्तु उदयादस्तमयपर्यन्ताया अपि सम्पूर्णत्वं दिनमात्रसाध्येषु भावति।

त्रिसन्ध्यव्यापिनी या तु सैव पूज्या सदा तिथिः।

न तत्र युग्मादरणमन्यत्र हरिवासरात्।।

इति पराशरवचनात्। त्रिसन्ध्यव्यापिनी प्रातर्मध्याह्नसायंसन्ध्याव्यापिनी। न तु प्रातःसन्ध्याद्वयं सायंसन्ध्या चेति, सङ्खयायाः पृथक्त्वनिवेशित्वात् "तिस्र आहुतीर्जुहोति" इतिवत्। त्रिसन्ध्यं यः पठेदित्यादौ तथा व्युत्पत्तेश्च। तस्मादहर्मात्रसाध्येषु तन्मात्रव्यापिन्यपि सम्पूर्णे त्याहुः। सम्पूर्णेतरा खण्डा। तत्र सम्पूर्णआ एकदिनमात्रे सत्त्वात्तत्तिथिप्रयुक्तस्य कार्यस्य इतरदिने प्रसक्तेः सन्देहाभावान्न निर्णेया। खण्डा तु दिनद्वेये सत्त्वात् गुणानुरोधेन च प्रधानावृत्तेरन्याय्यत्वेन तत्प्रयुक्तस्य कार्यस्य सकृदनुष्टेयत्वात् व्क तदनुष्ठानमिति सन्देहान्निर्णेया भवति। निषेधे तु खण्डाप्यनिर्णेयैव।

निमित्तं कालमादाय वृत्तिर्विधिनिषेधयोः।

विधिः पूज्यतिथौ तत्र निषेधः कालमात्रके।।

तिथीनां पूज्यतानाम कर्मानुष्ठानयोग्यता।

निषेधस्तु निवृत्त्यात्मा कालमात्रमपेक्षते।।

इति वृद्धगार्ग्योक्तेः। अत्र कालस्य निमित्तत्वं नामानुपादेयत्वं न तु वास्तवनिमित्तत्वं सर्वस्य कर्मणो नैमित्तिकत्वापत्तेः। न चेष्टापत्तिः। अमावास्यायां पितृभ्यो दद्यादित्यादौ तत्र तत्र सप्तम्यादिभिरङ्गत्वावगतेः। न च सापि निमित्तसप्तम्येवेति वाच्यम्। उपपदविभक्तितः कारकविभक्तेर्बलीयस्त्वात्। न चैवं सर्वव्यापिकाम्यत्वापत्तिः अकरणे प्रत्यवायश्रवणादिनानैमित्तिकत्वात्। न चैवं यत्र वीप्सामात्रश्रवणं तत्र निमित्तपरत्वमेव स्यान्न काम्ये कालपरतेति वाच्यम्। निमित्तत्वेनैव श्रुतस्यापि कालस्य उपस्थितत्वादङ्गत्वेनापि बोधकाभावादितिकेचित्। वस्तुतो नैवोपस्थितस्यापि तस्य काम्ये प्रयोगे ग्रहणं बार्हद्गिरादिवत् किन्त्वन्यस्यैव यस्य कस्य चित्। ज्योतिष्टोमे तु वीप्सारहितेन वाक्यान्तरेण वसन्तप्राप्तिरित्यन्यत्र विस्तरः। `निषेधः कालमात्रक' इत्ययं न वाचनिकोऽर्थः किन्तु न्यायप्राप्त इत्याह--निषेधस्त्वित्यादिना। अयमर्थः। विधिवाक्येषु विधेयार्थस्य श्रेयःसाधनत्वं वाक्यार्थः। निषेधेषु तु कालविशेषे रागप्राप्तस्यानर्थहेतुत्वम्। एवं च षष्ठीषु तैलमित्यादौ षष्ठयां तैलाभ्यङ्गकरणेऽनर्थप्रसक्तेरवगतेर्द्विनद्वयेऽपि षष्ठयां तन्निषेध इति। तस्माद्यावत्तिथिबावित्वेन निषेधस्य निर्णीतत्वान्निषेधेषु खण्डा न निर्णेयेति सिद्धम्। न चैवं सर्वनिषेधानां न्यायादेव तात्कालिकत्वसिद्धौ--

अभ्यङ्गे चोदधिस्नाने दन्तधावनमैथुने।

जाते च मरणे चैव तत्कालव्यापिनी तिथिः।।

इति स्कान्दे--अभ्यङ्गादौ पुनर्वचनानर्थक्यमिति वाच्यम्।

मन्वादौ च युगादौ च ग्रहणे चन्द्रसूर्ययोः।

व्यतीपाते वैधुतौ च तत्कालव्यापिनी क्रिया।।

इति स्कान्द एव मन्वादौ तत्कालव्यापित्वविधानस्तुत्यर्थं दृष्टान्ततया तदुपादानात्। तत्कालव्यापिनी तिथिरित्यस्यायमर्थः। तेषामभ्यङ्गादीनां कालमनुष्ठानकालं व्याप्नोत्वधिकरणत्वेनेति। केचित्तु अभ्यङ्गादिषु वि हितेष्वेव तत्कालव्यापिनी तिथिरनेन वचनेनोक्तेत्याहुः। तदसत्। दन्तधावनमैथुनयोस्तिथिविशेषेषु विधेरदर्शनात् निषेधदर्शनाच्चेति तत्र खज्डायामपि तत्तदहर्भागरूपकालविहितेषु कर्मसु तत्तदहर्भागरूपका लव्यापिनी एव तिथिर्ग्राह्या।

कर्मणो यस्य यः कालस्तत्कालव्यापिनी तिथिः।

तया कर्माणि कुर्वीत हासवृद्धी न कारणम्।।

इति वृद्धगाज्ञवल्क्योक्तेः। अहर्भागरूपः कर्मकालश्च प्रातःसङ्गवमध्याह्नापराह्लसायाह्नरूपस्विमुहूर्त्तात्मकः।

लेखाप्रभृत्यथादित्यान्मुहूर्त्तास्त्रय एव च।

प्रातस्तु सेस्मृतः कालो भागश्चाह्नः स पञ्चमः।।

सङ्गवस्त्रिमुहूर्तोऽथ मध्याह्नस्तत्समः स्मृतः।

ततस्त्रयो मुहूर्त्ताश्च अपराह्णो विधीयते।।

पञ्चमोऽथ दिनांशो यः स सायाह्न इति स्मृतः।

यद्यदेतेषु विहितं तत्तत्कुर्याद्विचक्षणः।।

इति पराशरोक्तेः। यस्तुद्वेधा त्रेधा विभागः स यत्र कर्मविशेषे विहितस्तत्र ग्राह्यः तस्मिन्नसति तु पञ्चधाविभाग एवेति धर्मशास्त्रविदः। तेषां चायमाशवः। अत्र हि यद्यदेतेषु विहितं तत्तदत्र कुर्वादिति न विधेर्य विधित एव तत्सिद्धेः। किन्तु यद्यद्यद्विहितं कालापेक्षं तत्तदेतेष्विति विधीयते "मैत्रावरुणः प्रेष्यति चान्वाह" इतिवदपेक्षितार्थविधेः तेन सामान्यविधिरयमिति। इदं चोपवासादन्यत्र तस्याहो रात्रसाध्यत्वादिति वक्ष्यते। ततश्च पूर्वेद्युरेव कर्मकालव्याप्तौ एकदेशसम्बन्धे वा पूर्वैव आद्ये कालशास्त्रलाभात् द्वितीये कालमात्रलाभात्। अत एव परत्रैव तथात्वे परैव। दिनद्वये वैषम्येण सम्बन्धे याधिका सैव। साम्येनैकदेशसम्बन्धे तु यत्कर्म प्रातरुपक्रम्य प्रातरेव समाप्यते तत्र प्रधानोपक्रमकालीना ग्राह्या।

यो यस्य विहितः कालः कर्मणस्तदुपक्रमे।

तिथिर्याभिमता सा तु कार्या नोपक्रमोज्झिता।।

इति बौधायनोक्तेः नात्र युग्मवाक्यप्रवृत्तिः। यत्तु--

कर्म पूर्वमुपक्रम्य मध्याह्नादौ समाप्यते।।

तत्र वक्ष्यमाणयुग्मवाक्यादिप्रवृत्तिः एवं दिनद्वयव्याप्तावव्थाप्तौ चेत्युत्सर्गः। मदनरत्नस्तु साम्येन वैषम्येण वा दिनद्वय एकदेशसम्बन्धेऽपि यद्येकत्रैवानुष्ठानपर्याप्तः कालस्तदा तत्रैव यद्युभयत्र तदा युग्मवा क्यादिना निर्णयः। यदि नोभयत्र किन्तु कर्मैकदेशसम्बन्धस्तत्रापि यदि समस्तदोपक्रमवाक्यात् यदि विषमस्तदाधिक्येनेत्याह।

अथ यद्युग्मवाक्यादिनिर्णायकं तदुच्यते। युग्मवाक्यं तावन्निगमे--

युग्माग्नियुगभूतानां षण्मुन्योर्वसुरन्ध्रयोः।

रुद्रेण द्वादशीयुक्ता चतुर्दश्या च पूर्णिमा।।

प्रतिपद्यप्यमावास्या तिथ्योर्युग्मं महाफलम्।

एतद्व्यस्तं महादोषं हन्ति पुण्यं पुराकृतम्।। इति।

युग्मं=द्वितीया, अग्निस्तृतीया, युगं=चतुर्थी, भूतं=पञ्चमी, षट्=षष्ठी। मुनिः=सप्तमी, वसुरष्टमी। रन्ध्रं=नवमी। रुद्र=एकादशी। युग्माग्न्योः युगभूतयोः षण्मुन्योः वसुरन्ध्रयोः रुद्रद्वादश्योः चतुर्दशीपूर्णिमयोः अमावास्याप्रतिपदोश्च तिथ्योर्युग्मे परस्परवेधः। तत्तत्कर्माधिकरणतिथ्यवच्छेदकत्वेन समपतितो महाफल इति स्तुत्युन्नीतः कालविशेषविधिः। एतत् युग्मं व्वस्तम्। युग्मगतायाः पूर्वतिथेस्तत्पूर्वतिथिवेध उत्तरतिथेः स्वोत्तरतिथौ वेधो महादोष इति न हि निन्दान्यायेन पूर्वविधिस्तुतिः। एकवाक्यतालाभात्। न तु स्वतन्त्रनिषेधकल्पनं वाक्यभेदापत्तेः। न च विनिगमनाविरहः। नियमविधौ लाघवात् निषेधे गौरवात्। एतद्युग्यवाक्यविरुद्धमपरमापस्तम्बादिषु युग्मवाक्यम्--

प्रतिपत् सद्वितीया स्याद् द्वितीया प्रतिपद्युता।

चतुर्थासंयुता या च सा तृतीया फलप्रदा।।

चतुर्थी च तृतीयायां महापुण्यफलप्रदा।। इत्यादि।

तथा खर्वदर्पवाक्यं व्याघ्रोसनसोः--

खर्वो दर्पस्तथा हिंसा त्रिविधं तिथिलक्षणम्।

खर्वदर्पापरौ पूज्यौ हिंसा स्यात् पूर्वकालिकी।। इति।

खर्वः=साम्यम्। दर्पो=वृद्धिः। हिंसा=क्षयः। तथा शुक्लकृष्णपक्षवाक्यमपि विष्णुधर्म्मोत्तरे,

वज्र उवाच।

नक्षत्रं देवदेवेश! तिथिं चार्द्धविनिर्गताम्।

दृष्टोपवासः कर्त्तव्यः कथं शङ्कर! जानता।।

ईश्वर उवाच।

सा तिथिस्तदहोरात्रं यस्यामभ्युदितो रविः।

तया कर्माणि कुर्वीत हासवृद्धी न कारणम्।।

सा तिथिस्तदहोरात्रं यस्यामस्तमितो रविः।

तया कर्माणि कुर्वीत हासवृद्धी न कारणम्।।

शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः।

कृष्णापक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः।। इति।

अत्र पूर्ववाक्यविहितोदयास्तमयतिथिव्यवस्थार्थं शुक्लकृष्णपक्षवाक्यम्। कोचेत्तु--

दैवकार्ये तिथिर्ज्ञेया यस्यामभ्युदितो रविः।

पितृकार्ये तिथिर्ज्ञेया यस्यामस्तमितो रविः।।

इति वचनानुसारेणोदयास्तमयतिथ्योर्देवपित्र्यविषयत्वेन व्यवस्थामाहुः। तन्न। उपक्रमोपसंहारयोर्भिन्नविषयत्वापत्तेः। वक्ष्यमाणसाकल्यवचनेन दैवेऽप्यस्तमयव्यापित्वविधानाच्च। उक्तवचनस्य तु पित्र्येऽस्तमयव्यापिनीविधान एव तात्पर्यम्। दैव उदयव्यापिन्यभिधानं त्वनुवादः "यज्ञोपवीती हि देवेभ्यो दोहयति" इतिवत् स्तुत्त्यर्थः।

तथा साकल्यवचनं देवलीयम्--

यां तिथिं समनुप्राप्य उदयं याति भास्करः।

सा तिथिः सकला ज्ञेया स्नानदानव्रतादिषु।।

यां तिथिं समनुप्राप्य अस्तं याति दिवाकरः।

सा तिथिः सकला ज्ञेया स्नानदानव्रतादिषु।।

अत्रेयं व्यवस्था। युग्मवाक्यानि दैवविषयकाणि। खर्वदर्पवाक्यं पित्र्यविषयम्।

द्वितीयादिकयुग्मानां पूज्यतानियमादिषु।

एकोद्दिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादिचोदना।।

इति व्यासनिगमवचनात्। अत्र पूज्यतानियमादिष्वित्यादिपदेन सकलदैवकर्म्मोपादानम्। एकोद्दिष्टादीत्यादिपदेनाभ्युदयिकश्राद्धातिरिक्तस कलपित्र्योपादानम्। वृद्ध्यादीत्यादिपदे वातद्‌गुणसंविज्ञानबहुव्रीहिणा यज्ञोपवीतादिदैवधर्म्मवतां दैवश्राद्धादीनां पित्र्याणां च पुत्रवृद्धिनि मित्तवशेनानियतकालकत्वेनानिर्णेयत्वात्। ह्रासवृद्ध्यादीत्यादिपदेन साम्यं तेषां चोदना खर्वदर्पवाक्यमित्यर्थः। युग्मवाक्यानां तु मिथोविरोधे तदविषयीभूततिथिषु च दशम्यादिषु शुक्लकृष्णवाख्याद्व्यवस्था अपेक्षितविघानात्। अत एव शुक्लकृष्णपक्षवाक्योपक्रमे उपवासग्रहणं दैवमात्रोपलक्षणम्। न चोपवास एव शुक्लकृष्णवाक्याद्व्यवस्था तदतिरिक्ते तु विरुद्धयुग्मवाक्यद्वयविरोधात् विकल्प एवास्त्विति वाच्यम्। तत्र उपवासप्रक्रमेऽपि "तया कर्म्माणि कुर्वीत" इति बहुवचनेन कर्म्ममात्रे तदवगमात्। यत्तु देवलवाक्यं तत् युग्मवाक्यादिना पूर्वस्यामुत्तरस्यां वा ग्राह्यत्वेन प्राप्तायां तत्तदहर्भागे तत्तिथ्यभावे तिथेः प्रधानत्वादहर्भागस्य च गुणभूतत्वाद् गुणमुख्यव्यतिक्रमन्यायेन तिथावेव कर्त्तव्यत्वे प्राप्ते अहर्भागे एवानुष्ठानसिद्ध्यर्थमिति। एतच्च साकल्यवचनं मन्वादिव्यतिरेकेण। तत्र मन्वादौ चेत्यादिप्रागुदाहृतवचनेनापवादात्। प्राच्यास्तु द्वि तीयादिकयुग्मानामिति पूर्वार्द्धे न विवादः। "एकोद्दिष्टादिवृद्ध्यादौ ह्रासवृद्ध्यादिचोदना" इत्यत्र तु एकोद्दिष्टमादिः प्रकृतिर्यस्य माध्याह्निकश्राद्धस्येत्यतद्‌गुणसंविज्ञानबहुव्रीहिणा माध्याह्निकश्राद्धान्युच्यन्ते। मुख्यैकोहिष्टस्याशौचान्तदिन एवानुष्ठेयत्वेनानिर्णेयत्वात्। वृद्ध्यादावित्यनेन पौर्वाह्णिकं श्राद्धमुच्यते। हासवृद्धी चन्द्रस्य तयोरादिराश्रयः कृष्णशुक्लपक्षौ तत्सम्बन्धिनी चोदना शुक्लकृष्णपक्षवाक्यमित्यर्थः। अथवा ह्रास वृद्धी कृष्णशुक्लपक्षौ तावादिर्निर्मित्तभूता यस्याश्चोदनाया निर्णयस्ये त्यर्थः। तदयमर्थः। आपराह्णिकश्राद्धातिरिक्तनिर्णयश्राद्धे शुक्लकृष्णवाक्यान्निर्णय इति। आपराह्णिकश्राद्धे तु

ययास्तं सविता याति पितरस्तामुपासते।

तिथिं तेभ्योऽपरो दत्तो ह्यपराङ्णः स्वयम्भुवा।।

इतिहेतुमन्निगदयुक्तपरिशिष्टवाक्यात् पक्षद्वयेऽप्यस्तमवव्यापिन्येव, यद्यपि शुक्लकृष्णवाक्यं दशम्यादिविषये दैवेऽपि प्रवर्त्तत इति नास्य पित्र्यमात्रविषयत्वं तथापि आपराह्णिकश्राद्धातिरिक्तश्राद्धेषु शुक्लकृष्णवाक्यमेव निर्णायकमिति व्यवस्थार्थं ह्रासवृद्ध्यादिचोदनेति वाक्यमित्यदोषः। अत एव शुक्लकृष्णवाक्ययिप्रश्नवाक्ये उपवासग्रहणं तादृशपित्र्योपलक्षणम्। खर्वदर्पादिवाक्यं तु प्राच्यनिबन्धृभिरलिखनान्निर्मूलम्। समूलत्वे तु अमावास्याविषयमेव।

यदा चतुर्द्दशी यामं तुरीयमनुपृरयेत्।

अमावास्या क्षीयमाणा तदैव आद्धमिष्यते।।

इति परिशिष्टैकवाक्यत्वात्। यदपि "कर्मणो यस्य यः काल" इति वाक्ये `ह्रासवृद्धी न कारणम्' इत्यत्र ह्रासवृद्धिग्रहणं तदपि शुक्लकृष्णपरमेवेत्याहुः। तन्न। हासवृद्धिपदस्य पूर्वार्द्धोपस्थिततिथिगतह्रासवृद्धिपरत्वे सम्भवति अत्यन्तानुपस्थितचन्द्रह्रासवृद्धिपरत्वस्यायुक्त्वात्। यज्ञपरत्वे लक्षणापत्तेश्च। किञ्च पूर्वार्द्धे युग्मवाक्यं दैव एवेति नियमविधानात्। उपक्रमानुरोधेनोत्तरार्द्धेऽपि पित्र्य एव शुक्लकृष्णवाक्यमिति नियमौचित्यात्तदतिक्रमेण पित्र्ये शुक्लकृष्णवाक्यमेवेतिनियमकरणे वैरूष्यापत्तेः। एतेन यत् विवेकतिथितत्वयोरेकोद्दिष्टादीत्यादिपदेन पार्वणग्रहणात् वृद्ध्यादीत्यादिपदेन क्षयसाम्ययोग्रीहणात् हासवृद्ध्यादीत्यादिपदेन `यया स्तं' इतिवाक्यस्य ग्रहणादेकोद्दिष्टे पविणे च तिथिवृद्धिक्षयसाम्यप्रयुक्तसन्देहे सति शुक्लकृष्णपक्षवाक्यास्तमयवाक्याभ्यां क्रमेण निर्णय इत्युक्तं, तदपास्तम्। वैरूप्यापत्तेः समानत्वात्। किञ्च वृद्ध्यादावितिपदेन सन्देहप्रतिपादनं व्यर्थं सर्वनिर्णयवाक्वानां सन्देह एव प्रवृत्तेः। तेषु सत्स्वपि कर्म्मकालव्याप्तो सत्यां सन्देहाभावान्न सन्देहोत्थापकत्वमपि तेषां किन्तु तिथिखण्डत्वस्यैवेत्युक्तम्। या च ययास्तमित्यादेः पार्वणविषयत्वेन व्यवस्था साप्ययुक्ता। अस्य हि सत्यपि अपराह्णसमभिव्याहारे--

पूर्वाह्णे दैविकं कार्यमपराह्णे तु पैतृकम्।

तथा श्राद्धस्य पूर्वाह्णादपराह्णो विशिष्यते।।

इत्यादिवाक्यपर्यालोचनया द्विधाविभक्तदिनापराह्नविषयत्वात् सकलपित्र्यविषयत्वेऽपि न कापि क्षतिः। एकोद्दिष्टादेरपि हि कुतपपूर्वार्द्ध उपक्रमेऽपि तादृशापराह्ण एव समाप्यमानत्वात्। एवं च--

देवकार्ये तिथिर्ज्ञेया यस्यामभ्युदितो रविः।

पितृकार्ये तिथिर्ज्ञेया यस्यामस्तमितो रविः।।

उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ।

द्विमुहूर्त्तं त्रिरन्हश्च सा तिथिर्हव्यकब्ययोः।।

इत्यादिसामान्यवचनान्युपपद्यन्ते। अन्यथा पार्वणमात्रविषयत्वे सङ्कोचापत्तेः। न चोपक्रमप्रभृतिसमाप्तिपर्यन्तं पार्वण एवापराह्णसम्बन्धात् 'ययास्तं' इतिवचनस्य तद्विषयत्वमेवास्त्विति वाच्यम्। शुक्लपक्षगतपार्वणस्यापि पूर्वह्ण एवोपक्रमात् उपक्रमप्रभृतिसमाप्तिपर्यन्तमपराह्वसम्बन्धाभावात्।

शुक्लपक्षस्य पूर्वाह्णे श्राद्धं कुर्याद्विचक्षणः।

कृष्णपक्षेऽपराह्णे तु रौहिणं तु न लङ्घयेत्।।

इति पार्वणं प्रकृत्याभिधानात्। तस्मात् ययास्तमित्यादि न पार्वणेऽस्तमयव्यापितिथिविधायकं किन्तु सर्वपित्र्ये खर्वदर्पवाक्यप्राप्तास्तमयव्यापित्वानुवादमात्रम्। एतेन--

दैवे कर्म्मणि सम्प्राप्ते यस्यामभ्युदितो रविः।

सा तिथिः सकला ज्ञेया पित्र्येऽर्थे चापराह्णिकी।।

इति मार्कण्डेयवचनमपि सत्यप्यपराह्णसमभिव्याहारे सर्वपित्र्यविषयत्वेनैव व्याख्यातम्। तस्मादुक्तयुक्त्या पित्र्ये खर्ववाक्यात्, दैवे युग्मवाक्यात्, युग्मवाक्यविरोधे तदविषयतिथिषु च शुक्लकृष्णवाक्यान्निर्णय इति सिद्धम्। यत्र पूर्वविद्धीया ग्राह्यत्वं युग्मादिवाक्यादवगतं यथा द्धितीयाविद्धायास्तृतीयायास्तत्र तृतीयाया द्वितीयादिनास्तमयात् पूर्वं त्रिमुहूर्त्तायास्ततोऽधिकाया वा सत्त्वे एवाग्राह्यत्वम्। न तु ततो न्यूनायाः सत्त्वे। एवं यत्र उत्तरविद्धाया ग्राह्यत्वं युग्मादिवाक्यादवगतं यथा तृतीयाविद्धाया द्वितीयायास्तत्र द्वितीयायास्तृतीयादिने उदयादुर्ध्वं त्रिमुहूर्त्तायास्ततोऽधिकाया वा सत्त्वे एव तत् न तु ततो न्यूनत्वे।

पक्षद्वयेऽपि थिथयस्तिथिं पूर्वां तथोत्तराम्।

त्रिभिर्मूहूर्तैर्विध्यन्ति सामान्योऽयं विधिः स्मृतः।।

इति पैठीनसिवचनात्,

उदिते दैवतं भानौ पित्र्यं चास्तमिते रवौ।

द्विमुहूर्त्तं त्रिरह्नश्च सा तिथिर्हव्यकव्ययोः।।

इतिविष्णुधर्म्मोत्तरवचनाच्च। अस्तमिते इत्यादिकर्म्मणि क्तः। अस्तं गन्तुमारब्ध इत्यर्थः। अस्तमयोत्तरमन्होऽसत्त्वात्। अत्रोदयव्यापिन्या द्विमुहूर्त्तसत्तास्तमयव्यापिन्यास्त्रिमूहूर्त्तसत्ता विधीयते। न तु हव्ये योदयव्यापिनी कव्ये यास्तमयव्यापिनी तस्या द्वित्रिमूहूर्त्तसत्तोद्देश्यविशेषणस्याबिवक्षितत्वात्। अत एव--

यां प्राप्यास्तमुपैत्यर्कः सा चेत् स्यात् त्रिमुहूर्त्तगा।

धर्म्मकृत्येषु सर्वेषु सम्पूर्णां तां विदुर्बुधाः।।

इति शिवरहस्ये सामान्यतो धर्म्मकृत्येष्वित्युक्तम्। विष्णुधर्म्मंवाक्ये च द्विमुहूर्त्तग्रहणमनुकल्पत्वेन द्रष्टव्यम्।

त्रिमूहूर्त्ता न कर्त्तव्या या तिथिः क्षयगामिनी।

द्विमुहूर्त्तापि कर्त्तव्या या तिथिर्वृद्धिगामिनी।।

इति दक्षवचनेऽपिशब्दश्रवणात्, पूर्वार्द्धे क्षयगामिन्यास्त्रिमुहूर्त्ताया निषेधस्य प्राप्तिपूर्वकत्वेन वृद्धिसाम्ययोस्त्रिमुहूर्त्तग्राह्यत्वलिङ्गाच्च। वस्तुतस्तु पूर्वोत्तरार्द्धयोरेकवाकयतार्थमुत्तरार्द्धगतापिशब्दानु षङ्गेण द्विमुहूर्त्तानुकल्पस्तुत्यर्थत्वमेव युक्तं न तु स्वतन्त्रो निषेधो वा क्यभेदापत्तेः। एतेनायं स्वतन्त्रो निषेधः अतस्तत्र चतुर्थमुहूर्त्तस्पर्शिनी ग्राह्या इति माधवोक्तमप्यपास्तम्। एवं यत्र पूर्वविद्धोत्तरविद्धा वा निषिध्यते तत्रापि यदि पूर्वतिथिर्वोधिका यथा प्रतिपत् द्वितीयायास्तत्र प्रतिपदूदयानन्तरं त्रिमुहूर्त्ता ततोऽधिका वोत्तरतिथेर्वेधिका, यदि उत्तरतिथिर्वेधिका यथा द्वितीया प्रतिपदस्तत्र द्वितीया प्रतिपदिदनेऽस्तमयात्प्राक् त्रिमुहूर्त्ता ततोऽधिका वा न ततो न्यूनेति।

पक्षद्वयेऽपि तिथयस्तिथिं पूर्वां तथोत्तराम्।

त्रिभिर्मुहूर्तैर्विध्यन्ति सामान्योऽयं विधिः स्मृतः।।

इतिपैठीनसिवचनात्। यानि तु--

व्रतोपवासदानादौ घटिकैकापि या भवेत्।

तथा,

आदित्योदयवेलायां या स्तोकापि तिथिर्भवेत्।

इत्यादीनि त्रिमुहूर्त्तन्यूनाया अपि सम्पूर्णत्वप्रतिपादकानि तान्यष्टाकपाल आग्नेयाधिकरणन्यायेन त्रिमुहूर्त्तवेधस्तावकानि स्तोकापीत्यपिशब्दोपादानादित्यलम्। अयं च निर्णयोऽहोरात्रसाध्योपवासादिकर्म्मातिरिक्तविषयः। उपवासादौ तु या पूर्वदिने शुद्धा सत्युत्तरदिने नास्ति त्रिमुहूर्त्तन्यूनास्ति वा तत्रायुग्मापि पूर्वैव त्रिमुहूर्त्तन्यूनाया युष्मशास्त्राविषयत्वात्। या तु पूर्वदिने त्रिमुहूर्त्तविद्धोत्तरदिने त्रिमूहूर्त्ता ततोऽधिका वा तत्र युग्मवाक्यान्निर्णयः। न चोत्तराया युग्मवाक्यवि षयभूतत्वेऽपि पूर्वैव कार्या। पूर्वदिनेऽहोरात्रकालव्यापित्वादितिवाच्यम् युग्मत्वेनोपक्रमकालीनत्वेन च बलीयस्त्वात् उपवासस्य च सङ्कल्परूपत्वात् तस्य च "प्रातः सङ्कल्पयेद्विद्वान्" इतिवचनेन प्रातः काले विधानेनोत्तरतिथेः प्रथानकालत्वाच्चेति केचिद् वदन्ति। हेमाद्रिमदनरत्नयोस्तूपवासे तु यत्र पूर्वतिथिविद्धोत्तरा निषिद्धा यथा प्रतिपद्विद्धा द्वितीया तत्र त्रिमुहूर्त्तन्यूनयापि प्रतिपदा विद्धा द्वितीया यद्युत्तरदिने त्रिमुहूर्त्तन्यूनाप्यस्ति तदोत्तरैव।

घटिकार्घं त्रिभागं वा स्वल्पं वा दूषयोत्तिथिम्।

पञ्चगव्यघटं पूर्णं सुराया बिन्दुको यथा।।

तथा,

सर्वप्रकारवेधोऽयमुपवासस्य दूषकः।

तथा उपवासं प्रक्रम्य--

घटिकामात्रवेधोऽपि दुषयत्युत्तरां तिथिम्।।

इतिषट्‌त्रिंशन्मतनिगमस्मृत्यन्तरैर्दूषकवेधोक्तेः।

उदये तूपवासस्य नक्तस्यास्तमये तिथिः।

तथा,

व्रतोपवासनियमे घटिकैकापि या भवेत्।

उदये सा तिथिर्ग्राह्या विपरीता तु पैतृके।।

आदित्योदयवेलायां याल्पापि च तिथिर्भवेत्।

पूर्णा इत्येव मन्तव्या प्रसूता नोदयं विना।।

इत्यादिबौधायननिगमादिवचनैः स्वल्पाया अपि उदयगामिन्या ग्राह्यत्वाभिधानात्। यदा तूत्तरदिने स्वल्पापि न लभ्यते तदा निषिद्धपूर्वतिथिविद्धाप्युपोष्या।

अविद्धानि निषिद्धैश्चेन्न लब्यन्ते दिनानि तु।

मुहूर्त्तैः पञ्चभिर्विद्धा ग्राह्यैवैकादशी तिथिः।।

तदर्धविद्धान्यन्यानि दिनान्युपवसेन्नरः।

इति ऋष्यशृङ्गोक्तेः। निषिद्धैरविद्धानि चेन्न लभ्यन्त इत्यन्वयः। पञ्चमुहूर्त्तविद्धाया एकादश्र्या ग्राह्यत्वं च यदा दशमी पञ्चमुहूर्त्ता परदिने एकादशी द्विमुहूर्त्ता द्वादशी च क्षयं गता तदा ज्ञेयम्। अरुणोदयमारभ्य पञ्चमूहूर्त्तवेध इति मदनरत्ने। तदर्द्धविद्धानीति तु निषिद्धवेधोपललक्षणम्। घटिकार्द्धं त्रिभागं वेत्यादिवाक्यानुसारात्। यत्र तु पूर्वविद्धा ग्राह्येत्युक्तं तत्र त्रिमुहूर्त्तवेध एवेति विशेष इति युक्तम्।

इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनिराजितचरणकमलश्रीमन्महाराजाधिराजप्रतापरुद्रतनूजश्रीमन्महाराजमधुकरसाहसूनुश्रीमन्महाराजाधिराजचतुरुदधिवल यवसुन्धरापुण्डरीकविकासदिनकर-श्रीवीरसिंहदेवोद्योजितश्रीहंसपण्डितात्मजश्रीपरशुराममिश्रसुनुसकलविद्यापारावारपारीणधुरीणजगद्दारिद्र्यमहागजपारीन्द्रविद्वज्जनजीवातुश्रीमन्मित्रमिश्रकृते श्रीवीरमित्रोदयाभिधनिबन्धे समयप्रकाशे सामान्यतिथिनिर्णयः।

एवं सामान्यतस्तिथौ निर्णीतायां विशेषतस्तिथिर्निर्णीयते। तत्र प्रतिपत्तावन्निर्णीयते। तस्या मुख्यत्वात्। प्रतिपदुपवासेषु शुक्ला कृष्णा वा पूर्वैव।

प्रतिपत् पञ्चमी चैव उपोष्या पूर्वसंयुता।

इति जाबालिवचनात्।

प्रतिपत् प्चमी भूता सावित्री वटपूर्णिमा।

नवमी दशमी चैव नोपोष्याः परसंयुताः।।

इति ब्रह्नवैवर्त्ते परविद्धाया निषेधाच्च। यत्तु--

प्रतिपत् सद्वितीया स्यात् द्वितीया प्रतिपद्युता।

इत्यापस्तम्बवचनं तदुपवासेतरदैवकर्म्मविषयम्। उपवासेऽपि अनपराह्णिकप्रतिपद्विषयं च वक्ष्यमाणवचनानुसारात्। इदं चोपवासेतरदैवकर्म्मण्युत्तरविद्धाया ग्रहणं तत् कृष्णपक्षे। शुक्लपक्षे प्रतिपद्यप्यमावास्ये तिपूर्वविद्धाया एव विधानात्। न चैतदप्युपवासमात्र उपसंह्रिबतामिति वाच्यम्। शुक्लपक्षप्रतिन्मात्रविषययुग्मवचनस्य विशेष्यत्वे शुक्लकृष्णोभयसाधारणेरुपबासवाक्यैरुपसंहारायोगात्। न च सामान्यवाक्यान्येव विशेषरूपेण युग्मवाक्येनोपसंह्रियन्तामितिवाच्यम्। तन्मते युग्मवाक्यस्य उपवासातिरिक्तदैवकर्म्मविषयत्वस्याप्यवश्यवाच्यत्वात्तेनैवोपवासेऽपिसिद्धौ सामान्यवचनानर्थक्यापत्तेः। माधवाचार्यास्तु उपसंहारमेव मत्वापस्तम्बवाक्यात् कृष्णोपवासेऽप्युत्तरैव ग्राह्येत्याहुः। दैवान्तरेषु तु कृष्णाया उत्तरविद्धात्वं शुक्लायाश्च पूर्वविद्धात्वमविवादमेव। इदं चीपवासे दैवान्तरेषु च शुक्लायाः पूर्वविद्धात्वं न सायं त्रिमूहुर्त्तसत्त्वे किन्तु आपराह्णिक्या एव।

प्रतिपत्सम्मुखी कार्या या भवेदापराह्णिकी।

इति स्कन्दोक्तेः। यत्तु गौडैः एतस्य वचनस्य निर्म्मूलत्वं, समूलत्वे आपराह्णिकपित्र्यविषयत्वं यच्छब्दयोगात्। वचनान्तरप्राप्तां पित्र्य आपराह्णिकीमुद्दिश्य सम्मुखीत्वस्य लाघवेन विधानादित्युक्तम्। तन्न। तथात्वे प्रतिपत्पुरस्कारेण सम्मुखीत्वविधानानर्थक्यापत्तेः।

प्रतिपत् सैव विज्ञेया या भवेदापराह्णिकी।

दैवं कर्म्म तया कार्यं पित्र्यं च मनुरब्रवीत्।।

इति माधवोदाहृतव्यासवचनविरोधाच्च। यदपि च यच्छब्दयोगादापराह्णिक्या उद्देश्यत्वमुक्तम्। तदप्ययुक्तम्। उक्तयुत्त्या सम्मुखीमुद्दिश्यापराह्णिकत्वस्यैव विधेयत्वावगमात्। यच्छब्दयोगस्तु व्यवहितकल्पनयापि न दुष्यति "यदाहवनीये जुहोति" इतिवत्। यदा तु सम्मुख्यापराह्णिकी न लभ्यते तदोत्तरैव "प्रतिपत् सद्वितीया स्यात्" इतिसामान्यवचनात्। माधवस्तु तत्रापि सायान्हव्यापिन्या ग्राह्यत्वमाहानुकल्पत्वात्। शेषं तु सामान्यनिर्णयादवसेयमिति। चैत्रशुक्लप्रतिपत्तु संवत्सरारम्भादिप्रयुक्ताभ्यङ्गादावौदयिकी ग्राह्या।

चैत्रे मासि जगत ब्रह्ना ससर्ज प्रथमेऽहनि।

शुक्लपक्षे समग्रं तु तदा सूर्योदये सति।।

इति ब्राह्नोक्तेः। दिनद्वये तत्सत्त्वासत्त्वयोः पूर्वैव।

चैत्रसितप्रतिपदि यो वारोऽर्कोदये स वर्षेशः।

उदयद्वितये पूर्वा नोदययुगलेऽपि पूर्वा स्यात्।।

इति ज्योतिर्निबन्धधृतवचनात्।

वत्सरादौ वसन्तादौ बलिराज्ये तथैव च।

पूर्वविद्धैव कर्त्तव्या प्रतिपत् सर्वदा बुधैः।।

इति वृद्धवशिष्ठोक्तेश्च। नवरात्रारम्भप्रतिपत्तु--

अमायुक्ता न कर्त्तव्या प्रतिपच्चण्डिकार्चने।

मुहूर्त्तमात्रा कर्त्तव्या द्वितीयादिगुणान्विता।।

इति देवीपुराणवचनात्।

तिस्रो ह्येताः पराः प्रोक्तास्तिथयः कुरुनन्दन!।

कार्त्तिकाश्वयुजोर्मासोश्चैत्रे मासि च भारत!।।

इति प्रतिपदमुपक्रम्य ब्रह्नपुराणाच्च परयुता कार्या। यत्तु--

देवीपुराणे,

श्रृणु राजन्! प्रवक्ष्यामि चण्डिकापूजनक्रमम्।

आश्विनस्य सिते पक्षे प्रतिपत्सु शुभे दिने।।

इत्युपक्रम्य--

शुद्धे तिथौ प्रकर्त्तव्यं प्रतिपच्चोर्ध्वगामिनी।

आद्यास्तु नाडिकास्त्यक्त्वा षोडश द्वादशापि वा।।

अपराङ्णे च कर्त्तव्यं शुद्धे सन्ततिकाङ्‌क्षिभिः।

इत्यापराह्णिक्या ग्राह्यत्वमुक्तं तत् परदिने प्रतिपदोऽभावे ज्ञेयम्।

पूर्वविद्धा तु या शुक्ला भवेत् प्रतिपदाश्विनी।

नवरात्रव्रतं तस्यां न कर्त्तव्यं शुभेच्छुना।।

इति मार्कण्डेयदेवीपुराणयोः पूर्वविद्धानिषेधाच्च। विशेषो नवरात्रेऽत्र वक्ष्यते। बल्युत्सवप्रतिपत्तु पूर्वा "वत्सरादौ वसन्तादौ" इति पूर्वोदादृतवचनात्।

पूर्वविद्धा प्रकर्तव्या शिवरात्रिर्बलेर्दिनम्।

इति पाद्मोक्तेश्च। अन्यविशेषो दीपोत्सवे वक्ष्यते। होलाका प्रतिपत् औदयिकी।

प्रवृत्ते मधुमासे तु प्रतिपद्युदिते रवौ।

इति भविष्योक्तेः। उभयत्र तथात्वातथात्वयोस्तु वत्सरादौ वसन्ता दाविति वचनात् पूर्वैव। इयं कामपूजायां प्रातर्युता ग्राह्या।

वृत्ते तुषारसमये सितपञ्चदश्यां

प्रातर्वसन्तमये समुपस्थिते च।

सम्प्राश्य चूतकुसुमं सहचन्दनेन

सत्यं हि पार्थ! पुरुषोऽथ समां सुखी स्यात्।।

इति पुराणसमुच्चयोक्तेः। भाद्रशुक्लप्रतिपन्महत्तपव्रते रुद्रव्रतत्वात् पूर्वा ग्राह्या।

रुद्रव्रतेषु सर्वेषु कर्त्तव्या सम्मुखी तिथिः।

इति ब्रह्नवैवर्त्तोक्तेः।

अथ द्वितीया निर्णीयते।

सा च सर्वंदैवकार्येषु शुक्ला परा कृष्णा तु पूर्वा ग्राह्या। युग्माग्नीतिपरविद्धाग्राह्यत्वप्रतिपादकस्य निगमवाक्यस्य--

प्रतिपत् सद्वितीया स्याद् द्वितीया प्रतिपद्युता।

इत्यापस्तम्बवचेनेन,

प्रतिपत् सम्मुखी कार्या द्वितीया द्विजसत्तम!।

इति ब्रह्नवैवर्त्तवचनेन च विरोधे--

शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः।

कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः।।

इति मार्कण्डेयवाक्येन व्यवस्थाविधानात्। केचित्तु युग्माग्नीति वाक्ये "चतुर्दश्या च पूर्णिमा" इति पौर्णमासीसमभिव्याहारात् सर्वं वाक्यं स्वत एव शुक्लपक्षविषयमिति न शुक्लपक्षे इत्यस्य व्यवस्थापकत्वमिति वदन्ति। तत्तु समभिव्याहाररूपसन्निधिवशेन सामान्यविषययुगादिश्रुति सङ्कोचायोगात् प्रतिपद्यप्यमावास्येति पक्षद्वयवर्त्यमाप्रतिपत्समभिव्याहाराच्चायुक्तमिति पूर्वोक्तैव व्यवस्था ज्यायसी। नन्वेवं युग्मादिवाक्यानां सर्वदैवकार्यतिथिविषयत्वे--

एकादश्यष्टमी षष्ठी द्वितीया च चतुद्‌र्दशी।

त्रयोदशी अमावास्या उपोष्याः स्युः परान्विताः।।

इत्युपवासमात्रविषयकपरान्विताग्राह्यत्वप्रतिपादकविष्णुधर्मोत्तरवाक्यानर्थक्यं स्यात्। एतद्वचनाभावे हि--

तृतीयैकादशी षष्ठी तथा चैवाष्टमी तिथिः।

वेधादधस्ताद्धन्युस्ता उपवासे तिथीस्त्विमाः।।

इति नारदीयवाक्ये तृतीयाया द्वितीयादूषकत्वाभिधानद्वारा उपवासे परविद्धद्वितीयाया निषेधात् सा उपवासातिरिक्तदैवविषयैव स्यात्। विष्णुधर्मोत्तरवाक्येन च उपवास एव पुनः परान्विताविधाने सति विधिनिषेधयोर्विरोधे सति शुक्लकृष्णवाक्याभ्यां व्यवस्थापनात्। तथाचात्र उपवासग्रहणस्य उपलक्षणमात्रपरतया परविद्धायाः पूर्वविद्धायाश्च शुक्लकृष्णपक्षव्यवस्थया सर्वदैवविषयत्वं सिद्धं भवति। एवं सर्वत्र सामान्यतो निर्णीतेऽर्थे विशेषतो निषेधे पुनर्विशेषविधानस्य इदमेव प्रयोजनं द्रष्टव्यम्। यच्च कृष्णद्वितीयायाः पूर्वविद्धाया ग्राह्यत्वमुक्तं तत् पूर्वाह्णसंस्पर्शे सत्येव।

प्रतिपत् सम्मुखी कार्या या भवेदापराह्णिकी।

पौर्वाह्णिकी च कर्त्तव्या द्वितीया तादृशी विभो!।।

इति स्कन्दपुराणवचनात्। चस्त्वर्थे। तादृसी सम्मुखी पूर्वविद्धेत्यर्थः। अस्य च वाक्यस्य पौर्वाह्णिकत्वपूर्वविद्धत्वोभयविधानपरत्वे गौरवप्रसङ्गात्। यत्र पूर्वविद्धत्वं प्राप्तं तत्रैव पौर्वह्णिकत्वविधानात् कृष्णपक्षविषयत्वमेव। अस्मिंश्च वाख्ये यद्यपि पूर्वाह्णापराह्णशब्ददर्शनात् द्वेधा विभाग एव प्रतिभासते। तथापि सायान्हमात्रव्यापिन्यामविद्यमानस्यापराह्णिकत्वस्य द्वेधाविभागपक्षेऽसम्भवात् पञ्चधाविभागपक्षोपादानेनैवापराह्णिकत्वमुपपादनीयम्। तथा च तत्साहचर्यात् पौर्वाह्णिकत्वमपि पञ्चधाविभागपक्षेणैव, अन्हः पूर्वो भागः पूर्वाह्ण इत्येवं व्युत्पत्त्या प्रातः-कालसम्बन्धित्वमेव व्याख्येयम्। नन्वेवं व्याख्याने एतस्याः शुद्धत्वादेव ग्राह्यत्वं प्राप्तमिति वचनामिदमनर्थकं स्यात्। मैवम्। एतद्वचनाभावे हि या पूर्वेद्युः सर्वं प्रातः कालं परित्यज्य प्रवृत्ता परेद्युश्च त्रिमुहूर्त्ता ततोऽधिका वा सा कृष्णपक्षगतत्वेन पूर्वैव ग्राह्या स्यात्। एतद्वचनसत्त्वेतु तस्याः पौर्वाह्णिकत्वाभावात्। परेद्युश्च परविद्धावचनानां युग्माग्नीत्यादीनां प्रवृत्तेः परस्या एव ग्राह्यत्वसिद्धिरित्यस्य वचनस्य प्रयोजनं व्यतिरेकतः सिद्धं भवति।

ननु युग्मादिवाक्यानां शुक्लकृष्णवाक्याभ्यां शुक्लकृष्णविषयत्वेन व्यवस्थापितानां कथं कृष्णपक्षे प्रवृत्तिः ? उच्यते। युग्मादिवाक्यानां "द्वितीया प्रतिपद्युता" इत्यादिवचनैर्विरोधे खलु शुक्लकृष्णवाक्ययोर्व्यवस्थापकत्वम्। यदा तु तानि वचनानि पौर्वाह्विकीत्यनेन वि शेषवचनेन सम्बध्यन्ते या प्रतिपद्युक्ता ग्राह्या सा पौर्वाह्णिकीत्येवमर्थतया तदा एतादृशानामेव युग्माग्निवाक्यविरोधात् शुक्लकृष्णपक्षपरतया व्यवस्थापनम्। या तु सर्वं प्रातः कालं परित्यज्य प्रवृत्ता परदिने च त्रिमुहूर्त्ता ततोऽधिका च तस्यां पूर्वविद्धाग्राह्यत्ववचनाभावात् भवेदेव युग्मवाक्यानां प्रवृत्तिरिति। या तु परेद्युस्त्रिमुहूर्त्तन्यूना सा पूर्वाह्णसंस्पर्शाभावेऽपि पूर्वैव ग्राह्या सन्देहाभावात्, परविद्धावचनानामप्रवृत्तेश्च। प्राच्यास्तु इदं वचनं न लिखन्ति। माधवानन्तभट्टमते तु सर्वा द्वितीया परा।। तथा च--

माधवः,

पूर्वेद्युरसती प्रातः परेद्युस्त्रिमूहूर्त्तगा।

सा द्वितीया परोपोष्या पूर्वविद्धा ततोऽन्यथा।। इति।

श्रावणादिमासचतुष्टयासितपक्षद्वितीयासु अशून्यशयनाख्ये व्रते चन्द्रोदयव्यापिनी ग्राह्या तस्य चन्द्रोदये विधानात्। चन्द्रोदयव्रतत्वं चास्य

चन्द्राय चार्घ्यो दातव्यो दध्यक्षतफलादिभिः।

इति पुराणान्तरवचनात्। व्रतं चोक्तम्--

भविष्ये,

अशून्यशयनं नाम द्वितीयां शृणुभारत!।

यामुपोष्य न वैधव्यं स्त्री प्रयाति नराधिप!।। इति।

अत्रोपोष्येत्यनेनोपासनमुक्तं न तु भोजननिवृत्तिः।

नक्तं प्रणम्यायतने हरिं भुञ्जीत वाग्यतः।

इतिपुराणान्तरे नक्तभोजनविधानात्। दिनद्वये चन्द्रोदये तत्सत्त्वासत्त्वयोः परैव।

चतुर्ष्वसितपक्षेषु मासेषु श्रावणादिषु।

अशून्याख्यं व्रतं कुर्याज्जयया तु फलाधिकम्।।

इतिपुराणान्तरे जयायुक्ताविधानादिति मदनरत्नः। कार्त्तिकशुक्लद्वितीया यमपूजायामापराङ्णिकी ग्राह्या।

ऊर्जे शुक्लद्वितीयायामपराह्णेऽर्चयेद्यमम्।

इतिस्कान्दोक्तेः।

भविष्ये--

प्रथमा श्रावणे मासि मासि भाद्रे तथा परा।

तृतीयाश्वयुजे मासि चतुर्थी कार्तिके भवेत्।।

श्रावणे कलुषा नाम तथा भाद्रे च गीर्मता।

आश्विने प्रेतसञ्चारा कार्त्तिके याम्यका मता।।

इत्युक्त्वा ग्रथमायां व्रतं द्वितीयायां सरस्वतीपूजां तृतीयायां श्राद्धमुक्त्वा चतुर्थ्यामुक्तम्--

कार्त्तिके शुक्लपक्षस्य द्वितीयायां युधिष्ठिर!।

यमो यमुनया पूर्वं भोजितः स्वगृहेऽर्चितः।।

अतो यमद्वितीयेयं त्रिषु लोकेषु विश्रुता।

अस्यां निजगृहे विप्र! न भोक्तव्यं ततो नरैः।

स्नेहेन भगिनीहस्ताद्भोक्तव्यं पुष्टिवर्द्धनम्।।

दानानि च प्रेदयानि भगिनीभ्यो विधानतः।

सर्वा भगिन्यः सम्पूज्या अभावे प्रतिपन्नकाः।।

प्रतिपन्नकाः=भगिनीत्वे परिकल्पिता इति हेमाद्रिः।

इति द्वितीयानिर्णयः।

अथ तृतीयानिर्णयः।

रम्भातृतीयातिरिक्ता तृतीया उपवासादिसकलदैवेषु चतुर्थीयुता ग्राह्या। तदुक्तम्--

ब्रह्नवैवर्त्ते,

रम्भाख्यां वर्जयित्वा तु तृतीयां द्विजसत्तमाः!

अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते।।

गणः=चतुर्थी।

आपस्तम्बः--

चतुर्थीसंयुता या च सा तृतीया फलप्रदा।

अवैधव्यकरी स्त्रीणां पुत्रपौत्रप्रदायिनी।।

अत्र चतुर्थीयुततृतीयायाः प्रशंसाश्रवणेन विधेयतावगम्यते। द्वितीयायुक्ततृतीयाया निषेधश्च श्रूयते। तथा च--

स्कन्दपुराणे,

द्वितीयया तु या विद्धा तृतीया न कदाचन।

कर्तव्या व्रतिभिस्तात! धर्म्मकामार्थतत्परैः।।

विहायैकां तु रम्भाख्यां तृतीयां पुण्यवर्धिनीम्।

तच्चात्र ऋषिभिः प्रोर्क्त वचनं कृत्तिकासुत!।।

ब्रह्नवैवर्ते च--

तृतीया तु न कर्त्तव्या द्वितीयोपहता विभो!।

द्वितीयया युतां तां तु यः करोति नराधमः।।

संवत्सरकृतेनेह नरो धर्म्मेण मुच्यते।

तथा,

द्वितीयाशेषसंयुक्तां कुरुते नृपसत्तम!।

स याति नरकं घोरं कालसूत्रं भयङ्करम्।।

द्वितीयाशेषसंयुक्तां या करोति विमीहिता।

सा वैधव्यमवाप्नोति प्रवदन्ति मनीषिणः।।

स्कन्दपुराणे--

तृतीया तु न कर्त्तव्या द्वितीयासंयुता तिथिः।

या करोति विमूढा स्त्री पुरुषो वा शिखिध्वज!।

द्वितीयासंयुतां तात! पूर्वधर्म्माद्‌विलुप्यते।।

विधवात्वं दुर्भगत्वं भवेन्नैवात्र संशयः।

कलाकाष्ठापि या चैव द्वितीया सम्प्रदृश्यते।।

सा तृतीया न कर्त्तव्या कर्त्तव्या गणसंयुता।

य इच्छेत्परमं गुह्यं ब्रतकर्त्ता शिखिध्वज!।।

भविष्यत्पुराणे--

कार्या द्वितीयया सार्द्धं न तृतीया कदाचन। इति।

अत्र "रम्भाक्यां वर्जयित्वा" इति "विहायैकां तु रम्भाख्यां" इति च श्रवणाद्रम्भाव्रते द्वितीयायुक्ततृतीया ग्राह्येति गम्यते साक्षाद्‌विधानाच्चयथोक्तम्--

स्कन्दपुराणे,

बृहत्तपा तथा रम्भा सावित्री वटपैतृकी।

कृष्णाष्टमी च भूता च कर्त्तव्या सम्मुखी तिथिः।।

तथा,

कृष्णाष्टमी तथा रम्भा तृतीया पटपैतृकी।

बृहत्तपा तथा ब्रह्नन! कर्त्तव्या सम्मुखी तिथिः।।

एवं च युग्माग्नीतियुग्मवाक्यमपि रम्भाव्रतविषयमेव। न च द्वितीयायुततृतीयानिषेधाः चतुर्थीयुततृतीयाविधय उपवासमात्रविषयाः।

एकादश्यष्टमी षष्ठी पौर्णमासी चतुर्द्दशी।

अमावास्या तृतीया च ता उपोष्याः परान्विताः।।

इति बृहस्पतिवचनानुगुण्यादितिवाच्यम्।

अन्येषु सर्वकार्येषु गणयुक्ता प्रशस्यते।

इत्यादिवचनेषु उपवासव्यतिरिक्तकार्येऽपि परविद्धात्वसह्कीर्त्तनात् एकादश्यष्टमीतिवाक्यं तु तिथिविशेषे उपवासे परविद्धत्वं प्रतिपादयति। न तु कार्यान्तरे परविद्धत्वं निवर्त्तयति। उभयार्थत्वे वाक्यभेदप्रसङ्गात्। केचित्तु द्वितीयायुक्ततृतीयाविधिः शुक्लतृतीयाविषयः। निषेधस्तु कृष्णतृतीयाविषयः। नचैवं रम्भावाक्यमनर्थकं स्यादितिवाच्यम्। एकादश्र्यष्टमीतिप्रागुक्तवचनवशादुपवासे शुक्लपक्षगताया अपि तृतीयायाः परविद्धत्वाश्रयणात्तदपवादत्वेन रम्भावाक्यारम्भोपपत्तेरित्याहुः। तदयुक्तम्। वैपरीत्यस्यापि वस्तुं शक्त्यत्वात्। द्वितीयायुततृतीयाविधिः कृष्णतृतीयाविषयः। निषेधस्तु शुक्लतृतीयाविषय इति। किञ्च--

शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः।

कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः।।

इतिवचनं विपरीतमेवार्थमवगमयति। अत्र हि कृष्णपक्षगतायास्तृतीययास्तिथेर्यस्यामस्तमितो रविरितिद्वितीयायुताया ग्राह्यत्वं प्रतीयते। शुक्लपक्षगतायास्तु तस्या एव तिथेर्यस्यामभ्युदितो रविरिति चतुर्थीयुताया ग्राह्यत्वम्। वस्तुतस्तु न शुक्लकृष्णभेदेन विधिनिषेधयोर्विषय व्यवस्था युक्तिमती। तथासति द्वितीयायुक्ततृतीयानषेधकानां चतुर्थीयुक्ततृतीयाविधायकानां च प्रागुदाहृतानां बहूनां सङ्कोचापत्तेः। अस्मत्पक्षे तु न तथा वाक्यसङ्कोचः। रम्भाव्रतपरित्यागेन द्वितीयायुततृतीयानिषेधानां चतुर्थीयुततृतीयाविधीनां च शुक्लपक्षेऽपि प्रवृत्तेरङ्गीकरणात् "अन्येषु सर्वकार्येषु" इति वचनं च भवत्पक्षे बाध्यते। केवलं युग्मवाक्यमेव तु रम्भाव्रतविषयत्वेनास्मत्पक्षे सङ्कोच्यते इति विशेषः। अयं च द्वितीयावेधः स्वल्पोऽपि त्याज्यो न तु मुहूर्त्तत्रयपरिमित एव। "द्वितीयाशेषसंयुक्तां" "ककलाकाष्ठापि या चैव" इत्यादिवचनेभ्यस्तथावगमात्। अत एव तृतीयापि चतुर्थीयुता स्वल्पापि ग्राह्या न तु त्रिमुहूर्त्तत्वकर्म्मकालत्वादरः। अयं चाल्पस्यापि द्वितीयावेधस्य निषेधः, अल्पोत्तरतृतीयापरिग्रहश्च शिष्टाचारात् गौरीदैवत्यव्रताविषय एव। व्रतान्तरेषु तु निषेध्यद्वितीयावेधादेस्त्रिमुहूर्त्तत्वमादरणीयमेव यदा तूत्तरदिने अल्पापि तृतीया न लभ्यते तदा सर्वव्रतेषु द्वितीयायुक्तापि ग्राह्यैव।

एकादशी तृतीया च षष्ठी चैव त्रयोदशी।

पूर्वविद्धापि कर्त्तव्या यदि न स्यात् परेऽहनि।।

इति वृद्धवसिष्ठवचनात्। यदा तु पूर्वदिने तृतीया शुद्धा सती उत्तरदिने वर्द्धते तदा शुद्धामपि त्यक्त्वा चतुर्थीयुक्तैव ग्राह्या "गणयुक्ता प्रशस्यत" इत्यादिवचनैः चतुर्थीयुक्तायाः प्राशस्त्यावगमादिति केचित्। अन्ये तु एतादृशविषये निषेधवाक्यानामप्रवृत्तेः शुद्धाधिकायामप्युत्तरविद्धैव तृतीया ग्राह्येत्येतदर्थप्रतिपादकस्य वचनस्यानुपलम्भात् गणयुक्तादिवाक्यानां च तृतीयायाः द्वितीयावेधचतुर्थीवेधयोः सतोः पूर्वविद्धा वा ग्राह्या उत्तरविद्धा वा ग्राह्या इत्येवं सन्देहे सति निर्णायकत्वात् एतादृशविषये च तिथेः पूर्णत्वेन सन्देहानुदयात् निर्णायकगणयुक्तादिवाक्याप्रवृत्तेः पूर्वैव तृतीया ग्राह्येत्याहुः। तदयं सङ्क्षेपः। रम्भाव्र तारिक्तेषु उपवासादिसकलदेवकार्येषु न द्वितीयाविद्धा तृतीया ग्राह्या किन्तु चतुर्थींयुक्ता। गौरीव्रतेषु स्वल्पयापि द्वितीयया युक्ता वर्ज्या न द्वितीयायास्त्रिमुहूर्त्तत्वादरः। तथा गौरीव्रत एव अत्रिमुहूर्त्तापि चतुर्थीयुक्ता ग्राह्या व्रतान्तरेषु वेध्यवेधकयोस्तृतीयाद्वितीययोस्त्रिमुहूर्त्तत्वमाश्रयणीयमेव। यदा तु स्वल्पापि तृतीयोत्तरदिने न लभ्यते तदा द्वितीयाविद्धापि सर्वव्रतेषु ग्राह्यैव रम्भाव्रते तु द्वितीयायुक्तैव ग्राह्या तदलाभे च द्वितीयायुक्तापि शुद्राधिका पुनः पूर्णत्वात् पूर्वैवादेयेति।

इति तृतीयानिर्णयः।

अथ चतुर्थीनिर्णयः।

चतुर्थी पञ्चमीयुता ग्राह्या युगभूतानीतिवाक्यात्।

एकादशी तथा षष्ठी अमावास्या चतुर्थिका।

उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः।।

इति वृद्धवशिष्ठवाक्याच्च। विनायकव्रते तु तृतीयायुक्ता चतुर्थी ग्राह्या। तदुक्तम्--

ब्रह्नवैवर्त्ते,

चतुर्थीसंयुता या तु तृतीया सा फलप्रदा।

चतुर्थी च तृतीयायां महापुण्यफलप्रदा।।

कर्त्तव्या व्रतिभिर्वत्स! गणनाथसुतोषिणी। इति।

अत्र गणनाथेतिविशेषणसामर्थ्यात् गणनाथव्रते तृतीयायुक्ता चतुर्थी ग्राह्येति गम्यते। एवं च--

चतुर्थीसंयुता कार्या तृतीया च चतुर्थिका।

तृतीयया युता नैव पञ्चम्या कारयेत्क्वचित्।।

इति यत् भविष्यत्पुराणस्थं वचनं, यच्च--

चतुर्थी चैव कर्त्तव्या तृतीयासंयुता विभो!।

इति स्कन्दपुराणस्थं वचनं, तदुभयमपि गणनाथव्रतविषयमेव। सि द्विविनायकव्रते च मध्याह्नव्यापिनी चतुर्था प्राह्या।

चतुर्षीं गणनाथस्य मातृविद्धा प्रशस्यते।

मध्याहव्यापिनी सा तु परतश्चेत् परेऽहनि।।

इति बृहस्पतिवचनात्। परतश्चेत् परेऽहनीत्यस्यायमर्थः। यदि परेद्युरेव मध्याह्नव्याप्तिः तदैव परेऽहनि पञ्चमीविद्धेत्यर्थः। पक्षान्तरेषु तु मातृचिद्धैव ग्राह्येति।

प्रातः शुक्लतिलैः स्नात्वा मध्याह्ने पूजयेन्नृप!।

इतिगणपतिकल्पे मध्याह्नस्य कर्म्मकालत्वावगमाच्च। यदा तु पूर्वंदिने मातृविद्धा परेद्युरेव च मध्याह्नव्यापिनी भवति तदा मातृविद्धात्वगुणयोगेन परदिन एव विनायकव्रतमनुष्ठेयम्। तत्रैव कर्म्मकालव्याप्तेः। एवं नागदेवताव्रतेऽपि मध्याह्नव्यापिनी चतुर्थी ग्राह्या।

युगं मध्यन्दिने यत्र तत्रोपोष्य फणीश्वरान्।

क्षीरेणाप्याय्य पञ्चम्यां पारयेत् प्रयतो नरः।

विषाणिं तस्य नश्यन्ति न तं हिंसन्ति पन्नगाः।।

इति मध्याह्ने नागपूजाविधानात्। एतावांस्तु विशेषः। यदा पूर्वेद्यु रेव मध्याह्नव्याप्तिः तदैव पूर्वा। पक्षान्तरेषु पञ्चमीयुक्तैव ग्राह्या। पञ्चम्या नागतिथित्वेन तद्‌योगस्य प्राशस्त्यात् केचित्तु नागदेवताव्रतेऽपि विनायकव्रतवत् तृतीयायुक्ता ग्राह्येत्याहुः। तदयुक्तम्। प्रमाणविरहात्। पूर्वोदाहृतभविष्यत्पुराणस्थस्कन्दपुराणस्थवचनयोः प्रमाणत्वमितिचेत्, न। तयोः सामान्यतः प्रवृत्तेः। तत्र हि चतुर्थी तृतीयायुक्ता ग्राह्येत्येयावत् प्रतीयते न पुनर्नागचतुर्थी तृतीयायुक्तेति। पूर्वोदाहृतब्रह्नवैवर्त्तंवचनानुगुण्यात्तु गणनाथसुतेषिणी च चतुर्षीं तृतीयायुक्ता ग्राह्येत्येतदेवैतयोर्वचनयोर्हृदयमवगच्छामः। तेन नागदेवताव्रते दिनद्वये मध्याह्नब्याप्त्यादिना चतुर्थीग्रहणसन्देहे युग्मवाक्यात् परैव ग्राह्या, यदा तु पूर्वदिन एव मध्याह्नवब्याप्तिस्तदा कर्म्मकालशास्त्रस्य प्राबल्यात् पूर्वा ग्राह्या। यत्तु--

द्वितीया पञ्चमीवेधात् दशमी च त्रयोदशी।

चतुर्दशी चोपवासे हन्युः पूर्वौत्तरे तिथी।।

इति पञ्चमीयुक्तचतुर्थींनिषेधकं वचनं तद्विनायकव्रतविषयम्। गौरीव्रते तु तृतीयायुक्तचतुर्थी ग्राह्या तृतीयाया गौरीदेवतात्वेन तद्योगस्य प्राशस्त्यात्। चतुर्थ्यां गौरीव्रते तु भविष्यत्पुराणेऽभिहितम्--

विनायकं समभ्यर्च्य चतुर्थ्यां यदुनन्दन!।

सर्वविघ्नविनिर्मुक्तः कार्यसिद्धिमवाप्नुयात्।।

इत्यभिधायानन्तरमेवाभिहितम्--

निद्रां रतिं शिवां भद्रां कीर्तिं मेधां सरस्वतीम्।

प्रज्ञां तुष्टिं तथा कान्तिं तत्रैवाहनि पूजयेत्।।

विद्याकामो विशेषेण पूजयेच्च सरस्वतीम्। इति।

लिङ्गपुराणेऽपि--

चतुर्थ्यां तु गणेशस्य गौर्य्याश्चैव विधानतः।

पूजां कृत्वा लभेत् सिद्धिं सौभाग्यं च नरः क्रमात्।। इति।

नारदीयपुराणेऽपि--

माघशुक्लचतुर्थ्यां तु गौरीमाराधयेदूबुधः।

चतुर्थी वरदा नाम गौरी तत्र सुपूजिता।। इति।

जया च यदि सम्पूर्णा चतुर्थी हसते पुनः।

जया सैव हि कर्त्तव्या नागविद्धां न कारयेत्।।

इति वचनमपि गौरीव्रते कैमुत्यन्यायेन तृतीयायुक्तचतुर्थीं ग्राह्यतया प्रतिपादयति। अयं हि अस्य वचनस्यार्थः। यदा परदिने चतुर्थीह्रासेन पञ्चमी विद्धा भवति पूर्वदिने पुनर्जया सम्पूर्णदिनव्यापिनी भवति तदा शुद्धा तृतीयापि चतुर्थीव्रते ग्राह्या न तु दोषभूयिष्ठा पञ्चमीविद्धा चतुर्थीति। न त्विदं वचनं चतुर्थीव्रते शुद्धतृतीयां ग्राह्यतया प्रतिपादयति पञ्चमीविद्धचतुर्थीनिषेधपरत्वात्। उभयपरत्वे च वाक्यभेदादिति। केचित्तु इदं वचनं विनायकव्रतविषयमित्यङ्गीकृत्यान्यथा व्याचक्षते। यदा पूर्वदिने मध्याह्ने जया सम्पूर्णा उत्तरदिने पुनर्हासवशाच्चतुर्थी मध्याह्वादर्वागेव समाप्यते तदा दिनद्वये कर्म्मकाले चतुर्थ्या अभावे सति किं दिनं ग्राह्यामत्यपेक्षायामिदं वचनमारभ्यते-जया च यदि सम्पूर्णेति। जयाया मध्यान्हव्यापित्वेऽपि जयायुक्ता पूर्वैंव चतुर्थी ग्राह्या न तु नागविद्धा परा चतुर्थी।

गौर्य्याश्चतुर्थी वटधेनुपूजा दुर्गाचनं दुर्मरहोलिके च।

वत्सस्य पूजा शिवरात्रिरेताः परा विनिघ्नन्ति नृपं सराष्ट्रम्।।

इतिपुराणमुञ्चयवचनादपि गौरीव्रते तृतीयायुक्ता चतुर्थी ग्राह्येति प्रतीयते। गौर्य्याश्चतुर्थी=गौरीव्रतसम्बन्धिनी चतुर्थी। धेनुपूजा=तत्सम्बन्धिनी बहुलाचतुर्थी। वत्सस्य पूजा=वत्सद्वादशी। केचित्तु शुक्लचतुर्थी पञ्चमीयुता कृष्णचतुर्थी तृतीयायुता ग्राह्या। "शुक्लपक्षे तिथिर्ज्ञेय" इत्यादिवचनादित्याहुः। तदयुक्तम्। तृतीयायुक्तचतुर्थीग्रहणवाक्यस्य पूर्वोक्तैव व्यवस्था साध्वीति। सङ्कष्टचतुर्थी तु चन्द्रोदयव्यापिनी ग्राह्या तस्यास्तत्कल्पे चन्द्रोदयकालत्वविधानात्।

इति चतुर्थीनिर्णयः।

अथ पञ्चमीनिर्णयः।

पञ्चमी उपवासादिसकलदैवकर्म्मसु पूर्वयुता ग्राह्या युगभूतानामिति युरमवाक्यात्।

स्कन्दपुराणेऽपि--

पञ्चमी च तथा कार्या चतुर्थीसंयुता विभो!। इति।

भविष्यत्पुराणेऽपि--

पञ्चमी तु चतुर्थ्या तु कार्या षष्ठया न संयुता। इति।

एकादशी तथा षष्ठी अमावास्या चतुर्थिका।

उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः।।

इति वशिष्ठवाक्ये परिगणितव्यतिरिक्तायाः परशब्दसंगृहीतायाः पञ्चभ्या उपवासे पूर्वसंयुक्तत्वाभिधानाच्च। तेन यद्यपि

प्रायः प्रान्त उपोष्या हि तिथिर्देवफलेप्सुभिः।

इति शिवरहस्यसौरपुराणयोस्तिथिप्रान्तस्योपवासे अङ्गत्वाभिधानात्तिथिद्वैधे परविद्धा तिथिरुपवासे ग्राह्येति प्रतीयते। तथाप्यस्य सामान्यविधित्वात् प्रागुदाहृततत्तद्विशेषवचनैः उपवासे पञ्चम्याः पूर्वयुक्तत्वं युक्तमेव। एतदेवाभिप्रेत्य प्रायः प्रान्त इति प्रायःशब्दः प्रयुक्तः। यत्तु

पञ्चमी तु प्रकर्त्तव्या षष्ठया युक्ता तु नारद!।

इति विरुद्धवचनं तत् स्कन्दोपवासविषयम्।

स्कन्दोपवासे स्वीकार्या पञ्चमी परसंयुता।

इति तद्वाक्यशेषेऽभिधानात् नागदेवताव्रतविषयं च।

श्रावणे पञ्चमी शुक्ला सम्प्रोक्ता नागपञ्चमी।

तां परित्यज्य पञ्चम्यश्चतुर्थीसहिता हिताः।।

इतिवचनात्। अत्र श्रावणोपादानान्मार्गशुक्लपञ्चमी व्रते पूर्वैवेति बोध्यम्। केचित्तु पञ्चमीविषयविरुद्धवचनानां शुक्लकृष्णभेदेन व्यवस्थामाहुः। तदयुक्तम्।

चतुर्थ्या संयुता कार्या पञ्चमी परया न तु।

देवे कर्म्मणि पित्र्ये च शुक्लपक्षे तथाऽसिते।।

इति माधवाद्युदाहृतवचने पक्षद्वयवर्त्तिंपञ्चम्याः पूर्वयुक्तत्वाभिधानात्। अत्र पित्र्यग्रहणं दृष्टान्ततया कृतम्। यथा पित्र्ये अपराह्णाद्यनुरोधेन षष्ठीयुक्तपञ्चमीं परित्यज्य चतुर्थीसंयुता पञ्चमी उपादीयते तथा दैवेऽपीति। नच दैवे पूर्वाह्णस्य कर्मकालत्वात् कर्म्मकालशास्त्रस्य च प्रबलत्वात् परयुक्तैव पञ्चमी उपादेयेति शङ्कनीयम्। पूर्वोदाहृततत्तद्विशेषवचनानां प्रबलतरत्वात् एतादृश एव च विषये "यां तिथिं समनुप्राप्य" इतिसाकल्यवचनमुपपद्यते। अन्यथा साकल्यवचनमनवकाशं स्यात्। अत एवोपवास एव पञ्चमी पूर्वयुतान्यत्र दैवेऽप्युत्तरैवेत्यष्यभिधानमयुक्तमव। दैवे कम्मेणीति दैवमात्रे पृर्वयुतत्वप्रतीतेः परयुक्तपञ्चमीवचनानां स्कन्दोपवासवचनेन विषयदानाच्च। ननु व्यासनिगमगतयुग्मशास्त्रात् पञ्चम्याश्चतुर्थीयुक्ताया ग्राह्यत्वं प्रतीयते। आपस्तम्बाद्युदाहृतयुत्मशास्त्रात्तु--

प्रति पत्सद्वितीया स्यात् द्वितीया प्रतिपद्युता।

चतुर्थीसंयुता या च सा तृतीया फलप्रदा।।

पञ्चमी च प्रकर्त्तव्या षष्ठया युक्ता च नारद!।।

इत्येवंरूपात् षष्ठीयुक्ता पञ्चमी ग्राह्येति प्रतीयते। ततश्च युग्मशास्त्रयोर्विरोधे व्यवस्थापकवचनान्तरस्यापोक्षितत्वात् युक्ता शुक्लकृष्ण शास्त्रेण ब्यवस्थेति। सत्यम्। प्रयुक्ता शुक्लकृष्णशास्त्रेण व्यवस्था तां निराकर्त्तुमेव हारीतवचने `शुक्लपक्षे तथासित' इत्युक्तम्। तेन विरुद्धमापस्तम्बादियुग्मशास्त्रं स्कन्दोपवासविषयं युक्तमिति तस्मात् पूर्वोक्तैव व्यवस्था ज्यायसी।

इति पञ्चमीनिर्णयः।

अथ षष्ठी निणींयते।

सा च स्कन्दव्रतातिरिक्ते सर्वत्र दैवकार्ये सप्तमीयुक्ता ग्राह्य षण्मुन्योरितियुग्मवाक्यात्।

एकादश्यष्टमी षष्ठी द्वितीया च चतुर्द्दशी।

त्रयोदशी अमावास्या उपोष्याः स्युः परान्विताः।।

इति विष्णुधर्मोत्तरवाक्याच्च। उपवासग्रहणं तु दैवमात्रोपलक्षणमित्युक्तं द्वितीयानिर्णये।

नागविद्धा तु षष्ठी स्यात्पक्षयोरुभयोरपि।

दैवे कर्म्मणि तामन्त्यां पित्र्ये पूर्वेण संयुताम्।।

इति सुमन्तुना पञ्चमीविद्धानिषेधपुरःसरं दैवे कर्म्मणि अन्त्यःशब्दोदितायाः सप्तमीविद्धाया विधानाच्च।

नागविद्धा तु या षष्ठी शिवविद्धातु सप्तमी।

दशम्येकादशीविद्धा नोपोष्या स्यात् कथञ्चन।।

इति शिवरहस्यसौरपुराणयोः।

नागविद्धा तु या षष्ठी रुद्रविद्धो दिवाकरः।

कामविद्धो भवेद् विष्णुर्न ग्राह्यास्ते तु वासराः।।

इति निगये पूर्वविद्धा निषेधाच्च। अत्रापि उपवासग्रहणं पूर्ववत्। नागः पञ्चमी। शिवो रुद्रश्चाष्टमी। दिवाकरः=सप्तमी। कामस्त्रयोदशी। विष्णुर्द्वादशी। पञ्चमीवेधस्तु--

नागो द्वादशनाड़ीभिर्दिक् पञ्चदशबिस्तथा।

भूतोऽष्टादशनाड़ीभिर्दुषयत्युत्तरां तिथिम्।।

इति स्कन्दपुराणवचनात् षण्मुहूर्त्तात्मको न तु सामान्यतस्त्रिमुहूर्त्तामकः। स्कन्दषष्ठी तु--

कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिश्चतुर्दशी।

एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत्।।

इति व्रह्नवैवर्त्तवचनात् पञ्चमीयुतैव ग्राह्या। कृष्णाष्टमी=कृष्णपक्षगता अष्टमी। व्रतप्रकाशप्रसिद्धरुद्रदैवत्यकृष्णाष्टमीव्रतसम्बान्धिनी वा जन्माष्टमीत्यपि केचित्। इदं वचनं या द्वादशनाडीमितपञ्चम्या विद्धा षष्ठी सामान्यतः सर्वदैवकार्येषु निषिद्धा तस्या एव स्कन्दव्रते प्रतिप्रसवार्थम्। तथाच स्कन्दव्रतेऽपि द्वादशनाडीविद्धाया निषिद्धत्वात् ततो न्यूनपञ्चमीयुतैव ग्राह्येति ज्ञातव्यम्। तस्याः शुद्धत्वेन सर्वत्रापि ग्राह्यत्वे वचनानर्थक्यापत्तेः। किञ्च "नागो द्वादशनाडीभिः" इति वाक्यं न सर्वत्र द्वादशनाडीमितपञ्चम्या उत्तरतिथिदूषकत्वाभिधानपरं तदभिधाने गौरवात् किन्तु यत्र दूषकत्वं प्राप्तं तत्रैव दूषकत्वानुवादेन द्वादशनाडीमितत्वविधानपरम्। स्कन्दव्रते तु पूर्वयुताया एव ग्राह्यत्वाभिधानान्न दूषकत्वमिति द्वादशनाडीमितपञ्चमीविद्धायामपि तत्कार्यम्। यत्तु--

एकादसी तृतीया च षष्ठी चैव त्रयोदशी।

पूर्वविद्धापि कर्त्तव्या यदि न स्यात्परेऽहनि।।

इति वशिष्ठवचनं तत् न सर्वदैवविषयम्। पूर्वेद्युः षण्मुहूर्त्तपञ्चमीविद्धायाः षष्ठयास्त्रिमुहूर्त्ताधिकक्षयासम्भवेन उत्तरदिनेऽपि त्रिमुहूर्त्ताया अवश्यम्भावित्वात् `यदि न स्यात्' इत्यास्यानुपपत्तेः, किन्तु एकभक्तादिकाले मध्यान्हादौ परेऽहनि यदि न स्यात्तदा या स्कन्दव्रतातिरिक्ते सवर्त्र निषिद्धा पूर्वविद्धा सापि कर्त्तव्येति प्रतिप्रसवार्थम्। युक्तं चैतत्। कालशास्त्रस्य प्रबलत्वात्। द्वादशनाड्यादिवेधस्य नक्तैकभक्तादिव्यतिरिक्तविषयत्वं वदतो हेमाद्रेरप्ययमेवाभिप्रायो निर्णीयते। भाद्रपदकृष्णपक्षगतषष्ठी चन्द्रषष्ठी। सा चद्रोदययव्यापिनी ग्राह्या।

तद्वद्भाद्रपदे मासि षष्ठी पक्षे सितेतरे।

चन्द्रषष्ठीव्रतं कुर्यात् पूर्ववेधः प्रशस्यते।।

चन्द्रोदये यदा षष्ठी पूर्वाह्णे चापरेऽहनि।

चन्द्रोदयेऽसिते पक्षे सैवोपोष्या प्रयत्नतः।। इति वचनात्।

इति षष्ठीनिर्णयः।

अथ सप्तमी निर्णईयते।

सा च सर्वत्र दैवे पूर्वविद्धैव ग्राह्या। षण्मुन्योरिति युग्मवाक्यात्।

षष्ठी तु सप्तमी तात! अन्योन्यं तु समाश्रितम्।

पूर्वविद्धा द्विजश्रेष्ठ! कर्त्तव्या स्पतमी तिथिः।।

इतिब्रह्नपुराणवचनातु,

पञ्चमी सप्तमी चैव दशमी च त्रयोदशी।

प्रतिपन्नवमी चैव कर्त्तव्या सम्मुखी तिथिः।।

इति पैठीनसिवचनात्। ननु--

षष्ठयेकादश्यमावास्या पूर्वविद्धा तथाष्टमी।

सप्तमी परविद्धा च नोपोष्यं तिथिपञ्चकम्।।

इति उपवास एव विद्धाया निषेधात्तत्रैव पूर्वविद्धाया ग्राह्यत्वमस्तु। तत्रापि--

षष्ठीसमेता कर्त्तव्या सप्तमी नाष्टमीयुता।

<1>पतङ्गोपासनायेह <1.पतङ्गः सूर्यः।> षष्ठयामाहुरुपोषणम्।।

इतिभविष्यत्पुराणवचनात्--

षष्ठया युक्ता सप्तमी च कर्त्तव्या तात! सर्वदा।

षष्ठी च सप्तमी यत्र तत्र सन्निहितो रविः।।

इतिस्कन्दपुराणवचनाच्च सौरोपवासविषयत्वमेव वास्तु। नैतद्युक्तम्।

सप्तमी नाष्टमीयुक्ता न सप्तम्या युताष्टमी।

सर्वेषु व्रतकल्पेषु अष्टमी परतः शुभा।।

इतिब्रह्नवैवर्त्तवाक्ये सर्वव्रतेषु परविद्धाया निषेधात्। पतङ्गोपासनायेत्यादेरुपलक्षणतया पूर्वविद्धायाः सर्वविषयत्वोपपत्तेः। यदा तु पूर्वेद्युः अस्तमयोत्तरं प्रवृत्ता परेद्युश्च तिथिक्षयवशेन त्रिमुहूर्त्तया अष्टम्या विद्धत्वात् शुद्धा पूर्वविद्धा वा न लभ्यते। तदा "गुणे त्वन्याय्यकल्पना" इतिन्यायात् गुणानुरोधेन प्रधानत्यागायोगात् निषेधमतिक्रम्यापि व चनाभावेऽपि गुणकालत्वेन अष्टमीविद्धाया एवोपादानं न्याय्यम्। माघशुक्लसप्तमी चारुणोदयव्यापिनी ग्राह्या।

सूर्यग्रहणतुल्या तु शुक्लमाघस्य सप्तमी।

अरुणोदयवेलायां तत्र स्नानं विधीयते।।

इति वचनात्। वैशाखशुक्लसप्तम्यां गह्गापूजा तत्र मध्यान्हव्यापिनी ग्राह्या शिष्टाचारात्।

इति सप्तमीनिर्णयः।

अथाष्टमीनिर्णयः।

सा च व्रतमात्रे शुक्ला परा कृष्णा पूर्वा।

शुक्लपक्षेऽष्टमी चैव शुक्लपक्षे चतुर्द्दशी।

पूर्वविद्धा न कर्त्तव्या कर्त्तव्या परसंयुता।।

कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्द्दशी।

पूर्वविद्धा तु कर्त्तव्या परविद्धा न कुत्रचित्।।

उपवासादिकार्येषु एष धर्म्मः सनातनः।

इति निगमोक्तेः। शिवशक्त्युत्सवे तु सर्वा परा।

अष्टमी नवमीयोगे महोत्साहे! महोत्सवः।

शिवशक्त्योः शिवक्षेत्रे पक्षयोरुभयोरपि।।

इति पाद्मोक्तेः। उपवासे तु पक्षद्वयेऽप्यष्टमी परयुतैव ग्राह्या।

उपवासे सप्तमी तु वेधाद्धन्त्युत्तरं दिनम्।

पक्षयोरुभयोरेष उपवासविधिः स्मृतः।।

इति नारदीयवचने पक्षद्वयेऽपि सप्तमीविद्धानिषेधात्। यत्तु "कृष्णपक्षेऽष्टमी चैव" इतिपूर्वोदाहृतनिगमवचने उपवासग्रहणं तद्रुद्रोपवासविषयम्।

रुद्रव्रतेषु सर्वेषु कर्त्तव्या सम्मुखी तिथिः।

अन्येषु व्रतकल्पेषु यथोहिष्टामुपावसेत्।।

इतिवचनात्। यत्तु--

कृष्णाष्टमी स्कन्दषष्ठी शिवरात्रिश्चतुर्द्दशी।

एताः पूर्वयुताः कार्यास्तिथ्यन्ते पारणं भवेत्।।

इति ब्र्हनवैवर्त्तवचनं तज्जन्माष्टमीपरमिति मदनरत्ने। बाद्रशुक्लाष्टमी दूर्वाष्टमी। सा च पूर्वा ग्राह्या।

श्रावणी दुर्गनवमी दूर्वा चैंव हुताशनी।

पूर्वविद्धा तु कर्त्त्वया शिवरात्रिर्बलेर्दिंनम्।।

इति बृहद्यमोक्तेः।

शुक्लाष्टमी तिथिर्यातु मासि भाद्रपदे भवेत्।

दूर्वाष्टमी तु सा ज्ञेया नोत्तरा सा विधीयते।।

इति पुराणसमुच्चयाच्च। यत्तु--

मुहूर्त्ते रौहिणेऽष्टम्यां पूर्वा वा यदि वा परा।

दूर्वाष्टमी तु सा कार्या ज्येष्ठां मूलं च वर्जयेत्।।

इति पराभिधानं तत् पूर्वदिने ज्येष्ठादियोगे वेदितव्यम्।

दूर्वाष्टमी सदा त्याज्या ज्येष्ठामूलर्क्षसंयुता।।

तथा--

ऐन्द्रर्क्षे पूजिता दूर्वा हन्त्यपत्यानि नान्यथा।

भर्त्तुरायुर्हरा मूले तस्मात्तां परिवर्जयेत्।।

इतिनिषेधात्। इयं च कन्यार्के अगस्त्योदये च न कार्या।

शुक्ले भाद्रपदे मासि दूर्वासंज्ञा तथाष्टमी।

सिंहार्क एव कर्त्तव्या न कन्यार्के कदाचन।।

इतिस्कान्दोक्तेः।

अगस्त्य उदिते तात! पूजयेदमृतोद्भवाम्।

वैधव्यं पूर्वशोकं च दशवर्षाणि पञ्च च।।

इति तत्रैव दोषोक्तेश्च। अत्रैव ज्येष्ठाव्रतमुक्तम्--

लैङ्गे,

कन्यार्के याष्टमी शुक्ला ज्येष्ठर्क्षे महती स्मृता।

अलक्ष्मीपरिहाराय ज्येष्ठां तत्र प्रपूजयेत्।। इति।

इयं च ज्येष्ठर्क्षयुक्ता ग्राह्या। दिनद्वये तथात्वे परा कार्या।

नवम्या सह कार्या स्यादष्टमी नात्र संशयः।

मासे भाद्रपदे शुक्लपक्षे ज्येष्ठर्क्षसंयुता।।

रात्रिर्यस्मिन्दिने कुर्यात् ज्येष्ठायाः परिपूजनम्।

इतिस्कान्दोक्तेः। नक्षत्रयोगश्च मध्यान्हादूर्द्ध्वम्। मघ्यान्हात्पूर्वं चेत् पूर्वैव।

यस्मिन् दिने भवेज्ज्येष्ठा मध्यान्हादूर्द्ध्वमप्यधः।

तस्मिन् हविष्यं पूजा च न्यूना चेत् पूर्ववासरे।।

इतिवचनात्। एतच्च तिथिप्रयुक्तं नक्षत्राभावे केवलतिथौ कार्यम्। नक्षत्रप्रयुक्तं तु केवलनक्षत्रे।

प्रत्याब्दिकं तिथावुक्तं यज्ज्येष्ठादैवतं व्रतम्।

नीलज्येष्ठाव्रतं यच्च विहितं केवलोडुनि।।

इतिमात्स्योक्तं नीलज्येष्ठाव्रतमपि तिथिप्रयुक्तमेवेति माधवः।

तत्राष्टम्यां यदा वारो भानोर्नक्षत्रमेव च।

नीलज्येष्ठेति सा प्रोक्ता दुर्लभा बहुकालिकी।।

इतितल्लक्षणार्थे स्कान्दवचने तत्रेति सप्तम्या निर्दिष्टाया अष्टम्यास्तत्र `जयां जुहुयात्' (अ 0 3 पा 04 अधि 0 13) इतिवत् प्राधान्यावगतेः। मदनरत्नादयस्तु नक्षत्रव्रतमेवेत्याहुः। नील्जयेष्ठापदस्य नक्षत्रपरत्वादिति। आश्विनबहुलाष्टमी महालक्ष्मीव्रतसमाप्तौ चन्द्रोदयव्यापिनी ग्राह्या।

पूर्वा वा परविद्धा वा ग्राह्या चन्द्रोदये सदा।

त्रिमुहूर्त्तापि सा पूज्या परतश्चोर्ध्वगामिनी।।

इतिसङ्ग्रहोक्तेः। ऊर्ध्वंगामिनी = चन्द्रोदयोर्ध्वगामिनी त्रिमुहूर्त्ता चेत् परतोऽन्यथा तु पूर्वा। यत्तु--

कन्यागतेऽर्के प्रारभ्य कर्त्तव्यं न श्रियोऽर्चनम्।

हस्तप्रान्तदलस्थेऽर्के तद्व्रतं न समापयेत्।

दोषैश्र्चतुर्भिः संत्यक्ता सवेसम्पत्करी तिथिः।।

पुत्रसौभाग्यराज्यायुर्नाशिनी सम्प्रकीर्त्तिता।

तस्मात्सर्वप्रयत्नेन त्याज्या कन्यागते रवौ।।

विशेषेण परित्याज्या नवमीदूषिता यदि।

त्रिदिने चावमे चैव अष्टमीं नोपवासयेत्।।

पुत्रहा नवमीविद्धा स्वघ्नी हस्तार्कगे रवौ।

इति नवमीयुक्ताया निषेधकथनं तदर्धरात्रादूर्ध्वं त्रिमुहूर्त्तत्वाभावे त्रिमुहूर्त्तेत्युपादानात्। त्रिस्पृगादिनिषेधश्च प्रथमारम्भविषयः। प्रारव्धस्य षोडशवार्षिकव्रतस्य मध्येऽनुष्ठाने लोकविगर्हणा स्यादिति। इति महालक्ष्म्यष्टमी।

आश्विनशुक्लाष्टमी तु दुर्गाष्टमी सा च सामान्यनिर्णयादेव नवमीविद्धा कार्या। यद्यपि च सामान्यनिर्णयादेवास्या उत्तरविद्धत्वं तथापि इयं लेशतोऽपि सप्तमीविद्धा न कर्त्तव्या। तथा च--

स्मृतिसङ्ग्रहे,

सप्तमीलेशसंयुक्तां मोहादज्ञानतोऽपिवा।

महाष्टमीं प्रकुर्वाणो नरकं प्रतिपद्यते।।

सप्तमी कलया यत्र परतश्चाष्टमी भवेत्।

तेन शल्यमिदं प्रोक्तं पुत्रपौत्रक्षयप्रदम्।।

पुत्रान् हन्ति पशून् हन्ति हन्ति राष्ट्रं सराजकम्।

हन्ति जातानजातांश्च सप्तमीसहिताष्टमी।।

इतिसप्तमीमिश्रिताया निषेदात्। यच्च--

सप्तम्यामुदिते सूर्ये परतो याष्टमी भवेत्।।

तत्र दुर्गोत्सवं कुर्यान्न कुर्यादपरेऽहनि।। इति,

तद् यदाश्विनकृष्णाष्टमीमारभ्य--

कन्यायां कृष्णपक्षे तु पूजयित्वाष्टमीदिने।

नवम्यां बोधयेद्‌देवीं गीतवादित्रनिस्वनैः।।

इति देवीपुराणे कृष्णपक्षाष्टम्यां देवीबोधनमुक्तं तद्विषयम्। यच्च--

भद्रायां भद्रकाल्याश्च मद्ये स्यादर्चनक्रिया।

तस्माद्वै सप्तमीविद्धा कार्या दुर्गाष्टमी बुधैः।। इति।

यच्च मदनरत्ने--

महाष्टम्याश्विने मासि शुक्ला कल्याणकारिणी।

सप्तम्यादियुता कार्या मूलेन तु विशेषतः।।

तथा निर्णयामूते--

अहं भद्रा च भद्राहं नावयोरन्तरं क्वचित्।

सर्वसिद्धिं प्रदास्यामि भद्रायामर्चिता ह्यहम्।।

इति देवीपुराणम्, तथा तत्रैव--

विष्टिं त्यक्त्वा महाराज! मम पूजां करोति यः।

कृत्स्नं तस्य फलं न स्यात्तेनाहमवमानिता।।

इत्यनेन सप्तमीविद्धाया अपि ग्राह्यत्वमुक्तम्। तदपरदिने कलाकाष्ठादिरूपाया अष्टम्या अभावे। यत्तु--

यदाष्टमीं तु सम्प्राप्य चास्तं याति दिवाकरः।

तत्र दुर्गोत्सवं कुर्यान्न कुर्यादपरेऽहनि।।

दुर्भिक्षं तत्र जानीयान्नवम्यां यत्र पूजयेत्।

इति वचनं तद्दशम्यां नवम्यसत्त्वे।

यदा सूर्योदये न स्यान्नवमी चापरेऽहनि।

तदाष्टमीं प्रकुर्वीत सप्तम्या सहितां नृप!।।

इति स्मृतिसङ्ग्रहादिति मदनरत्ने। वस्तुतः पूर्वोदाहृतदेवीपुराणात् कृष्णपक्षाष्टमीविषयमिदमिति प्रतिभाति। अत्र च पुत्रवता उपवासो न कार्य इत्युक्तम्--

कालिकापुराणे,

उपवासं महाष्टम्यां पुत्रवान्न समाचरेत्।

यथा तथा वा पूतात्मा व्रती देवीं प्रपूजयेत्।। इति।

इयं च मूलयुक्तातिप्रशस्तेत्युक्तं हेमाद्रौ स्कन्दपुराणे--

कन्यां गते सवितरि शुक्लपक्षेऽष्टमी तु या।

मूलनक्षत्रसंयुक्ता सा महानवमी स्मृता।।

नवम्यां पूजिता देवी ददात्यभिमतं फलम्। इति।

इयमपि सप्तमीयुक्ता न कार्येत्युक्तम्--

निर्णयामृते दुर्गोत्सवे,

मूलेनापिहि संयुक्ता सदा त्याज्याष्टमी बुधैः।

लेशमात्रेण सप्तम्या अपि स्याद् दूषिता यदि। इति।

इति दुर्गाष्टमीनिर्णयः।

पौषशुक्लाष्टमी बुधवारयुता महाभद्रा। तदुक्तम्--

भविष्योत्तरे,

पुष्ये मासि यदा देवि! शुक्लाष्टम्यां बुधो भवेत्।

तदा सा तु महापुण्या महाभद्रेतिकीर्त्तिता।। इति।

इयमेव भरणीसंयुक्ता जयन्ती। तथाच--

तत्रैव,

पुष्ये मासि यदा देवि! अष्टम्यां नगजे ! शुभे !।

नक्षत्रं जायते पुण्यं यल्लोके रौद्रमुच्यते।।

तदा तु सा महापुण्या जयन्ती अष्टमी शुभा।। इति।

रौद्रं=क्रूरदैवत्यत्वाद्‌भरणी। आर्द्रेति कल्पतरुः। तन्न। तत्र तद्‌योगासम्भवात्।

अथ कृष्णजन्माष्टमी निर्णीयते।

यद्यपीयं--

प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी।

इति विष्णुधर्म्मोत्तरात्,

मासि भाद्रपदेऽष्टम्यां कृष्णपक्षेऽर्द्धरात्रके।

इति भविष्योत्तराच्च श्रावणभाद्रयोः प्रतीयते। तथाप्येकमूलकल्पनालाघवात् पौर्णमास्यन्तं मासमादाय भाद्रे अमावास्यान्तमादाय श्रावणे ग्राह्या इत्यनुसन्धेयम्। एवं च"तिथिकृत्ये च कृष्णादिम्" इति वचनं नात्र श्रावणस्य पौर्णमास्तन्तत्वविधायकं किन्तु एतदतिरिक्तविषयकल्पना लाघवात्। भाद्रस्तु यद्यपि भाद्रश्रुत्यामावास्यान्त एव प्राप्नोति मूलश्रुतिकल्पनागौरवस्य फलमुखत्वेनादोषत्वात् तथापि "तिथिकृत्ये च कृ,्णादिम्" इतिवचनात् तिथ्यन्तरकृत्येषु तत्तन्मासपदे लक्षणाश्रयणवदिहापि लक्षणाश्रयणमदोषः। सा च द्विविधा शुद्धा सप्तमीविद्धा च। तत्र द्विविधा अपि सूर्योदयादूर्ध्वगामिनी न वेति द्विविधा। तादृश्यपि रोहिणीयोगायोगभेदेन द्विविधा। तत्र सूर्योदयोर्ध्वमसत्यां सर्वस्यामपि न सन्देहः। परेऽहन्यष्टम्यभावात्। सूर्योदयोर्ध्वगामिन्यां तु शुद्धायां विद्धायां वा रोहिणीयोगस्यान्यतरत्र सत्त्वे सैव।

प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी।

मुहूर्त्तमपि लभ्येत सोपोष्या सा महाफला।।

मुहूर्त्तमप्यहोरात्रे यस्मिन् युक्तं हि लभ्यते।

अष्टम्यां रोहिणीऋक्षं तां सुपुण्यामुपावसेत्।।

इति विष्णुरहस्योक्तेः। तेनोत्तरदिन एव रोहिणीयोगे पूर्वनिशीथव्यापिनी शुद्धापि त्याज्येति हेमाद्रिमाधवादयः। शिष्टास्तु पूर्वामेवोपवसन्ति। तेषामयमाशयः। अत्रार्द्धरात्रस्य वक्ष्यमाणरीत्या कर्मकालत्वात् कर्मकालशास्त्रस्य च सर्वापेक्षया बलवत्त्वात् परीदने च तदभावात् पूर्वैवेति। न च रोहिणीयोगशास्त्रानुरोधेनोत्तरेति वाच्यम्। तस्य गुणफलसम्बन्धार्थकत्वेन बुधवारादियोगशास्त्रवनिर्णायकत्वात्। अन्यथा

प्रेतयोनिगतानां च प्रेतत्वं नाशितं नरैः।

यैः कृता श्रावणे मासि ह्यष्टमी रोहिणीयुता।।

किं पुनर्बुधवारेण सोमेनापि विशेषतः।।

किं पुनर्नवमीयुक्ता कुलकोय्यास्तु मुक्तिदा।

इति पाझात् पूर्वेझुरर्द्धरात्रगतां रोहिणीयुतामष्यष्टमीं परित्यज्य बुधवारादियुता परा कर्त्तव्या आपद्येत। न चेष्टापत्तिः। कुलकोटयास्तु मुक्तिदा किं पुनर्बुधवारेणेत्यादिना "यदि कामयेत वर्षुकः पर्जन्यः स्यात्" इतिवत् (अ0 3 पा0 8 अधि0 6) गुणफलसम्बन्धार्थकत्वप्रतीतेः। एतेन आचार्यचूडामण्युक्तं बुधावारादियोगस्य निर्णायकत्वं प्रत्युक्तम्। तिथितत्त्वकारादयोऽपि बुधवारादियोगस्यानिर्णायकत्वं मन्यन्ते। एवं च--

प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी।

मुहूर्त्तमपि लभ्येत--

इति विष्णुरहस्यवचनमपि गुणफलसम्बन्धपरं व्याख्येयम्। यत्तु--

उदये चाष्टमी किञ्चित् नवमी सकला यदि।

इति स्कान्दवचने उदयग्रहणं तच्चन्द्रोदयपरं "तारापत्युदये तथा" इतिवचनान्तरैकवाक्यत्वात्। न च--

दिवा वा यदि वा रात्रौ नास्ति चेद्रोहिणी कला।

रात्रियुक्तां प्रकुर्वीत विशेषेणेन्दुसंयुताम्।।

इतिवचनात् परदिने रोहिणीयोगाभाव एव रात्रियुक्ताष्टमी ग्राह्ये ति वाच्यम्। तस्य तद्दिने स्वल्पस्यापि रोहिणीयोगस्याभावेऽपि न्यायप्राप्तशुद्धा ष्टमीव्रतकर्त्तव्यतानुवादकत्वात् इति शिष्टमतमनवद्यम्। दिनद्वये रोहिणीयोगेऽयोगे वा शुद्धाधिका पूर्वैव तदतिक्रमे कारणाभावात्। विद्धाधिकायां त्वन्यतरस्मिन्नेव दिने निशीथे रोहिणीयोगे सैव रोहिणीयोगप्राशस्त्यात्। पूर्वत्रैव योगे--

सप्तमीसंयुताष्टम्यां निशीथे रोहिणी यदि।

भविता साष्टमी पुण्या यावच्चन्द्रदिवाकरौ।।

इति वक्ष्यमाणसप्तमीविद्धानिषेधप्रतिप्रसवार्थकवह्विपुराणात्। दिनद्वये निशीथे रोहिणीयोगे तूत्तरैव।

वर्जनीया प्रयत्नेन सप्तमीसंयुताष्टमी।

सऋक्षापि न कर्त्तव्या सप्तमीसंयुताष्टमी।।

इति ब्रह्नवैवर्तवचनात्। अत एव विद्धाधिकायां द्विनद्वयेऽपि निशीथ मतिक्रम्य रोहिणीयोगेऽष्टम्याश्च दिनद्वये निशीथे सत्त्वासत्तवयोः परैव। अन्यतरस्मिन्नेव सत्त्वे सैव। सर्वथा रोहिणीयोगरहितायामष्टम्यां निशीथे दिनद्वयसत्त्वान्यतरसत्त्वेष्वयमेव न्यायो द्रष्टव्यः। न च--

अलाभे रोहिणीभस्य कार्याष्टम्यस्तगामिनी।

तत्रोपवासं कृत्वैव तिथ्यन्ते पारणं भवेत्।।

इति गौडधृतविष्णुरहस्यवचनात् रोहिण्यलाभे सर्वथा पूर्वैव ग्राह्या स्यादितिवाच्यम्। वाक्यस्य हेमाद्र्यादिभिरनिबन्धनान्निर्मूलत्वात्। समूलत्वे वा परदिने निशीथे रोहिणीयोगाभावविषयत्वादिति। अत्र चार्द्धरात्रपूजोपवासश्च द्वयं प्रधानम्।

अर्द्धरात्रे तु रोहिण्यां यदा कृष्णाष्टमी भवेत्।

तस्यामभ्यर्चनं शौरेर्हन्ति पापं त्रिजन्मजम्।।

इति भविष्यपुराणात् "सोपोष्या सा महाफला" इति पूर्वोदाहृतवचनाच्च।

त्रिकालं पूजयेद्देवं दिवारात्रौ विशेषतः।

अर्धरात्रावपि तथा पुष्पैनार्नाविधैरपि।।

इति भविष्योक्तपूजा त्वङ्गभूता फलसम्बन्धाभावात्। न चैवं पूजोपवासयोः फलभेदात् समानफलकत्वेऽपि वा निरपेक्षविधानात् चित्रोद्भिदादिवदेकैकस्याप्यनुष्ठानप्रसङ्ग इति वाच्यम्।

सोपवासो हरेः पूजां कृत्वा तत्र न सीदति।

इति भविष्यवचनात् समुच्चयावगतेः "द्वादशरात्रे हवींषि निर्वपेत्" इतिवचनादाधानपवमानेष्टयोरिव। भाष्यकारमतेन च फलश्रुतेः काम्यत्वमेव।

प्राजापत्यर्क्षसंयुक्ता कृष्णा नभसि चाष्टमी।

वर्षे वर्षे तु कर्त्तव्या तुष्टयर्थं चक्रपाणिनः।।

इति वीप्साश्रवणान्नित्यत्वोपपत्तेः। न चात्र तुष्टयर्थमितिफलश्रवणात् फलनिमित्तोद्देश्यद्वयनिमित्तवाक्यभेदः स्यादिति वाच्यम्। विजातीयानेकोद्देश्यद्वयनिमित्तवाक्यभेदः स्यादिति वाच्यम्। विजातीयानेकोद्देश्यत्वनिमित्तस्य तस्यादोषत्वात्। न च नित्यत्वेऽस्याकरणे प्रायश्चित्तश्रवणं स्यादितिवाच्यम्। विशिष्य तदनुक्तावपि

प्राणायामशतं कार्यं सर्वपापापनुत्तये।

इत्यादेः सामान्यतः श्रुतस्यात्रापि प्राप्तेरित्यनवद्यम्।

इति जन्मष्टमीनिर्णयः।

अथास्याः पारणनिर्णयः।

तत्र केवलाष्ट्यम्युपवासे पारणदिने चाष्टम्यनुवृत्तौ तदन्ते कार्यम्।

विष्णुधर्म्मोत्तरे--

जयन्ती शिवरात्रिश्च कार्ये भद्राजयान्विते।

कृत्वोपवासं तिथ्यन्ते तथा कुर्याच्च पारणम्।। इति।

अत्र जयन्तीशब्दो जन्माष्टमीमात्रवचनः तिथिमात्रान्ते पारणाविधानात्। रोहिणीसहिताष्टम्युपवासे तु पारणदिने उभयानुवृत्तावुभयान्ते तत् कार्यम्।

कार्या विद्धा तु सप्तम्या रोहिणीसहिताष्टमी।

तत्रोवासं कुर्यात्तु तिथिभान्ते च पारणम्।।

इति पझपुराणात्। इदं चोभयान्ते पारणं महानिशातोऽर्वागुभ यान्ते भोजनपर्याप्तकाललाभे।

न रात्रौ पारणं कुर्यादृते वै रोहिणीव्रतात्।

अत्र निश्यपि तत्कुर्यात् वर्जयित्वा महानिशाम्।।

इति गौडनिबन्धोदाहृतब्रह्नाण्डपुराणात्। महानिशा च सार्द्धयामानन्तरं याममात्रो रात्रिभागः।

महानिशा तु विज्ञेया मध्यं मध्यमयामयोः।

इति स्मृतेः रोहिणीव्रतं चात्र तदुक्ताष्टमीव्रतमेव प्रकरणात्। एवं च--

सर्वेष्वेवोपवासेषु दिवा पारणमिष्यते।

अन्यथा पुण्यहानिः स्यादृते धारणपारणम्।।

अन्यतिथ्यागमो रात्रौ तामसस्तैजसो दिवा।

तामसे पारणं कुर्यात् तामसीं गतिमाप्नुयात्।।

इति गरुडपुराणादौ रात्रिपारणनिषेधो जन्माष्टमीपारणातिरिक्तपरः। यदा तु तादृशे काले उभयान्तो न लभ्यते तदान्यतरान्तेऽपि तत् कार्यम्।

भान्ते कुर्यात्तिथेर्वापि शस्तं भारत! पारणम्।

इति जन्माष्टमीं प्रक्रम्य वन्हिपुराणात्। यदा तु महानिशायाः पूर्वं पारणापर्याप्तः कालो न लभ्यते तदा तत्रापि कुर्यात्।

तिथ्यर्क्षयोर्यदा च्छेदो नक्षत्रान्तमथापि वा।

अर्द्धरात्रेऽपि वा कुर्यात् पारणं त्वपरेऽहनि।।

इति हेमाद्रिधृतवचनात्। अर्द्धंरात्रे=महानिशायाम्। तत्रैव भोजननिषेधात् प्रतिप्रसवस्योचितत्वात्। नक्षत्रान्तमिति तिथ्यन्तस्याप्युपलक्षणम्। गौडास्तु अर्द्धरात्रेन तत् कुर्यात् इति पठित्वा यद्यर्धरात्रे उभयोरन्यतरस्य वान्तस्तदा नार्द्धरात्रे पारणं किन्तु दिवैव। वर्जयित्वा महानिशामिति पर्युदासैकवाक्यतालाभादित्याहुः। यत्तु--

तिथ्यन्ते वोत्सवान्ते वा व्रती कुर्वींत पारणम्।

इति कालादर्शवचनं तदशक्तविषयमिति मदनरत्ने। हेमाद्रिस्तु उभयान्ते पारणं शक्तविषयमशक्तस्य तु अन्यतरान्ते ततोऽप्यशक्तस्योत्सवान्त इत्याह।

इति श्रीमत्सकलसामन्तचक्रचूडामणिमरीचिमञ्जरीनीराजितचरणकमल श्रीमन्महाराजाधिराजप्रतापरुद्रतनूजश्रीमन्महाराजमधुकरसाहसूनु-चतुरुदधिवलययसुन्धराहृदयपुण्डरीकविकाशदिनकर श्र श्रीमन्महाराजाधिराजवीरसिंहदेवोद्योजित-श्रीहंसपण्डितात्मज-श्रीपरशुराममिश्रसुनु-सकलविद्यापारावारपारीणधुरीणजगद्दारिद्रयमहागजपारीन्द्रविद्वञ्चनजीवातु-श्रीमन्मित्रमिश्रकृते वीरमित्रोदयनिबन्धे समयप्रकाशे जन्माष्टमीनिर्णयः।


अथ नवमी निर्णीयते।

सा तु अष्टमीसंयुता ग्राह्या। वसुरन्ध्रयोरितियुग्मवाक्यात्।

पझपुराणेऽपि--

अष्टमी नवमीविद्धा नवम्या चाष्टमी युता।

अर्द्धनारीश्वरप्राया उमामाहेश्वरी तिथिः।। इति।

भविष्यपुराणेऽपि द्वादशीकल्पे--

नवम्या सह कार्या स्यादष्टमी नवमी तथा।

तथा=अष्टम्या सहेत्य र्थः। निषेधमुखेनापि नवम्या अष्टमीविद्धत्वंस्कन्दपुराणादावभिहितम्--

न कार्या नवमी तात! दशम्या तु कदाचन।

इति स्कन्दपुराणम्

नवम्येकादशी चैव दिशा विद्धा यदा भवेत्।

तदा वर्ज्या विशेषेण गङ्गाम्भः सुरया यथा।।

इति पझपुराणं च। दिक् दशमी। नवम्या अष्टमीवेधविधिर्दशमीवेधनिषेधश्च द्वयं ब्रह्नवैवर्त्ते दर्शितम्।

अष्टम्या नवमी विद्धा कर्त्तव्या फलकाङ्क्षिभिः।

न कुर्यान्नवमीं तात! दशम्या तु कदाचन।। इति।

ननु कृष्णनवम्या अष्टमीविद्धत्वेऽपि शुक्लपक्षनवम्या दशमीविद्धत्वमस्तु।

शुक्लपक्षे तिथिर्ग्राह्या यस्यामभ्युदितो रविः।

इति वचनबलादिति चेत्, न। पूर्वोक्तेषु वचनेषु दधमीवेधस्य साक्षान्निषिद्धत्वात्। ननु पूर्वोंक्तनिषेधस्य कृष्णशुक्लपक्षोभयसाधारणत्वेन सामान्यरूपस्य कृष्णपक्षे सङ्कोचोऽस्त्विति चेत्, मैवम्। भवदुक्तोऽपि "शुक्लपक्षे तिथिर्ग्राह्या" इत्ययं सङ्कोचहेतुरपि सामान्यरूप एव तस्मात् पक्षयोरुभयोरपि पूर्वविद्धैव नवमीति सिद्धम्।

चैत्रशुक्लपक्षे नवमी रामनवमी सा च मध्याह्नव्यापिनी ग्राह्या।

मेषे पूषणि सम्प्राप्ते लग्ने कर्कटकाह्वये।

आविरासीत्स कलया कोसल्यायां परः पुमान्।।

इत्यगस्त्यसंहितावचनात् मघ्याह्नस्य जन्मकालत्वात्। जयन्तीषु च जन्मकालस्यैव पूजारूपकर्मकालत्वात्। जन्माष्टम्यादौ तथा दर्शनात्। सैव मध्याह्नयोगिनी यदि पुनर्वसुयुता अतीव पुण्यतमेत्युक्तं--

तत्रैव,

चैत्रशुद्धात्र नवमी पुनर्वसुयुता यदि।

सैव मध्याह्नयोगेन महापुण्यतमा भवेत्।। इति।

सा रामनवमी यदि दिनद्वयेऽपि मध्याह्नस्पर्शिनी दिनद्वयेऽपि मध्याह्नास्पर्शिनी दिनद्वयेऽपि मध्याह्नैकदेशस्पर्शिनी वा तदा पुनर्वसुयुता ग्राह्या।

पुनर्वस्वृक्षसंयोगः स्वल्पोऽपि यदि दृश्यते।

चैत्रशुद्धनवम्यां तु सा पुण्या सर्वकामदा।।

इत्यगस्त्यसंहितावचनात्। यदा तादृश्या दिनद्वयेऽपि पुनर्वसुयोगस्तदा या मध्याह्ने पुनर्वसुयोगिनी सा ग्राह्या। जन्मकाले ऋक्षयोगस्यरोहिणीयोगवत् प्रशस्तत्वात्। यदा दिनद्वयेऽपि मध्याह्ने व्रत्तमाना दिनद्वयेऽपि च मध्याह्ने पुनर्वसुयोगस्तदाप्युत्तरैव। यदा दिनद्वये मध्याह्ने मध्याह्नं परिहृत्य वा वर्त्तमाना पुनर्वसुयोगश्च मध्याह्नं परिहृत्यैव तदाप्युत्तरैव। यदा दिनद्वये मध्याह्नयोगिनी दिनद्वये तदयोगिनी दिनद्वये तदेकदेशयोगिनी वा सर्वथैव पुनर्वसुयोगाभावस्तदाष्युत्तरैव। यदा तु उत्तरदिने मन्याह्ने वर्त्तमाना पूर्वदिने ऋक्षयोगवत्यपि तदापि परैव। यदा तु पूर्वदिने मध्याह्ने वर्त्तमानापि उत्तरदिने च पुनर्वसुयोगस्तदाप्युत्तरैव। सर्वथाष्टमीविद्धाया निषिद्धत्वादिति।

नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः।

उपोषणं नवम्यां तु दशम्यां पारणं भवेत्।।

इत्यगस्त्यसंहितावचनात्। एतेषां च पक्षाणां स्पष्टत्वार्थमुक्तानां नातीव पौनरुक्त्यं शङ्कनीयम्। अत्रैवं केचित्।

नवमी चाष्टमीविद्धा त्याज्या विष्णुपरायणैः।

इत्यत्र विष्णुपरायणानां वैष्णवानाम् अष्टमीविद्धा नवमी नोपोष्या दशमीविद्धोपोष्या। अवैष्णवानां तु अष्टमीविद्धाप्युपोष्येति मन्यन्ते। तदसत्। विष्णुपरायणैः सद्भिरिदं सर्वं कर्त्तव्यमित्युपदेशपरत्वेनापि तस्य विशेषणस्योपपत्तौ अवैष्णवानामष्टमीविद्धाविध्यापादककर्त्तृविशेषणत्वाङ्गीकारस्यानुचितत्वात्। वस्तुतस्तु विष्णुपदस्य प्रकृतरामात्मकविष्णुपरत्वात् परायणैरित्येतत्तन्मन्त्रदीक्षितपरं सह्गुणविधावपि श्रुतम्--

तस्मिन् दिने तु कर्त्तव्यमुपवासव्रतं सदा।

इति सदाशब्दयुक्ते नित्यप्रयोगावध्याकाङ्क्षितत्वात् प्रकृतेऽन्वेति। तेन सदाशब्दप्रयोगात् प्रतीयमानं नित्यत्वमेतह्रतस्य राममन्त्रदीक्षितान् प्रत्येव भवति। ननु--

प्राप्ते श्रीरामनवमीदिने मर्त्त्यो विमूढधीः।

उपोषणं न कुरुते कुम्मीपाकेषु पच्यते।।

अकृत्वा रामनवमीव्रतं सर्वव्रतोत्तमम्।

व्रतान्यन्यानि कुरुते न तेषां फलभाग् भवेत्।।

इत्यादिषु अकरणे दोषप्रतिपादनात् नित्यत्वावेदकेषु वचनेषु मर्त्य इत्यादिसामान्यशब्दश्रवणात सर्वान् प्रत्येवेदं कुतो नेति चेत्, मैवम्। तन्नित्यत्वं हि "विष्णुपरायणैः" इत्यनेन "तस्मिन् दिने तु कर्त्तव्यम्" इत्यादिना च राममन्त्रदीक्षितान् प्रत्येव न सर्वान् प्रति। लोकेऽपि राममन्त्रदीक्षारहिता रामनवम्यामनुपवसन्तः शिष्टा अपि बहुशो दृष्टा एव।

  सूर्यग्रहे कुरुक्षेत्रे महादानैः कृतैर्मुहुः।

यत् फलं तदवाप्नोति श्रीरामनवमीव्रतात्।।

इत्यादिवाक्यविहितः काम्यप्रयोगस्तु सर्वेषां भवति। ननु यथा विष्णुपरायणैरित्यस्य नित्याधिकारविधावन्वयस्तथा कामाधिकारवि धावप्यन्वयोऽस्त्वितिचेत्, न। खण्डतिथौ काम्यप्रयोगस्य निषिद्धत्वात् खण्डतिथिनिर्णयवाक्यानां नित्यप्रयोगविधिमात्रशेषत्वात् तदन्तर्गतस्य विश्नुपरायणैरित्येतस्य पदस्य नित्यप्रयोगमात्रान्वयस्यैवोचितत्वात् इति। अत्र पारणं तु यदा पूर्वविद्धायामुपवासस्तदा नवमीमतिक्रम्यैव कर्त्तव्यं सामान्यवचनात् दशम्यामेव पारणमिति विशेषवचनाच्च। न चात्र रात्रिपारणादिप्रसक्तिः कापि।

इति रामनवमीनिर्णयः।

आश्विनशुक्लनवमी दुर्गानवमी सैव महानवमी। तथा च--

भविष्ये,

आश्वयुक्‌शुक्लपक्षे तु अष्टमी मूलसंयुता।

सा महानवमी नाम त्रैलोक्येऽपि सुदुर्लभा।। इति।

मूलग्रहणमुपलक्षणम्। दुर्गापूजां प्रक्रम्य तत्रैव--

दुर्गापूजासु नवमी मूलाद्यृक्षत्रयान्विता।

महती कीर्तिता तस्यां दुर्गां महिषमर्द्दिनीम्।।

इय च उपवासादिषु अष्टमीविद्धैव ग्राह्या। तथाच--

पझपुराणे,

श्रावणी दुर्गनवमी दूर्वा चैव हुताशनी।

पूर्वविद्धा प्रकर्त्तव्या शिवरात्रिर्बलेर्दिनम्।। इति।

न कुर्यान्नवमीं तात! दशम्या तु कदाचन।

इति स्कान्दाच्च। बलिदाने च नवमी सूर्योदयसम्बन्धिनी ग्राह्या।

सूर्योदये परं रिक्ता पूर्णा स्यादपरा यदि।

बलिदानं प्रकर्त्तव्ये तत्र देशे शुभावहम्।।

बलिदाने कृतेऽष्टम्यां पुत्रभङ्गो भवेन्नृप!।

इति देवीपुराणात्। यदपि तत्र--

आश्वयुक्‌शुक्लनवमी मुहूर्त्तं वा कला यदि।

सा दिथिः सकला ज्ञेया लक्ष्मीविद्याजयार्थिभिः।।

इति सौरपुराणम्। तदपि बलिदानपरमेवेति। यदपि

नवम्यामपराह्णे तु बलिदानं प्रशस्यते।

दशमीं वर्जयेत्तत्र नात्र कार्या विचारणा।।

इति नारदवचनं तच्छुद्धाधिकानिषेधपरमिति मदनरत्ने। अलमतिप्रसङ्गेन। विस्तरस्तु नवरात्रनिर्णये द्रष्टव्यः।

इति नवमीनिर्णयः।

अथ दशमी निर्णीयते।

तस्यां च तिथ्यन्तरवद्धेयोपादेयविभागवचनं नास्ति। तिथ्यन्तरे हि तिथिः व्कचित् पूर्वविद्धा ग्राह्या व्कचिदुत्तरविद्धा दशम्यां च तथा न किञ्चित् नियामकं वचोऽस्ति। तेन दशमी दिनद्वयेऽपि कर्मकालव्या पिनी पूर्वा परा वेच्छया ग्राह्या।

सम्पूर्णा दशमी ग्राह्या परया पूर्वयाथवा।

युक्ता न दूषिता यस्मात् तिथिः सा सर्वतोमुखी।।

इति स्कन्दपुराणात्। सम्पूर्णा कर्मकाले विशेषाश्रवणाद्दिनद्वयेऽपि। इतरेषु पक्षेषु पूर्वा।

दशमी चैव कर्त्तव्या सदुर्गा द्विजसत्तम्!।

इति स्कन्दपुराण एवोक्तत्वादिति। सदुर्गा=नवमीविद्धा। ननु

सम्पूर्णा दशमी ग्राह्या परया पूर्वयाथ वा।

इत्यनेन अव्यवस्थायां प्राप्तायां विकल्पपर्यवसानात्तस्य चाष्टदोषदुष्टत्वात् केवलं पुरुषेच्छाप्रसरस्यानुचितत्वादवश्यं किञ्चिदास्थातव्यं व्यवस्थापकं शास्त्रमितिचेत्, सत्यम्।

शुक्लपक्षे तिथिर्ग्राह्या यस्यामब्युदितो रविः।

कृष्णपक्षे तिथिर्ग्राह्या यस्यामस्तमितो रविः।।

इति मार्कण्डेयोक्तास्त्येव व्यवस्था। तेन नास्त्येव स्वच्छन्दं पुमिच्छाप्रसरः। अत एवोक्तं व्यतिरेकमुखेन--

उदासीने तु शास्त्रार्थे पुरुषेच्छा नियामिका। इति।

एवं सति यानि परविद्धानिषेधकानि--

नन्दाविद्धा तु या पूर्णा द्वादशी मकरे सिता।

भृगुणा नष्टचन्द्रा च एता वै निष्फलाः स्मृताः।।

इति कूर्मपुराणे। पूर्णा=दशमी। नन्दा=एकादशी तद्विद्धा निष्फले ति गम्यते।

प्रतिपतू पञ्चमी भूतसावित्री वटपूर्णिमा।

नवमी दशमी चैव नोपोष्याः परसंयुताः।।

इति ब्रह्नवैवर्ते,

नागविद्धा तु या षष्ठी शिवविद्धा च सप्तमी।

दशम्येकादशीविद्धा नोपोष्याः स्युः कथञ्चन।।

इति शिवरहस्यसौरपुराणादिषु वचनानि तानि कृष्णपक्षविषयाण्येव न व्याप्तयादिपक्षविषयाणि। अत्रोपवासग्रहणं मुख्यतया सर्वकर्म्मोपलक्षणमेव युक्तमिति सङ्क्षेपः।

इति दशमीसामान्यनिर्णयः।

ज्येष्ठशुक्लदशमी दशहरा।

दशमी शुक्लपक्षे तु ज्येष्ठमासे कुजेऽहनि।

अवतीर्णा सरित् स्वर्गाद्धस्तर्क्षे सा यतोऽमला।।

हरते दश पापानि तस्माद्दशहरा स्मृता।<1> <1.दश पापानि च मनुनोक्तानि यथा--

पारुष्यमनृतं चैव पैशून्यं चापि सर्वशः।

असम्बनद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम्।।

अदत्तानामुपादानं हिंसा चैवाविधानतः।

परदारोपसेवा च कायिकं त्रिविधं स्मृतम्।।

परद्रव्येष्वभिध्यानं मनसानिष्टचिन्तनम्।

वितथाभिनिवेशश्च त्रिविधं कर्म मानसम्।। इति।>

इति स्कन्दपुराणात्। अत्र योगविशेष उक्तस्तत्रैव--

ज्येष्ठे मासि सिते पक्षे दशम्यां बुधहस्तयोः।

गरानन्दे व्यतीपाते कन्याचन्द्रे वृषे रवौ।।

दशयोगे नरः स्नात्वा सर्वपापैः प्रमुच्यते।

अत्र च यत्रैव योगबाहुल्यं सैव ग्राह्या।

आश्विनशुक्लदशमी विजयादशमी। तां प्रक्रम्य पुराणसमुच्चये--

दशम्यां च नरैः सम्यक् पूजनीयापराजिता।

ईशानीं दिशमाश्रित्य अपराह्णे च यत्नतः।।

इयं च यद्युत्तरैव श्रवणयुता तदा सैव ग्राह्या।

उदये दशमी किञ्चित् सम्पूर्णैकादशी यदि।

श्रवणर्क्षे यदा काले सा तिथिर्विजयाभिधा।।

इति कश्यपोक्तेः। अन्येषु पक्षेषु नवमीयुक्ता ग्राह्या।

या पूर्णा नवमीयुक्ता तस्यां पूज्यापराजिता।

इति पुराणसमुच्चयात्।

इति दशमीनिर्णयः।

अथैकादशी निर्णीयते।

सा च सर्वकार्येषु परयुतैव ग्राह्या। "रुदेण द्वादशीयुक्ता" इति युग्मवाक्यात्।

एकादशी न कर्त्तव्या दशमीसंयुता विभो!

पूर्वविद्धा न कर्त्तव्या तृतीया षष्ठिरेव च।

अष्टम्येकादशी भूतो धर्म्मकामार्थवाञ्छिभिः।।

इति स्कन्दपुराणभविष्यपुराणयोः पूर्वविद्धाप्रतिषेधाच्च। चैत्रशुक्लैकादशी वैश्यकर्तृकवास्तुपूजनेऽपराह्णव्यापिनी ग्राह्या।

तत्रापराह्णे वास्तुश्च वैश्यानां वंशधारकः।

अर्घ्यैर्माल्यैश्च वस्त्रैश्च पूज्यो रङ्गैर्विचित्रितैः।।

इति तां प्रकृत्य ब्रह्नपुराणात्। आषाढशुक्लैकादश्यादिषु विष्णुशयनादि कार्यम्। तत्र--

ब्रह्नपुराणे,

एकादश्यां तु शुक्लायामाषाढे भगवान् हरिः।

भुजङ्गशयने शेते तदा क्षीरार्णवे सदा।।

एकादश्यां तु शुक्लायां कार्त्तिके मासि केशवम्।

प्रसुप्तं बोधयेद्रात्रौ श्रद्वाभक्तिसमन्वितः।।

भविष्योत्तरेऽपि--

प्राप्ते भाद्रपदे मासि एकादश्र्यां दिने सिते।

कटिदानं भेवद्विष्णोर्महापातकनाशनम्।।

कटिदानम्=अह्गपरिवृत्तिकरणम्। वराहपुराणादौ तु एतेष्वेव मासेषु शुक्लद्वादशीषु शयनादिकमुक्तम्।

आषाढमासे द्वादश्र्यां सर्वशान्तिकरं शुभम्।

य एतेन विधानेन ज्ञात्वा मे कर्म कारयेत्।।

स पुमात्न्न प्रणश्येत संसारेषु युगे युगे।

तथा--

इयं च द्वादशी राजन्! प्रबोधार्थं विनिर्म्मिता।

मयैषा सर्वलोकानां हितार्थं शेषशायिना।।

तथा हेमाद्रयुदाहृते भविष्येऽपि--

द्वादश्यां शुक्लपक्षे तु प्रस्वापावर्त्तनोत्सवाः। इति।

न चात्र द्वादशीपदस्य एकादशीपरत्वमिति कस्य चिदुक्तिर्युक्ता। तथात्वे प्रमाणाभावात् लक्षणापत्तेश्च।

प्रतिपद्धनदस्योक्ता पवित्रारोपणे तिथिः।

श्रियो देव्या द्वितीया तु तिथीनामुत्तमा स्मृता।।

तृतीया स्याद्भवान्यास्तु चतुर्थी तत्सुतस्य च।

पञ्चमी धर्मराजस्य तथा षष्ठी गुहस्य च।।

सप्तमी भास्करस्योक्ता दुर्गाया अष्टमी स्मृता।

मातृणां नवमी चैव दशमी वासुकेः स्मृता।।

एकादशी ऋषीणां च द्वादशी चक्रपाणिनः।

त्रयोदशी ह्यनङ्गस्य शिवस्योक्ता चतुर्द्दशी।।

मम चैव मनिश्रेष्ठ! पौणमासी तिथिः स्मृता।

यस्य यस्य च देवस्य यन्नक्षत्रं तिथिश्च या।।

तस्य देवस्य तस्मिंस्तु शयनावर्त्तनादिकम्.

इति मत्स्यपुराणवचनविरोधापत्तेश्च। तस्मात् कालान्तरविधानमेव साधीयः। व्कचित्तु आषाढकार्त्तिकपौर्णमास्योः स्वापप्रबोधावुक्तौ। तथा च--

यमः,

क्षीराव्धौ शेषपर्यङ्के आषाढयां संविशेद्धरिः।

निद्रां त्यजति कार्त्तिक्यां तयोः सम्पूज्जयेत्सदा।।

ब्रह्नहत्यादिकं पापं क्षिप्रमेव व्यपोहति।

आषाढी कार्त्तिकी चात्र पौर्णमासी। तत्रैव प्रचुरतरप्रयोगात्।

आषाढशुक्लपक्षान्ते भगवान् मधुसूदनः।

भोगिभोगे निजां मायां योगनिद्रां समाप्नुयात्।।

शेतेऽसौ चतुरो मासान् यावद्भवति कार्त्तिकी।

विशिष्टा न प्रवर्त्तन्ते तदा यज्ञादिकाः क्रियाः।।

इति विष्णुधर्मोत्तरे पक्षान्त इति स्पष्टमभिधानाच्च। एतेनाषाढस्येयमाषाढी एकादशी कार्त्तिकस्येयं कार्त्तिकी एकादशीति कल्पतरुव्याख्यानमपास्तम्। तेन पौर्णमास्यपि एकः काल इति सिद्धम्। विष्णुधर्मोत्तरे तु एकादशीमारभ्य दिनपञ्चकं शयनप्रबोधावुक्तौ।

एकादश्यामाषाढस्य शुक्लपक्षे जनार्दनम्।

देवाश्च ऋषयश्चैव गन्धर्वाप्सरसां गणाः।।

अभिष्टुवन्ति ते गत्वा सततं दिनपञ्चकम्।

उत्सवं चैव कुर्वन्ति गीतनृत्यसमाकुलम्।।

ततस्तु चतुरो मासान् योगनिद्रामुपासते।

सुप्तं च तमुपासन्ते ऋषयो ब्रह्नसम्मिताः।।

कर्त्तिकस्य सिते पक्षे तदेव दिनपञ्चकम्।

विबोधयन्ति देवेशं गत्वा सेन्द्रा सेन्द्रा दिवौकसः।।

तस्मात्तथैव कुर्वीत तदापि च महोत्सवम्।

न चात्र स्वापप्रबोधौ एकादश्यामेव दिनचतुष्टयं तु पूजेति कस्यचिदुक्तिर्युक्ता। "ततस्तु चतुरो मासान्" इति "विबोधयन्ति देवेशम्" इति च पञ्चदिनसाध्योत्सवानन्तरं तयोः कर्त्तव्यत्वप्रतीतेः। तेनेदमपि एकं कालान्तरमिति युक्तम्। एते च कालाः शक्त्यनुसारेण यथासम्प्रदायं च व्यवस्थिताः। एते च स्वापपरिवर्त्तनप्रबोधाः रात्रिसन्ध्यादिनेषु कार्याः।

निशि स्वापो दिवोत्थानं सन्ध्यायां परिवर्त्तनम्।

इति भविष्योक्तेः।

विष्णुर्दिवा न स्वपिति न च रात्रौ विबुध्यते।

इति विष्णुधर्मोत्तराच्च। एवं च `प्रसुप्तं बोधयेद्रात्रौ' इति ब्रह्नपुराणं रात्रौ प्रसुप्तं दिवा बोधयेदित्येव भविष्यवचनैकवाक्यतया व्याख्येयम्। अन्यथा विकल्पापत्तेः। तदपेक्षया च पदधर्म्मस्य सन्निधानस्यैव बाधौचित्यात्। अन्यथा तद्वशेन पदधर्म्मस्याप्यबाधे पदस्य सुतरामबाधापत्तेः पर्युदासोच्छेदापत्तिः। केचित्तु निशि स्वाप इत्यस्मिन्ननाश्वासाद्रात्रावपि प्रबोधमाचरन्ति। तत्तु वचनस्य हेमाद्रयादिसकलनिबन्धादृतत्वादसमञ्जसम्। अत्र च द्वादश्यां रात्र्यादिभागेषु क्रमेण अनुराधाश्रवणरेवतीनामादिमद्यावसानेषु जायमानेषु प्रस्वापावर्त्तनोद्बोधाः प्रशस्ताः। तथा च--

भविष्ये,

मैत्राद्यपादे स्वपितीह विष्णुः श्रुतेश्च मध्ये परिवर्त्तमेति।

पौष्णावसाने च सुरारिहन्ता प्रबुध्यते मासचतुष्टयेन।।

आभाकाद्येषु मासेषु नृपते! माधवस्य च।

द्वादश्या शुक्लपक्षे च प्रस्वापावर्त्तनोत्सवाः।।

यदा द्वाश्यां रात्र्यादिभागेषु तत्तन्नक्षत्रबागानामयोगो नक्षत्रमात्रस्यैव तु योगस्तदा नक्षत्रमात्रयुक्तरात्र्यादिभागेष्वेव शयनादिकं कार्यम्।

पादयोगो यदा न स्यादृक्षेणापि तदा भवेत्।

इति वराहपुराणवचनात्।

विष्णुर्दिवा न स्वपिति न च रात्रौ विबुध्यते।

द्वादश्यामृक्षसंयोगे पादयोगो न कारणम्।।

इति विष्णुधर्मोत्तराच्च। यदा द्वादश्यां रात्र्यादिभागेषु नक्षत्रमात्रस्याप्यभावस्तदा द्वादश्यामेव सन्ध्यायां शयनादिकं कार्यम्। तथा च--

वराहपुराणे,

द्वादश्यां सन्धिसमये नक्षत्राणामसम्भवे।

आबाकासितपक्षेषु शयनावर्त्तनादिकम्।।

सन्धिसमये इति शयनादावन्वेति। सन्धिसमयः सन्ध्याकालः। हेमाद्यादिसम्मतोऽप्ययमर्थः।

इति विष्णुशयनकालः।

अस्यामेवाषाढशुक्लैकादश्यां चातुर्मास्यव्रतारम्भ उक्तो--

महाभारते,

आषाढे तु सिते पक्षे एकादश्यामुपोषितः।

चातुर्मास्यव्रतं कुर्याद्यत्किञ्चिन्नियतो नरः।।

असम्भवे तुलार्केऽपि कर्त्तव्यं तत् प्रयत्नतः।

अथैकादशीव्रतं निर्णीयते।

तत्र--

पक्षे पक्षे तु कर्त्तव्यमेकादश्यामुपोषणम्।

इत्यादिनारदीयादिवचने तावत् यत्रोपवासश्रवणं तत्राष्टयामिकाभोजनसङ्कल्पो विधीयते। उपवासपदस्य व्रतविशेषपर्यायस्य सङ्कल्पवाचित्वस्येष्टत्वात्। यानि तु व्रतं नियमो धर्म्म इत्यादिसमभिव्यहारवन्ति नञ्युक्तवाक्यानि यथा--

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि।

वनस्थयतिधर्म्मोऽयम्

इत्यादीनि तत्रापि "नोद्यन्तमादित्यमीक्षेत" इत्यादाविव सङ्कल्प एव लक्षणया विधीयते। या तु तत्र भोजननिन्दा सा "नहि निन्दा निन्दितुं प्रवर्त्तत" इति न्यायेन व्रतस्तुत्यर्था न तु स्वतन्त्रनिषेधोन्नायिका गौरवात्।

न शङ्खेन पिवेत्तोयं न खादेत् कूर्ण्मंशूकरौ।

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि।।

इत्यादौ तु निषेधप्रायपाठात् व्रतादिपदसमभिव्याहाराभावाच्च भो जननिषेध एव। तत्र सङ्कल्पलक्षणायां प्रमाणाभावात्। न चैकमूलक ल्पनालाघवार्थं सेतिवाच्यम्। तस्योत्तरकालनित्वात्। अन्यथा निषादस्थपत्यधिकरणविरोधापत्तेः। (अ0 6 पा0 1 अधि0 13) अत्र भोजनं स्मृतिलोकप्रसिद्धोऽब्यवहार एव निषिध्यते न तु सर्वादननिवृत्तिः। अत एव गृहस्थस्य कृष्णैकादश्यादौ व्रतभोजननिषेधयोः प्राप्तौ--

उपवासनिषेधे तु किञ्चिद्भक्ष्यं प्रकल्पयेत्।

इति किञ्चिद्भक्षणविधानम्। न चैतद्विध्यन्यथानुपपत्त्यैव भुजेरदनीयमात्रादनपरतेति वाच्यम्। अस्य च वचनस्य रागद्वेषादिकृतनिराहारव्यावृत्त्या सार्थकत्वात्। अयं च निषेधः कलञ्जभक्षणनिषेधाधिकरणन्यायेन नित्य एव। अयं च कृष्णे शुक्ले च सर्वान् प्रति प्रवर्त्तते।

अष्टवर्षाधिको मर्त्यो ह्यशीतिर्न च पूर्यते।

यो भुङ्क्ते मामके राष्ट्रे विष्णोरहनि पापकृत्।

स मे वद्यश्च दण्डयश्च निर्वास्यो देशतः स मे।।

इति नारदोक्तेः,

गृहस्थो ब्रह्नचारी च आहिताग्निस्तथैव च।

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि।।

इत्यग्निपुराणाच्च। अत्र चाष्टवर्षग्रहणमुपनयनोपलक्षणम्। अशीतिग्रहणं च शक्त्युपलक्षणमिति केचित्। तन्न। प्रमाणाभावात्। न च--

गृहस्थो ब्र्हनचारी च योऽनश्नंश्च तपश्चरेत्।

प्राणाग्निहोत्रलोपेन अवकीर्णी भवेत्तु सः।।

इति वचनविरोध इति वाच्यम्। अस्य-

एकभक्तेन नक्तेन तथैवायाचितेन च।।

उपवासेन चैकेन पादकृच्छ्रः प्रकीर्त्तितः।।

एतत् त्रिगुणितं प्राजापत्यम्

इत्यादिविहितप्राजापत्यानुष्ठाने त्रैगुण्यसम्पत्त्यर्थं स्वस्थानविवृद्धिन्यायप्राप्तोपवासावृत्तिनिवृत्त्यर्थत्वात्। अत एव "अनश्नंस्तपश्चरेत्" इति यावत्तपश्चरणमनशनाभ्यासार्थको वर्त्तमानकालप्रत्ययः। `प्राणाग्निहोत्रलोपेन' इति तु "तेन ह्यन्नं क्रियते" इति वदर्थवादमात्रम्। प्राणाग्निहोत्रं नाम तद् "यदू भक्तं प्रथममागच्छेत् तद्धोमीयम्" इति विहितो भोजनाश्रितो नियमविशेषो नित्यतया विहितः। न चास्य आश्रयभूतभोजनाभावे लोपो दोषाय भवति तस्मादर्थवादः। हेमाद्रिस्तु ब्रह्नचारिगृहस्थयोर्मरणान्तिकानशनरूपतपोनिवृत्त्यर्थमिदं वचनमित्याह। यदपि--

आहिताग्निरनड्वांश्च ब्रह्नचारी च ते त्रयः।

अश्नन्त एव सिद्ध्यन्ति नैषां सिद्धिरनश्नताम्।।

इतिसाङ्ख्यायनवचनं तत् भोजनाभावेऽशत्त्याध्ययनाग्निहोत्रादिलोपप्रसक्तौ तन्निवृत्त्यर्थम्। नैषां सिद्धिरनश्नतामितिहेतुवन्निगदात्। अग्निहोत्रादेः श्रौतत्वेन स्मार्त्तभोजननिवृत्तिबाधौचित्यात्। एवं चाग्निहोत्राद्यविरोधेन नित्योपवासविधिः प्रवर्त्तते। काम्यस्तु श्रौतस्यापि नित्याग्निहोत्रादेर्बाधक एव प्रमाणबलाबलाऽपेक्षया प्रमेयबलाबलत्वस्य ज्यायस्त्वात्। काम्येन तु श्रौतेन काम्यस्मार्त्तनिवृत्तिरिष्टैव श्रौतत्वेन बलीयस्त्वाधिक्यात्। एतेन नित्यस्य काम्यस्य स्मार्त्तोपवासस्य श्रौतेनाग्निहोत्रादिना निवृत्तिरिति यत् कैश्चिदुक्तं तन्निरस्तम्। इत्यलं प्रसक्तानुप्रसक्तेन। तस्मान्निषेधे पक्षद्वयेऽपि सर्वेषामधिकारः। व्रते तु नित्यप्रयोगे गृहस्थव्यतिरिक्तानां पक्षद्वयेऽप्यधिकारः। गृहस्थस्य तु शु क्लपक्षगत एव।

एकादश्यां न भूञ्जीत पक्षयोरुभयोरपि।

वनस्थयतिधर्म्मोऽयं शुक्लामेव सदा गृही।।

इति देवलोक्तेः।

एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि।

ब्रह्नचारी च नारी च शुक्लामेव सदा गृही।।

इति भविष्योत्तरोक्तेश्च।

यथा शुक्ला तथा कृष्णा द्वादशी मे सदा प्रिया।

शुक्ला गृहस्थैः कर्त्तव्या भोगसन्तानवर्द्धिनी।।

मुमुक्षुभिस्तथा कृष्णा तेन तेनोपदर्शिता।

इति भविष्यपुराणाच्च। यानि तु--

यथा शुक्ला तथा कृष्णा विशेषो नास्ति कश्चन।

इत्यादिसामान्यवचनानि तानि गृहस्थातिरिक्तविषय उपसंहर्त्तव्यानि। एवं च सामान्यवचनेन गृहस्थं प्रति उपवासाप्राप्तेः शुक्लामेव सदा गृहीत्यनेन गृहस्थं प्रति शुक्लोपवासविधिरिति केचित्। अन्ये तु एवकारेण "न चतुस्त्रिंशदिति ब्रूयात् षड्‌विंशतिरित्येव ब्रूयात्" (अ0 9 पा0 4 अघि0 2) इतिवत् विधिश क्तिप्रतिबन्धाद्वाक्यभेदापत्तेश्च गृहस्थं प्रति शुक्लोपवासविध्यसम्भवादन्यस्य च विधेरभावादनुवादत्वानुपपत्तेर्न सामान्योभयैकादश्युपवासविधीना वनस्थयतिविषयत्वेनोपसंहारः, किन्तु यत् कृष्णामप्युपवसेत्तद्वनस्थो यतिश्चेत्येवं तदन्तर्गतकृष्णोपवासस्यैव। एवं च सामान्यविधित एव गृहस्थस्य शुक्लामात्रप्राप्तेः शुक्लामेवेत्यनुवाद इत्याहुः। अपरे तु सामान्यवचनेब्य एव गृहस्थं प्रत्यपि उपवासप्राप्तेः परिसङ्खयार्थं शुक्लामेवेति वचनम् "अत्र ह्येवावपन्त्यत एवोद्वपन्ति" इतिवदित्याहुः। कर्वथा तावद्‌गृहस्थस्य शुक्लैवेति सिद्धिम्। यत्तु--

सङ्क्रान्त्यामुपवासं च कृष्णैकादशिवासरे।

चन्द्रसूर्यग्रहे चैव न कुर्यात् पुत्रवान् गृही।।

इत्यादिकृष्णैकादश्युपवासनिषेधकं वचनं तद् गृहस्थसामान्यपुरस्कारेण कृष्णानिषेधे सत्यपि पुत्रवद्गृहस्थस्य दोषाधक्यज्ञापनार्थमिति माधवादयः। तन्न। सामान्यविधेगृहम्थव्यतिरिक्त प्रत्युपसंहृतत्वात् शुक्लामेव सदा गृहीत्यस्य च गृहस्थं प्रात शुक्लाविधानार्थत्वेनानुवादत्वेन वा सार्थक्यात् परिसङ्खयापक्षस्य च वाक्यभेदनायुक्तत्वात् गृहस्थं प्रति कृष्णोपवासाप्रर्‌पतीनषधासम्भवात् पुत्रवद्‌गृहम्थं प्रति "कृष्णैकादशिवासर" इतिवचनस्य दोषाधिक्यख्यापनार्थत्वायोगात्। वचनं तु--

शयनीबोधिनीमध्ये या कृष्णैकादशी भवेत्।

सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन।।

इति वचनेन गृहस्थं प्रति शयनीबोधिनीमध्यवर्त्तिन्याः कृष्णाया विहितत्वात्तत्र पुत्रवद्‌गृहस्थं प्रति पर्युदासार्थमिति हेमाद्रिप्रभृतयः। इदं च वैष्णवव्यतिरिक्तपरम्।

नित्यं भक्तिसमायुक्तैर्नरैर्विष्णुपरायणैः।

पक्षे पक्षे च कर्त्तव्यमेकादश्यामुपोषणम्।। इति।

तथा,

यथा शुक्ला तथा कृष्णा यथा कृष्णा तथेतरा।

तुल्ये ऽनुमन्यते यस्तु स वै वैष्णव उच्यते।।

इति नारदीयतत्वसागरवचनाभ्यां तस्य सवकृष्णोपवासप्रतीतेः। एवं काम्यैकादशीव्रतं पक्षद्वये सर्वैः कार्यम।

पुत्रवांश्च गृहस्थश्च बन्धुयुक्तस्तथैव च।

उभयोः पक्षयोः काम्यं व्रतं कुर्यात्तु वैष्णवम्।।

इति हेमाद्रयुदाहृतवचनात्। यत्तु--

रविवारेऽर्कसङ्‌क्रान्त्यामेकादश्यां सितेतरे।

पारणं चोपवासं च न कुर्यात् पुत्रवान् गृही।।

इत्यादिवचनैर्निषेधेन पर्युदासेन वा रविवारादावुपवासनिवृत्तिः। सा तत्प्रयुक्तोपवासस्य न तु तदधिकरणकस्यैकादश्र्युपवासस्यापि।

तन्निमित्तोपवासस्य निषेधोऽयमुदाहृतः।

प्रयुत्त्यन्तरयुक्तस्य न विधिर्न निषेधनम्।।

इति जैमिनिवचनात्। अत एव--

भृगुभानुदिनोपेता सूर्यसङ्क्रान्तिसंयुता।

एकादशी सदोपोष्या पुत्रपौत्रप्रवर्धिनी।।

इति विष्णुधर्म्मोत्तरमपि सह्गच्छते। रविवारादिप्रयुक्त उपवासश्च संवर्तेनोक्तः--

अमावास्या द्वादशी च सङ्‌क्रान्तिश्च विशेषतः।

एताः प्रशस्तास्तिथयो भानुवारस्तथैव च।।

अत्र स्नानं जपो होमो देवतानां च पूजनम्।

उपवासस्तथा दानमेकैकं पावनं स्मृतम्।। इति।

पारणं चोपवासं चेत्यत्र समाप्तिपर्यायपारणपदसमभिव्याहारादुपवासपदमुपवासोपक्रमपरम्। तेनोपवासव्रतं रविवारादौ पुत्रवद्‌गृहस्थातिरिक्तः कुर्यादित्येव तात्पर्यार्थः। न तु तन्निमित्तपारणाया अपि पृथङ्‌निषेधः। रविवारादिप्रयुक्तपारणाया अभावात्। न च--

सप्त वारानुपोष्यैव सप्तधा संयतेन्द्रियः।

सप्तजन्मकृतात्पापात्तत्क्षणादेव मुच्यते।।

इतिवचनविहितशनिवारप्रयुक्तोपवासपारणाया रविवारनिमित्तता। तथा,

नित्यं द्वयोरयनयोर्नित्यं विषुवतोर्द्वयोः।

चन्द्रार्कयोर्ग्रहणयोर्व्यतीपोतषु पर्वसु।।

अहोरात्रोषितः स्नानं श्राद्धं दानं तथा जपम्।

यः करोति प्रसन्नात्मा तस्य स्यादक्ष्यं च तत्।।

इति सङ्क्रान्ति पूर्वदिवसविहितोपवासपारणायाश्च सङ्क्रान्तिनिमित्ततेति वाच्यम्। परेऽहनि तु पारयेदित्यादिवचनादुत्तरदिनत्वेन रविवारादेरधिकरणत्वं न तु तत्प्रयुक्ता पारणा। रविवारे पारयोदित्यादिवचनाभावात्। कृष्णैकादशीप्रयुक्तपारणायास्तु दशम्युपवासविध्यदर्शनेन कथमप्यसम्भवाच्च न च तर्हि तदधिकरणकपारणाया एव निषेधः अत एव तन्निमित्तोपवासस्येत्युपवासमात्रग्रहणमिति वाच्यम्। द्वादश्यां रविवारे एकादशीपारणाभावप्रसह्घात्। तस्माद् यथोक्तैव व्याख्या युक्तेति। यदपि च-

व्यतीपाते कृते श्राद्धे पुत्री नोपवसेद्‌गृही।

इतिवचनेन श्राद्धदिने उपवासनिषेधनं तत् एकादशीव्यतिरिक्तविषय एव।

उपवासो यदा नित्यः श्राद्धं नैमित्तिकं भवेत्।

उपवासं तदा कुर्यादाघ्राय पितृसेवितम्।।

इति वृद्धयाज्ञवल्क्योक्तेः।

यस्मिन् दिने पितुः श्राद्धं मातुर्वाथ भवेद्‌गुह!।

तस्मिन्नेव दिने तात! भवेदेकादशीव्रतम्।।

अन्यद्वापि व्रतं स्कन्द! तदा कार्यं च तच्छृणु।

न लुप्यते यथा श्राद्धं तूपवासोऽथवा गुह!।।

इति विप्रतिपन्नेऽर्थे उपायः परमो मतः।

इष्टो हितार्थं सर्वोषां नराणां शिखिवाहन!।।

श्राद्धदिनं समासाद्य उपवासो यदा भवेत्।

तदा कृत्वा तु वै श्राद्धं भुक्तशेषं च यद् भवेत्।।

तत्सर्वं दक्षिणे पाणौ गृहीत्वान्नं शिखिध्वज!।

अवजिघ्रेदनेनाथ तेन श्राद्धं शिखिध्वज!।

पितॄणां तृप्तिदं जातं व्रतभङ्गो न विद्यते।।

इति स्कन्दपुराणोक्तेश्च। यदपि च--

पत्यौ जीवति या नारी उपवासं व्रतं चरेत्।

आयुष्यं हरते भर्त्तुर्नरकं चैव गच्छति।।

इति वचनं तदपि भर्त्रननुज्ञाविषयम्।

भार्या भर्त्तुर्मतेनैव व्रतादीन्याचरेत् सदा।।

इति कात्यायनोक्तेः।

नारी खल्वननुज्ञाता भर्त्रा पित्रा सुतेन वा।

निष्फलं तु भवेत्तस्या यत् करोति व्रतादिकम्।।

इति मार्कण्डेयपुराणाच्च। अत्र पित्रादिग्रहणं भर्त्रसन्निधानाविषयं विधवाविषयं च न स्त्री स्वातन्त्र्यमर्हतीति वचनात्। एतच्च विधवया पक्षद्धयेऽपि कार्यम्।

एकादश्या विना रण्डा यतिश्च सुमहामते!।

पच्यते ह्यन्धतामिस्रे यावदाभूतसम्प्लवम्।।

इति वचने रण्डायतिसमभिव्याहारात्। एवं च सधवाया गृहस्थवच्छुक्लायामेवाधिकार इत्यनवद्यम्।

अथ व्रते एकादशीद्वैधं निर्णीयते।

सा च द्विविधा सम्पूर्णा विद्धा च। तत्र उदयात् प्राङ्‌मुहूर्त्तद्वयमारभ्य प्रवृत्तायाः पुनः सूर्योदयपर्यन्तसत्त्वे सम्पूर्णा।

आदित्योदयवेलायाः प्राङ्मुहूर्त्तद्वयन्विता।

एकादशी तु सम्पूर्णा विद्धान्या परिकीर्त्तिता।।

इतिभविष्यपुराणात्। अत एव--

प्रतिपत्प्रभृतयः सर्वा उदयादोदयाद्रवेः।

सम्पूर्णा इति विख्याता हरिवासरवर्जिताः।।

इति स्कन्दपुराणे सामान्यत उक्तस्य सम्पूर्णत्वस्य हरिवासरपर्यायैकादश्यां पर्युदासः कृतः। अत्र च यत् सामान्यतः सिद्धं उदयादारभ्य प्रवृत्तत्वं उदयपर्यन्तं च सत्त्वमिति द्वयमभिहितं सम्पूर्णत्वं तन्मध्ये पूर्वमेव एकादश्यां पर्य्युदस्यते नोत्तरमपि भविष्यैकवाक्यत्वात्। तेन अरुणोदयमारभ्य पुनः सूर्योदयपर्यन्तं सत्त्व एव एकादशी सम्पूर्णोतिसिद्धम्। यत्तु--

आदित्योदयवेलाया आरभ्य षष्टिनाडिका।

सम्पूर्णैकादशी नाम

इतिवचनं तदनुकल्पभूतसम्पूर्णत्वविधायकमिति वक्ष्यते। विद्धा तु दशम्या अरुणोदयस्पर्शे सति। या तु कृत्स्ना अरुणोदयव्यापिनी द्वितीयसूर्य्योदयादवार्गेव समाप्ता सा न विद्धा न सम्पूर्णआ किन्तु खण्डमात्रम्। तस्मादुदयादर्वाक् मुहूर्त्तद्वयान्विता सम्पूर्णेति युक्तम्। यत्तु--

अरुणोदयकाले तु दिशागन्धो भवेद् यदि।

इत्यादिवचनेषु अरुणोदयपदं तदपि मुहूर्त्तद्वयपरमेव।

यत्तु ब्रह्नवैवर्त्ते--

चतस्नो घटिकाः प्रातररुणोदय इष्यते।

तथा--

अरुणोदयवेधः स्यात् सार्द्धं तु घटिकात्रयम्। इति।

अत्रापि मुहूर्त्तद्वयोपलक्षणम्। एकमूलकल्पनालाघवात्। अयं चारुणोदयबेधो वैष्णवान् प्रत्येव।

दशमीवेधसंयुक्तो यदि स्यादरुणोदयः।

नैवोपोष्यं वैष्णवेन तद्धि नैकादशीव्रतम्।।

इतिगारुडोक्तेः। यत्तु--

सूर्योदयस्पृशाप्येषा दशम्या गर्हिता सदा।

इतिसूर्योदयवेधवचनं तद्वैष्णवातिरिक्तविषयं परिशेषात् इति माधवादयः। केचित्तु अरुणोदयवेधोऽपि सर्वसाधारणः। वेधसामान्यवचनात्। वैष्णवग्रहणं तु अरुणोदयवेधस्य वैष्णवान् प्रति अरुणोदयवेध एवेति नियमार्थम्। एवं च सामान्यप्राप्तं वेधद्वयमपि वैष्णवेतरान् प्रति प्रवर्त्तते। तत्रारुणोदयवेधक्ष्तावत् काम्यव्रतविषयः।

उदयात् प्राक् त्रिघटिकाव्यापिन्येकादशी यदि।

सन्दिग्धैकादशी नाम त्याज्या वै धर्म्मकाङ्क्षिभिः।।

पुत्रराज्यसमृद्ध्यर्थं द्वादश्यामुपवासयेत्।

तत्र क्रतुशतं पुण्यं त्रयोदश्यां तु पारणम्।।

इतिगारुडोक्तेः। न चैतद् वैष्णवान् प्रत्येवोपसंहियतामितिवाच्यम्। तेषां "नैवोपोष्यं" इत्यनेनोपवाससामान्यनिषेधात्। एकादशीवृद्धौ द्वादशीवृद्धौ सर्वेषां नित्योपवासविषयोऽपि सः।

एकादशीं दिशा युक्तां वर्धमाने विवर्जयेत्।

क्षयमार्गस्थिते सोमे कुर्वीत दशमीयुताम्।।

इतिभविष्योक्तेः। सेम=एकादशी।

दशमीशेषसंयुक्ता उपोष्यैकादशी तदा।

यदा न स्यात् त्रयोदश्यां मुहूर्त्तं द्वादशी तिथिः।।

इतिविष्णुरहस्योक्तेः। अत्र यदा न स्यादित्युक्तेर्यदि स्यात्तदा दशमीविद्धा न कार्येत्यर्थादुक्तं भवति। एकादश्या द्वादश्या वा विध्यभावे तु अरुणोदयवेधो न प्रवर्त्तते किन्तु सूर्योदयवेध एव। अन्यथा सूर्योदयवेधानर्थक्यापत्तेः। तथा च वृद्ध्यभावे अरुणोदयविद्धैव शुद्धा। सूर्योदयवेधे तु वृद्ध्यभावे उत्तरैव।

कुर्यादलाभे संयुक्ता नालाभेऽपि प्रवेशिनीम्।

इतिवचनात्। संयुक्ता=अरुणोदयविद्धा। ग्रवेशिनी=सूर्योदयविद्धेत्याहुः। सर्वथारुणोदयविद्धा वैष्णवैः सर्वदा त्याज्येत्यविवादम्। शुद्धाप्येकादश्या द्वादश्या वा वृद्धौ त्याज्या।

सम्पूर्णैकादशी यत्र द्वादश्यां वृद्धिगामिनी।

द्वादश्यां लङ्घनं कार्यं त्रयोदश्यां च पारणम्।।

इति नारदोक्तेः। सम्पूर्णा--

उदयात्प्राक् यदा विप्र! मुहूर्त्तद्वयसंयुता।

इति परिभाषिता। द्वादशीमात्रवृद्धौ तु सम्पूर्णां प्रक्रम्य वासः--

एकादशी यदा लुप्ता परतो द्वादशी भवेत्।

उपोष्या द्वादशी तत्र यदीच्छेत् परमां गतिम्।। इति।

मचैतत्स्मार्त्तविषयमिति वाच्यम्। तेषामीद्दशे विषये शुद्धायामेवोपवासविधानस्य वक्ष्यमाणत्वात्। वैष्णवस्तु विष्णुमन्त्रदीक्षावान्।

वैखानसाद्यागमोक्तदीक्षां प्राप्तो हि वैष्णवः।

इत्याद्युक्तेः। एवं च वैष्णवस्य पुत्रादयोऽवैष्णवाश्चेन्न तान् प्रत्ययं निर्णय इति ध्येयम्। अत्र च विद्धानिषेधः संयोगपृथक्त्वन्यायेन व्रतार्थः पुरुषार्थश्च। व्रतार्थता तावत् प्रकरणात्। पुरुषार्थता तु--

दशमीशेषसंयुक्ता गान्धार्या समुपोषिता।

तस्याः पुत्रशतं नष्टं तस्मात्तां परिवर्जयेत्।।

दशम्यनुगता यत्र तिथिरेकादशी भवेत्।

तत्रापत्यविनाशः स्यात् परेत्य नरकं व्रजेत्।।

इत्यादिना पुरुषगतानिष्टस्मरणात्।

जम्भस्येयं पुरा दत्ता दशमीशेषसंयुता।

उपोष्य तां प्रमादेन प्रायश्चित्तं चरेद्द्विजः।।

कृच्छ्रपादं नरश्चीर्त्वा गां च दद्यात् सवत्सिकाम्।

सुवर्णस्यार्द्धकं देयं तिलद्रोणसमन्वितम्।।

इतिप्रायश्चित्तविधानाच्चेति केचिति। तत्त्वं तु "अङ्गे फलश्रुतिरर्थवाद" इति न्यायेन क्रत्वर्थनिषेधातिक्रमे नरकादिश्रवणं निन्दार्थवादएव। प्रायश्चित्तमपि अनारब्याधीतमपि अधिकारपशुन्यायेनोत्तरदिनक्रियमाणव्रतार्थमेवाभ्युदितेष्टिवदितियुक्तमित्यलं प्रसक्तानुप्रसत्त्या।

इति वैष्णवान् ग्रत्येकादशीनिर्णयः।

अथ स्मार्त्तान् प्रति।

तत्र शुद्धाभेदेन द्विविधापि एकादशी प्रत्येकं नवविधा।

शुद्धा विद्धा तथा त्रेधा भिन्ना न्यूनसमाधिकैः।

त्रिधैकैका पुनर्भिन्ना द्वादश्यूनसमाधिकैः।।

इतिवचनात्। अत्र न्यूनसमेत्यादौ भावप्रधानो निर्द्देशः। द्वितीयसूर्योदयाव्यवहितप्राक्क्षणे समाप्ता समा ततोऽर्वाक्समाप्तान्यूना उदयोत्त रभाविनी अधिका। अत्र च विद्धा सकलमते सूर्योदयवेधेनैव। अरुणोदयवेधमादायाष्टादशभेदासम्भवात्। तावद्‌ध्रासवृद्ध्योरसम्भवात्। ते च शुद्धन्यूनन्यूनद्वादशिका 1 शुद्धन्यूनसमद्वादशिका 2 शुद्धन्यूनाधिकद्वादशिका 3 शुद्धसमन्यूनद्वादशिका 4 शुद्धसमसमद्वादशिका 5 शुद्धसमाधिकद्वादशिका 6 शुद्धाधिकन्यूनद्वादशिका 7 शुद्धाधिकसमद्वादशिका 8 शुद्धाधिकाधिकद्वादशिका 9 एवं विद्धायामपीत्यष्टादश भेदाः। तत्र निर्णयसङ्ग्राहकश्लोकौ प्राच्यनिबन्धेषु--

आद्यासु षट्सु पूर्वैव व्यवस्थानन्तरद्वये।

गृहमेधियतीनां स्यान्नवम्यां स्यात् परेऽहनि।।

विद्धात्रये तु पूर्वा स्याद्व्यवस्थानन्तरद्वये।

अपरेऽहनि शेषाः स्युः सप्तमी तु व्यवस्थया।। इति।

माधवस्त्वष्टौ भेदानाह--शुद्धानधिकानधिकद्वादशिका 1 शुद्धानधिकाधिकद्वादशिका 2 शुद्धाधिकाधिकद्वादशिका 3 शुद्धाधिकानधिकद्वादशिका 4 एवं विद्धापि। उभयथापि निर्णयः समान एव। अनधिकत्वस्य साम्येन क्षयेण च सम्भवात्। तत्र प्रथमे पक्षे सन्देह एव नास्ति। द्वितीयेऽप्याद्यैव।

शुद्धा यदा समा हीना समा हीनाधिकोत्तरा।

एकादशीमुपवसेन्न शुद्धां वैष्णवीमपि।।

इतिस्कान्दोक्तेः। शुद्धैकादशी शुद्धा सतीत्यर्थः। समा हीना वा अनधिकेतियावत्। उत्तरा=वैष्णवी च द्वादशी। यानि तु--

एकादशी भवेत् पूर्णा परतो द्वादशी यदि।

तदा ह्येकादशीं त्यक्त्वा द्वादशीं समुपोषयेत्।।

इत्यादिवचनानि तान्येकादश्या अप्याधिक्ये योज्यानि।

पूर्णाप्येकादशी त्याज्या वर्द्धते द्वितयं यदि।

इति वाक्यान्तरैकवाक्यत्वात्, वैष्णवविषयाणि वा। तेषां द्वादशीमात्रवृद्धौ परेद्युरुपवासस्य साधितत्वात्। अनन्तभट्टमाधवादीनामत्र विवाद एव। हेमाद्रिस्तु अस्मिन् द्वितीये पक्षे शुद्धैकादश्युपवासविधायकानां वचनानां गृहस्थविषयकत्वं शुद्धद्वादश्युपवासविधायकानां तु यतिविषयत्वम्।

सम्पूर्णैकादशी यत्र द्वादशी च परेऽहनि।

तत्रोपोष्या द्वादशी स्याद् द्वादश्यामेव पारणम्।।

न गर्भे विशते जन्तुरित्याह भगवान् हरिः।

इति वचनात्। अत्र च न गर्भे विशते जन्तुरित्यतो यतिप्रतीतेरित्याह। अत्रार्थे स्पष्टमूलवचनं पृष्वीचन्द्रोदये नारदीयनाम्ना लिखितम्।

सम्पूर्णैकादशी शुद्धा द्वादश्यां नैव किञ्चन।

द्वादशी च त्रयोदश्यामस्ति तत्र कथं भवेत्।।

पूर्वा गृहस्थैः कार्या स्यादुत्तरा यतिभिस्तथा। इति।

तृतीयपक्षे तु सर्वेषां परैव।

सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा।

सर्वैरेवोत्तरा कार्या परतो द्वादशी यदा।।

इति नारदोक्तेः। चतुर्थपक्षे तु गृहियतिभेदेन व्यस्था।

प्रथमेऽहनि सम्पूर्णा व्याप्याहोरात्रमास्थिता।

द्वादश्यां च तथा तात! दृश्यते पुनरेव सा।।

पूर्वा कार्या गृहस्थैश्च यतिभिश्चोत्तरा विभो!।

इति नारदोक्तेः। यतिग्रहणं गृहिभिन्नोपलक्षणम्। जघन्ये लक्षणाया न्याय्यत्वात्। सम्पूर्णां प्रकम्य--

पुनः प्रभातसमये घटिकैका यदा भवेत्।

तत्रोपवासो विहितो वनस्थस्य यतेस्तथा।।

विधवायाश्च तत्रेव परतो द्वादशी न चेत्।

इतिवचनाञ्च। विधवायोश्चति चकारात् विधुरग्रहणम्। एकाङ्गवि कलत्वसाम्यात्। केचित्तु गृहस्थयतिग्रहणं सकामनिष्कामोपलक्षणम्।

सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा।

पूर्वामुपवसेत् कामी निष्कामस्तूत्तरां वसेत्।।

इति मार्कण्डेयोक्तेः। न च प्रागुदाहृतवचनानुसारात् सकामनिष्कामपदं गृहियतिपरमस्त्विति वाच्यम्।

निष्कामस्तु गृही कुर्यादुत्तरैकादशीं सदा।

प्रातर्भवतु वा मा वा द्वादशी च द्विजोत्तम!।।

इति स्कन्दपुराणे गृहिणोऽपि निष्कामस्योत्तरत्रोपवासविधानादित्याहुः। विष्णुप्रीतिकामनायां तु एतादृशे विषये दिनद्वयेऽप्युपवासः कार्यः।

सम्पूर्णैकादशी यत्र प्रभाते पुनरेव सा।

त्रयोदसी उषः काले उपोष्या तत्र काभवेत्।।

उपोष्ये द्वे तिथी तत्र विष्णुप्रीणनतत्परैः।

इति स्कन्दपुराणोक्तेः। केचित्तु द्वे उपोष्ये इत्यनेन नैकस्योपवासस्य आवृत्या विधानं किन्तु कैश्चित्पूर्वा कैश्चिदुत्तरेति तिथिद्वयोपोष्यत्वप्रतिपादनपरं पूर्वैकवाक्यत्वादित्याहुः। या तु विद्धानधिकानधिकद्वादशिका तस्यां विद्धैवोपाष्या।

यदि दैवात्तु संसिद्ध्येदेकादश्यां तिथित्रयम्।

तत्र क्रतुशतं पुण्यं द्वादशीपारणं भवेत्।।

इति नारदोक्तेः।

एकादशी न लभ्यते द्वादशी सकला भवेत्।

उपोष्या दशमीविद्धा ऋषिरुद्दालकोऽब्रवीत्।।

इति ऋष्यशृङ्गोक्तेश्च। अत्र च विद्धाया अनाधिक्यं साम्येन क्षयेण च भवति। तत्र क्षयेण तस्मिन् पुत्रवद्गृहिभिन्नैः सर्वैर्विद्धैवोपोष्या।

एकादशीक्षयदिन उपवासं करोति यः।

तस्य पुत्रा विनश्यन्ति मघायां पिण्डदो यथा।।

इत्यादिवचने पुत्रवतामुपवासपर्य्युदासात्। एवं च-

एकादशी दिशाविद्धा परतोऽपि न वर्द्धते।

यतिभिर्गृहिभिश्चैव सैवोपोष्या क्षये तिथिः।।

इति पाझे गृहिपदं पुत्रवद्भिन्नगृहिपरं द्रष्टव्यम्। तेषांतु द्वादश्यामेव

दिनक्षये तु सम्प्राप्ते नोपोष्या दशमीयुता।

उपोष्या द्वादशी शुद्धा त्रयोदश्र्यां च पारणम्।।

इतिभविष्योक्तेः। अत्रच दिनक्षये विद्धानिषेधस्य पुत्रवद्विषयत्वात् द्वादश्युपवासोऽपि तद्विषय एवेति ध्येयम्। साम्येन अनाधिक्ये तु पुत्र वतामपि पूर्वत्रैव "दिनक्षय" इत्यादिना क्षय एवैतेषां विद्धोपवासपर्युदासात्। अत एव-

एकादशी कलाप्येका परतो न च वर्द्धते।

गृहिभिः पुत्रवद्भिश्च विद्धोपोष्या तदा तिथिः।।

इति हेमाद्रयुदाहृतं भविष्यपुराणवचंन सङ्गच्छते। अत्र वृद्धिनिषेधात् साम्यप्रतीतिः। यतीनां तु साम्येनानाधिक्ये परैव।

दशमीमिश्रिता पूर्वा पूर्णा च द्वादशी परा।

शुद्धैव द्वादशी राजन्नुपोष्या मोक्षकाङ्क्षिभिः।।

इति विष्णुरहस्योक्तेः। क्षयेणानाधिक्ये तु पूर्वैव "यतिभिर्गृहिभिस्च" इति पाझानुसारात्। यत्तु--

दिनपयेक्षऽपि शुद्धैव द्बादसी मोक्षकाङ्क्षिभिः।

उपोष्या दशमीविद्धा नोपोष्यैकादशी सदा।।

इति सुमन्तुवचनं तत् क्षयशब्देन वृद्ध्यभावलक्षणया साम्यपरमेव व्याख्येयम्। अन्यथा पाझस्य निर्विषयत्वापत्तेः। न चैतद्वचनानुरोधात् पाझस्यैव लक्षणया साम्यपरत्वमस्त्विति वाच्यम्। क्षये परा साम्ये पूर्वेत्यनौचित्यापत्तेः। मदनरत्नस्तु साम्ये क्षये च यतीनां परैव पूर्वोदाहृतसुमन्तुविष्णुरहस्यवचनाभ्याम्। पाझे यतिग्रहणं तु नियमपर्याययतियुक्तामुमुक्षुनैष्ठिक्बरह्नचारिवानप्रस्थपरमित्याह। यत्तु तिथितत्त्वादौ--

कुर्यादलाभे संयुक्तां नालाभेऽपि प्रवेशिनीम्।

इति कूर्म्मपुराणवचनान्न कदाचिदपि विद्धोपवासविधिरित्युक्तम्। तदसत्। अस्य वचनस्याचार्यचूडामणिप्रभृतिभिरनुदाहृतत्वेन निर्म्मूलत्वात् समूलत्वे वामुमुक्षुविषयत्वेनोपपत्तिः। अन्यथा--

अविद्धानि निषिद्धैश्चेन्न लब्यन्ते दिनानि तु।

मुहूर्त्तैः पञ्चभिर्विद्धा ग्राह्यैवैकादशी तिथिः।।

इति सूर्योदयविद्धाप्रतिप्रसवार्थकस्य ऋष्यश्रृङ्गवचनस्याचार्यचूडामणिप्रभृतिभिरपि उदाहृतस्यानर्थक्यापत्तेः। या तु विद्धानधिकाधिकद्वादशिका सा परैव।

एकादशी यदा लुप्ता परतो द्वादशी भवेत्।

उपाष्यो द्वादशी शुद्धा यदीच्छेत्परमं पदम्।।

इति ब्रह्नवैवर्त्तोक्तेः। गौडास्तु--

पक्षहानौ स्थिते सोमे लह्घयेद्‌दशमीयुताम्।

इत्युत्तरार्द्धं पठित्वा शुक्लपक्षे दशमीविद्धा त्याज्या कृष्णपक्षे तु दशमीविद्धा ग्राह्येत्याहुः। तत्रेदं वक्तव्यम्। किमत्र विद्धानिषेधः शुक्लपक्ष एवेति विधीयते किं वा विद्धाविधिः कृष्णपक्ष एवेति। आद्ये कृष्णपक्ष एकादशीद्वादश्योर्वृद्धावपि विद्धाकर्त्तव्यतापत्तिः। द्वितीये तु शुक्लपक्षे तदनाधिक्येऽपि त्यागापत्तिः। न चेष्टापत्तिस्तेषामप्यसम्मतत्वात्। यत्तु मदनरत्ने--

सर्वत्रैकादशी कार्या दशमीमिश्रिता नरैः।

प्रातर्भवतु वा मा वा यतो नित्यमुपोषणम्।।

इति वचनं प्रातस्त्रयोदशीदिने द्वादशी भधतु वा मा वेति व्याख्याय त्रयोदश्र्यां द्वादशीसत्त्वेऽपि विद्धायामेवोपवास इत्युक्तम्। तदयुक्तम्। एकादशी यदा लुप्तेत्याद्युदाहृतवचनविरोधापत्तेः। प्रातपदेन तृतीयप्रातः कालानुपस्थितेश्च। वचनस्य त्वयमर्थः। दशमीवेधे प्रातः सङ्कल्पकाले एकादशी भवतु वा मा वा सर्वथोपवासः कर्त्तव्य एवेति। वस्तुतस्तु हेमाद्य्रादौ "द्वादशीमिश्रिता नरैः" इत्येव वाक्यमुदाहृतमिति न कश्चिद्‌दोषः। या तु विद्धाधिकाधिकद्वादशिका सा सर्वेषां परैव विद्धानिषेधवाक्यानां निरङ्कुशं तत्रैव प्रवृत्तेः। या तु विद्धाधिकानधिकद्वादशिका सा सर्वैरपि परैवोपोष्या।

द्वादशीमिलिता कार्या सर्वत्रैकादशी तिथिः।

द्वादशी च त्रयोदश्यां विद्यते यदि वा नवा।।

इति पोझोक्तः।

एकादशी द्वादशी च रात्रिशेषे त्रयोदशी।

तत्र क्रतुशतं पुण्यं त्रयोदश्यां च पारणम्।।

इति कूर्मोक्तेश्च। अस्मिंश्च क्षयेण द्वादश्या अनाधिक्ये कौर्मोक्तेः पुत्रवद्‌गृहस्थैर्नोपवासः कार्यः।

एकादशी द्वादशी च रात्रिशेषे त्रयोदशी।

उपवासं न कुर्वीत पुत्रपौत्रसमन्वितः।।

इति कौर्मोक्तेः। किन्तु नक्तमेव।

एकादशी यदा वृद्धा द्बादशी च क्षयं गता।

क्षीणा सा द्वादशी ज्ञेया नक्तं तत्र विधीयते।।

इति वृद्धपराशरोक्तेः। केचित्तु दिनक्षयनिमित्तोपवासनिषेध "उपवासनिषेधे तु" इतिवचनात् किञ्चिद्भक्षयेदित्याहुः। तन्न। नक्तादिविधेर्वि शेषत आम्नानात्। यत्तु--

एकादशी विवृद्धा चेच्छ्रुक्ले कृष्णे विशेषतः।

उत्तरां तु यतिः कुर्यात् पूर्वामुपवसेद्‌गृही।।

इति प्रचेतोवचनं तत् शुद्धाविषयं "सम्पूर्णैकादशी यत्र" इत्यादिबहुवाक्यैकवाक्यत्वात्। माधवस्तु अस्माद्वचनात् विद्धायामपि इयं व्यवस्थेत्याह। अत्र च येषु पक्षेषु विद्धोपवासप्रसक्तिस्तत्र रात्रौ पूजाव्रतसङ्कल्पावनुष्ठेयौ।

विद्धोपवासेऽनश्र्नंस्तु दिनं त्यक्त्वा समाहितः।

रात्रौ सम्पूजयेद्विष्णुं सङ्कल्पं च तदाचरेत्।।

इति अनन्तभट्टोदाहृतस्मृतिवचनात्। येषु तु शुद्धोपवासप्रसक्तिस्तत्र यदि पूर्वदिने मध्यरात्रात् पूर्वं दशमी तदा "प्रातः सह्कल्पयेद्विद्वान्" "पूर्वाह्ने दैवकार्याणि" इत्यादिसामान्यवचनेभ्यः प्रातरेव तावनुष्ठयौ। यदा तु मध्यरात्रोत्तरं दशम्या वेधस्तदा मध्याह्नोत्तरं पूजाव्रतसङ्कल्पा वनुष्ठेयौ।

दशम्याः सह्गदोषेण मध्यरात्रात् पेरण तु।

वर्जयेच्चतुरो मासान् सह्कल्पार्चनयोस्तथा।।

इति अनन्तभट्टोदाहृतवचनात्। एवं च--

अर्धरात्रात् परा यत्र एकादश्यां तु लभ्यते।

तत्रोपवसनं कर्त्तुं न चेच्छेद्‌दशमीकला।।

इतिस्मृतिवचनेऽप्युपवासग्रहणं प्रातःसह्कल्परूपोपवासनिषेधार्थमेव व्याख्येयं न तूपवासनिषेधार्थमित्यनन्तभट्टः। हेमाद्रिस्तु प्रथमारम्भविषयमित्याह। न चेच्छेदितीच्छानिषे वस्य प्रथमप्रयोग एवाञ्जस्यात्। अन्ये तु कपालवेधस्यापि अरुणोदयवेधवन्नित्यवदेव दूषकत्वम् अस्माद् वचनात्। अत एव कालनिर्णयदीपिकाविवरणकारेणापि एतन्न दूषितम्। अतश्च कपालवेधो देशाचाराद् व्यवस्थित इत्याहुः। वस्तुतस्तु

अर्धरात्रेऽपि केषाञ्चिद्‌दशम्या वेध इष्यते।

अरुणोदयकाले तु नावकाशो विचारणे।।

कपालवेध इत्याहुराचार्या ये हरिप्रियाः।

नैतन्मम मतं यस्मात् त्रियामा रात्रिरिष्यते।।

इतिवचने कैमुतिकन्यायप्रदर्शनात् कपालवेधवचनानि अरुणोदयवेधस्तुत्यर्थान्येवेति युक्तम्।

अथ पारणानिर्णयः।

सा चाल्पाल्पतराल्पतमद्वादश्यामपि प्रातर्माध्याह्निकं कर्मोषःकालेऽपकृष्य कार्या।

यदा भवति अल्पा तु द्वादशी पारणादिने।

उषःकाले द्वयं कुर्यात् प्रातर्माध्याह्निकं तदा।।

इति पाद्‌मोक्तेः। न चोषःकालस्याल्पत्वात् कथं तावत् कर्मानुष्ठेयमिति वाच्यम्। विधिबलात् सङ्ख्यादिबाधेन तदनुष्ठानोपपत्तेः। अत एव--

महाहानिकरी ह्येषा द्वादशी लङ्घिता नरैः।

करोति धर्म्महरणम्--

इति पाझे द्वादश्यतिक्रमे दोष उक्तः। अपकर्षश्च स्मार्त्तस्यैव न श्रौतस्य ततो बलीयस्त्वात्। श्रौतकर्म्मानीधकृतविषयत्वेन तस्य सावकाशत्वाच्च। एवं काम्यस्यापि नापकर्षः। अत्र च प्रातर्माध्याह्निकग्रहणान्न नैमित्तिकसङ्‌क्रान्तिव्यतीपातादियुक्तस्य तत्तत्काले विहितस्य स्नानादिकर्मणः सांवत्सरिकादेर्वाऽपकर्षः। एवं भूयस्यामपि द्वादश्र्यां माध्याह्निकापकर्षः प्रातः कार्य एव।

सर्वेषामुपवासानां प्रातरेव हि पारणा।

इति माधवोदाहृतवचनात्। यदा तु प्रातःकालो द्वादशीप्रथमपादान्तर्गतो भवति तदा तदन्ते पारणा कार्या।

द्वादश्याः प्रथमः पादो हरिवासरसंज्ञितः।

तमतिक्रम्य कुर्वीत पारणं विष्णुतत्परः।।

इति विष्णुधर्म्मोक्तेः।

इत्येकादशीपारणानिर्णयः। इत्येकादशीनिर्णयः।

अथ द्वादशीनिर्णयः।

सा तु एकादशीयुक्ता ग्राह्या "रुद्रेण द्वादशी युक्ता" इति युग्मवचनात्।

द्वादशी च प्रकर्त्तव्या एकादश्या युता प्रभो!।

सदा कार्या च विद्वद्भिर्विष्णुभक्तैश्च मानवैः।।

इति स्कन्दपुराणाच्च।

एकादशी तथा षष्ठी अमावास्या चतुर्थिका।

उपोष्याः परसंयुक्ताः पराः पूर्वेण संयुताः।।

इति गार्ग्यवचनाच्च। सकलकर्मोपलक्षणं चात्रोपवासग्रहणम्। यदा चैकादश्युपवासद्वादश्युपवासयोरेकस्मिन् दिने प्रसक्तिस्तदोपवासद्वयमपि तन्त्रेण कार्यम्। यदा तु सम्पूर्णयोस्तिथ्योर्भेदेनोपवासद्वयप्रसक्तिस्तदा एकादश्युपवाससंयुक्तां पारणां जलेन कृत्वा द्वादशीव्रतमारभेतेति माधवः। अयमेव च न्यायः सर्वत्र उपवासद्वयप्रसक्तौ ध्येयः। चैत्रशुक्लद्वादश्यां दमनोत्सव उक्तः--

द्वादश्यां चैत्रमासस्य शुक्लायां दमनोत्सवः।

इत्यादिना रामार्चंनचन्द्रिकायाम्। तत्र च पारणाहमात्रं विवक्षितम्।

पारणाहे न लभ्येत द्वादशी घटिकापि चेत्।

तदा त्रयोदशी ग्राह्या पवित्रदमनार्पणे।।

इति तत्रैवोक्तेः। पवित्रारोपणं च श्रावणशुक्लद्वादश्यां विहितम्।

श्रावणस्य सिते पक्षे कर्कस्थे च दिवाकरे।

द्वादश्यां वासुदेवाय पवित्रारोपणं स्मृतम्।।

इति विष्णुधर्म्मोक्तेः।

अथ श्रवणद्वादशीनिर्णयः।

तत्र विष्णुधर्मोत्तरे--

या राम! श्रवणोपेता द्वादसी महती तु सा।

तस्यामुपोषितः स्नातः पूजयित्वा जनार्दनम्।।

प्राप्नोत्ययत्नाद्धर्म्मज्ञो द्वादशद्वादशीफलम्।

अयं च स्वल्पोऽपि योगः फलदः।

तिथिनक्षत्रयोर्योगो योगस्यैव नराधिप!।

द्विकलो यदि लभ्येत स ज्ञेयो ह्याष्टयामिकः।।

इति श्रवणद्वादशीं प्रकृत्य नारदीयोक्तेः। योगः रोहिणीयोगादिः। तत्र या तावदेकस्मिन्नेव दिने श्रवणयोगवती शुद्धा शुद्धाधिका वा विद्धा विद्धाधिका वा तस्यां सन्देह एव नास्ति। यदा विद्धाधिकायां दिनद्वयेऽपि श्रवणयोगस्तदा एकादशीयुता ग्राह्या।

द्वादशी श्रवणस्पृष्टा स्पृशेदेकादशीं यदा।

स एव वैष्णवो योगो विष्णुशृङ्खलसंज्ञितः।।

इति मात्स्योक्तेः। हेमाद्रौ तु श्रवणास्पृष्टेति पाठः। वणाशब्दश्च स्त्रीलिङ्ग इत्व्यिख्यातम्। तन्त्रेण च तदोपवासद्वयं कायम्। यदा तु शुद्धाधिकाया दिनद्वये श्रवणयोगस्तदो त्तरैव।

उदयव्यापिनी ग्राह्या श्रधणद्वादशी व्रते।

इति बृहन्नारदीयात। यदा तु द्वादश्यां श्रवणयोग एव नास्ति तदा एकादश्यामेव तद्वत्यां श्रवणद्वादशीव्रतं कार्यम्।

यदा न प्राप्यते ऋक्षं द्वादश्यां श्रवणः व्कचित्।

एकादशी तदोपोष्या पापघ्नी श्रवणान्विता।।

इति नारदीयोक्तेः। एतस्याश्च संज्ञाविशेषो--

भाविष्ये--

एकादशी यदा शुक्ला श्रवणेन समन्विता।

विजया सा तिथिः प्रोक्ता भक्तानां विजयप्रदा।। इति।

विद्धाधिक्येऽपि चोत्तरदिने श्रवणयोगाभावे तादृशी दशमीविद्धापि ग्राह्या।

दशम्येकादशी यत्र सा नोपोष्या भवेत्तिथिः।

श्रवणेन तु संयुक्त। सा शुभा सर्वकामदा।।

इति वह्निपुराणात्। यदा चैकादशीश्रवणद्वादश्युपवासौ दिनभेदेन प्राप्नुतस्तदा शक्तेन द्वयमपि कार्यम्।

एकादशीमुपोष्यैव द्वादशीं समुपोषयेत्।

न तत्र विधिलोपः स्यादुभयोर्दैंवतं हरिः।।

इति भविष्योक्तेः। स्वीकृतैकादशीव्रतश्रवणद्वादशीव्रतोभयकरणासामर्थ्ये तु एकादशीमुपोष्य द्वादश्यां पूजामात्रं कार्यम्।

द्वादश्यां शुक्लपक्षे तु नक्षत्रं श्रवणं यदि।

उपोष्यैकादशीं तत्र द्वादश्यां पूजयेद्‌धरिम्।।

इति मात्स्योक्तेः। अगृहीतैकादशीव्रतस्तु द्वादश्यामेवोपवसेत्।

उपोष्य द्वादशीं पुण्यां वैष्णवर्क्षेण संयुताम्।

एकादश्युद्भवं पुण्यं नरः प्राप्नोत्यसंशयम्।।

इति नारदीयोक्तेः। अत्र च यदा कदाचिच्छ्रवणयोगेऽपि प्रातरेव सङ्कल्प इति हेमाद्रिः। इयं च भाद्रपदे महत्युक्ता।

मासि भाद्रपदे शुक्ला द्वादशी श्रवणान्विता।

महती नाम सा ज्ञेया उपवासे महाफला।।

इति स्कन्दपुराणात्। इयं च बुधयुक्तातिप्रशस्ता।

श्रवणद्वादशीयोगे बुधवारो यदा भवेत्।

अत्यन्तमहती नाम द्वादशी सा प्रकीर्त्तिता।।

इति विष्णुधर्म्मोत्तरात्। श्रवणद्वादशीव्रतनिमित्तोपवासपारणं तु पारणादिने उभयानुवृत्तौ तूभयान्ते कर्त्तव्यमिति मुख्यः कल्पः।

तिथिनक्षत्रसंयोगादुपवासो भवेद्यदा।

पारणं तु न कर्त्तव्यं यावन्नैकस्य सङ्क्षयः।।

इति नारदीयोक्तेरितिकेचित्। मदनरत्नस्तु अत्र यद्यपि तिथिनक्षत्रयोरन्यतरान्ते पारणं प्रतीयते तथापि तिथ्यन्त एव कार्यम् न तु तिथिमध्येऽपि नक्षत्रमात्रान्ते।

याः काश्चित्तिथयः प्रोक्ताः पुण्या नक्षत्रयोगतः।

ऋक्षान्ते पारणं कुर्याद्विना श्रवणरोहिणीम्।।

इति विष्णुधर्मोत्तरे श्रवणान्तस्य पारणायां पर्य्युदस्तत्वात्। नचैवं रोहिव्यन्तेऽपि सा न स्यादितिवाच्यम्। "भान्ते कुर्यात्तिथेर्वापि" इति रोहिणीयोगप्रयुक्तोपवासप्रकरणस्थवन्हिपुराणवचनात्तत्र सेष्टैव न त्वत्रैवं वचनमस्तीत्याह।

इति श्रवणद्वादशीनिर्णयः।

अथ तदितरमहाद्वादशीनिर्णयः।

तत्र ब्रह्नवैवर्त्ते,

उन्मीलिनी वञ्जुलिनी त्रिस्पृशा पक्षवर्द्धिनी।

जया च विजया चैव जयन्ती पापनाशिनी।।

द्वादश्योऽष्टौ महापुण्याः सर्वपापहरा द्विज!।

तिथियोगेन जायन्ते चतस्रश्चापरास्तथा।।

नक्षत्रयोगात्प्रबलपापं प्रशमयन्तिताः।

एकादशी तु सम्पूर्णा वर्द्धते पुनरेव सा।।

उन्मीलिनी भृगृश्रेष्ठ! कथिता पापनिशिनी।

द्वादश्यामुपवासस्तु द्वादश्यामेव पारणम्।।

वञ्जुली नाम सा प्रोक्ता हत्यायुतविनाशिनी।

अरुणोदय आद्या स्याद्द्वादशी सकलं दिनम्।

अन्ते त्रयोदशी भद्रा त्रिस्पृशा सा प्रकीर्त्तिता।।

कुहूराके यदा वृद्धिं प्रयाते पक्षवर्द्धिनीम्।

विहायैकादशीं तत्र द्वादशीं समुपोषयेत्।

पुष्यश्रवणपुष्याद्यरोहिणीसंयुतास्तु ताः।।

उपोषिताः समफला द्वादस्योऽष्टौ पृथक् पृथक्। इति।

चतस्रस्तिथियोगेन चतस्रो नक्षत्रयोगेनेत्यष्टौ। आद्या एकादशी। अरुणोदये सूर्योदय इति केचित्। पक्षवर्द्धिन्यां चोपवासद्वयासमर्थं प्रति द्वादश्युपवासमात्रविधानं श्रवणाद्वादशीव्रतवत्। पुष्याद्यं पुनर्वसुः। अत्र च तिथिप्रयुक्तासु न कोऽपि विचारः। श्रवणद्वादशी तु निर्णीतैव। इतरासु नक्षत्रप्रयुक्तासु तु न श्रवणद्बादशीवदल्पयोगेऽपि पूज्यत्वं किन्तु सूर्योदयादारभ्य पुनस्तत्पर्यन्तमस्तमयपर्यन्तं वा सत्त्व एव।

कृत्तिकादिभरण्यन्तं तारावासरसप्तकम्।

नैते संयोगमात्रेण पुनन्ति सकलां तिथिम्।।

इति सामान्यवाक्यात्। श्रवणे विशेषवचनात्तथेत्युक्तम्। एताश्चाष्टौ महाद्वादश्यः काम्याः महापुण्या इत्यादिना फलश्रवणात्। यत्तु--

न करिष्यन्ति ये लोके द्वादश्योऽष्टौ ममाज्ञया।

तेषां यमपुरे वासो यावदाभूतसम्प्लवम्।।

इत्यकरणप्रत्यवायबोधकं वचनं तदनाकरम्।

इति तदितरमहाद्वादशीनिर्णयः।

कार्त्तिंककृष्णद्वादश्यामुक्तायां वत्सपूजायां प्रदोषव्यापिनी तिथिर्ग्राह्या। तस्य तत्काल एव विधानात्। दिनद्वये तत्कालव्याप्तौ पूर्वैव।

वत्सपूजा वटश्चैव कर्त्तव्या प्रथमेऽहनि।

इति स्मरणात्।

इति द्वादशीनिर्णयः।

अथ त्रयोदशीनिर्णयः।

तत्र शुक्लत्रयोदशी पूर्वविद्धा कार्या।

त्रयोदशी तु कर्त्तव्या द्वादशीसहिता मुने!।

इति ब्रह्नवैवर्त्तोक्तेः। कृष्णपक्षत्रयोदश्यां निगमे--

षष्ठयष्टमी त्वमावास्या कृष्णपक्षे त्रयोदशी।

एताः परयुताः कार्याः पराः पूर्वयुतास्तथा।।

इति विशेषोक्तेश्च। यत्तु वृद्धवशिष्ठेनोक्तम्--

द्वितीया पञ्चमी वेधात् दशमी च त्रयोदशी।

चतुर्द्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी।। इति,

तत्तु शुक्लत्रयोदशीविषयम्। निगमे `कृष्णपक्षे त्रयोदशी' इति कृष्णपक्षपुरस्कारेण विशेषाभिधानात्। यदा तु परदिने त्रयोदशी नास्ति तदा पूर्वविद्धा कार्या। तदाह--

वशिष्ठः,

एकादशी तृतीया च षष्ठी चैव त्रयोदशी।

पूर्वविद्धापि कर्त्तव्या यदि न स्यात् परे ऽहनि।। इति।

उपवासेऽप्ययमेव निर्णयः। यत्तु--

एकादश्यष्‍टमी षष्ठी द्वितीया च चतुर्हशी।

त्रयोदशी अमावास्या ता उपोष्याः परान्विताः।।

इति विष्णुधर्म्मोत्तरवचनं तत् कृष्णत्रयोदशीविषयम्। अन्यथा--

द्वितीया पञ्चमी वेधात् दशमी च त्रयोदशी।

चतुर्दशी चोपवासे हन्युः पूर्वोत्तरे तिथी।।

इति वृद्धवसिष्ठवचनविरोधात्। अतः कृष्णशुक्लभेदेनोभयोराञ्जस्यम्। अत्र च पूर्वविद्धाया ग्राह्यत्वं न सायाह्नमात्रव्यापित्वे किन्तु अपराङ्णव्यापित्वे।

त्रयोदशी प्रकर्त्तव्या भवेद्या चापराह्णिकी।

इति स्कन्दपुराणात्। चैत्रे मदनत्रयोदशी तु मध्याह्नब्यापिनी ग्राह्या।

तत्प्रकरणे--

मध्याह्ने पूजयेद्भत्त्या गन्धपुष्पाक्षतादिभिः।

इत्युक्तेः। सा तु शुक्लपक्षगतत्वात् पूर्वविद्धा। तथा शनित्रथोदशी पूर्वविद्धा प्रदोषब्यापिनी कार्या। प्रदोषलक्षणं तु--

त्रिमुहूर्त्तं प्रदोषः स्याद्रवावस्तं गते सति। इति।

स्कन्दपुराणे--

ततस्तु लोहिते भानौ स्नात्वा सनियमो व्रती।

पूजास्थानं ततो गत्वा प्रदोषे शिवमर्चयेत्।। इति।

दिनद्वये प्रदोषव्यापित्वे तदेकदेशस्पर्शे वा उत्तरा ग्राह्या।

प्रातः सङ्कल्पयेद्विद्बानुपवासव्रतादिकम्।

इति सङ्कल्पकालमारभ्य प्रवृत्तेः।

सदैव तिथ्योरुभयोः प्रदोषब्यापिनी तिथिः।।

तत्रोत्तरत्र नक्तं स्यादुभयत्रापि सा यतः।

इति जावालिवचनाच्च। एकदेशस्पर्शेऽपि यत्राधिक्यं तत्र ग्राह्या। आधिक्यं देवपूजनभोजनपर्याप्तकालव्यापित्वम्। साभ्ये तूत्तरैव। मार्गशीर्षशुक्लत्रयोदसी अनङ्गत्रयोदशी। मार्शशीर्षेऽमले पक्षे इत्युपक्रम्य-

अनङ्गेन कृता त्वेषा तेनानङ्गत्रयोदशी।

इति विष्णुपुराणेक्तेः।

यद्यापि चात्र सामान्यनिर्णयादपराह्णव्यापिनी पूर्वविद्धा प्राप्यते तथापि--

कृष्णाष्टमी बृहत्तपा सावित्री वटपैतृकी।

अनङ्गत्रयोदसी रम्भा उपोष्याः पूर्वसंयुताः।।

इति संवर्त्तवचनात् सायान्हव्यापिन्या अपि पूर्वविद्धाया ग्रहणम्। अन्यथा हि सामान्यनिर्णयादेव प्राप्तेरेतस्य वचनस्य निरर्थकत्वापत्तेः। एवं कार्त्तिककृष्णत्रयोदशी सायाह्नव्यापिनी ग्राह्या।

कार्त्तिकस्यासिते पक्षे त्रयोदश्यां निशामुखे।

यमदीपं बहिर्दद्यादपमृत्युर्विनश्यति।।

इति स्कान्दोक्तेः।

इति त्रयोदशीनिर्णयः।

अथ चतुर्द्दशीनिर्णयः।

तत्र व्यासः--

शुक्ला चतुर्दशी ग्राह्या परविद्धा सदा व्रते। इति।

पझपुराणे--

एकादश्यष्टमी षष्ठी शुक्लपक्षे चतुर्दशी।

एताः परयुताः कार्याः पराः पूर्वेण संयुताः।। इति।

भविष्यपुराणे--

सदा कार्या त्रयोदश्या न तु युक्ता चतुर्दशी।

पौर्णमासीयुता सा स्याच्चतुर्दश्या च पूर्णिमा।। इति।

नारदीयपुराणे--

तृतीयैकादशी षष्ठी पौर्णमासी चतुर्द्दशी।

पूर्वविद्धा न कर्त्तव्या कर्त्तव्या परसंयुता।। इति।

वाराहपुराणे--

एकादशी दशम्या तु सप्तम्या चाष्टमी तथा।

पञ्चम्या च यदा षष्ठी त्रयोदश्या चतुर्द्दशी।।

आसु क्रिया न कुर्वीत पूर्वविद्धासु मानवः।

नागविद्धा तथा षष्ठी भानुविद्धो महेश्वरः।

चतुर्द्दशी कामविद्धा मिश्रास्ता मलिनाः स्मृताः।। इति।

महेश्वरोऽष्टमी। अष्टमीचतुर्द्दश्यौ शुक्ले। चैत्रश्रावणचतुर्द्दस्यौ शुक्ले अपि रात्रिव्यापिन्यौ ग्राह्ये। तथाच--

बौधायनः-

मधोः श्रावणमासस्य शुक्ला या तु चतुर्द्दशी।

सा रात्रिव्यापिनी ग्राह्या परा पूर्वाह्नगामिनी।। इति।

परा=मासान्तरगता।

निशि भ्रमन्ति भूतानि शक्तयः शूलभृत्! यतः।

अतस्तस्यां चतुर्द्दश्यां सत्यां तत्पूजनं भवेत्।।

इति हेमाद्रिलिखितवचनाच्च। भाद्रशुक्लचतुर्द्दसी तु त्रिमुहूर्त्तव्यापिनी। द्विमुहूर्त्तव्यापिन्यपि सूर्योदयव्यापिनी ग्राह्या। "दैवे ह्यौदयिकी ग्राह्या" इति वचानात्। "चतुर्द्दश्या च पूर्णिमा" इति युग्मवाक्याच्च। एवं सकलशिष्टाचारः। केचित्तु मध्याह्नव्यापिनी ग्राह्येत्याहुः। भविष्योत्तरवचनगतं च लिङ्गं प्रमाणमुपन्यस्यन्ति।

यथा--

मध्याह्ने भोज्यवेलायां समुत्तीर्य सरित्तटे।

ददर्श शीला सा स्त्रीणां समूहं रक्तवाससाम्।।

चतुर्द्दश्र्यामर्चयन्तं भक्त्या देवं पृथक्पृथक्।। इति।

तन्न। "मध्याह्ने पूजयेन्नृप" इति विनायकव्रतवत् अत्र विधायकाश्रवणात्। लिङ्गस्य च अर्थवादगतत्वात्, तदुपोद्बलकप्रमाणान्तरा दर्शनात्, "दैवे ह्यौदयिकी ग्राह्या" इति प्रत्यक्षवचनविरोधात् औदयिकी ग्राह्या न मध्याह्नगतेति सङ्क्षेपः। शिष्टा अपि औदयिक्यामेव व्रतमाचरन्ति। कृष्णचतुर्द्दशी तु पूर्वविद्धा ग्राह्या।

आपस्तम्बः--

कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्द्दशी।

पूर्वविद्धा तु कर्त्तव्या परविद्धा न कर्हिचित्।। इति।

यत्तु नारदीये--

अष्टम्येकादशी षष्ठी कृष्णपक्षे चतुर्द्दसी।

अमावास्या तृतीया च कर्त्तव्या परसंयुताः।। इति।

तथा ब्रह्नवैवर्त्ते,

चतुर्दशी दर्शयुक्ता पौर्णमास्या युता विभो!।

इति, तदुपवासविषयम्।

एकादश्यष्टमी षष्ठी उबे पक्षे चतुर्दसी।

अमावास्या तृतीया च ता उपोष्याः परान्विताः।।

इति पद्‌मपुराणीयविशेषवचनैकवाक्यत्वात् पूर्वोदाहृतवचनविरोधाच्च। उभे पक्षे=उभयपक्षगतेत्यर्थः। शिवव्रते तु पक्षद्वयगते चतुर्दश्यौ त्रयोदशीयुते अपराह्णव्यापिन्यौ ग्राह्ये। तथा च--

स्कन्दपुराणे,

चतुर्दशी तु कर्त्तव्या त्रयोदश्या युता विभो!।

मम भक्तैर्महाबाहो! भवेद्या चापराह्णिकी।।

दर्शविद्धा न कर्क्तव्या राकाविद्धा कदाचन। इति।

मम भक्तैरितीश्वरवचनात् लिङ्गात् तद्व्रतकिषयता ज्ञायते।

रुद्रव्रतेषु सर्वेषु कर्त्तव्या संमुखी तिथिः।

इति वचनाच्च। यदपि-

कृष्णपक्षेऽष्टमी चैव कृष्णपक्षे चतुर्दशी।

पूर्वविद्धा तु कर्त्तव्या परविद्धा न कर्हिचित्।।

उपवासादिकार्येषु ह्येष धर्म्मः सनातनः। इति,

तदपि रुद्रव्रतविषयम् पूर्वोदितवचनैकवाक्यतया। तदितरव्रतेषु "उभे पक्षे चतुर्दशी" इति प्रागुदाहृतपद्‌मपुराणात् तादृशवृद्धवशिष्ठवचनाच्च उत्तरविद्धा ग्राह्येति।

इति चतुर्द्दशीसामान्यनिर्णयः।

अथ नृसिंहचतुर्द्दंशीनिर्णयः।

सा च प्रदोषव्यापिनी ग्राह्या। तदुक्तं हेमाद्रौ नृसिंहपुराणे--

वैशाखे शुक्लपक्षे तु चतुर्दश्यां निशामुखे।।

मज्जन्मसम्भवं पुण्यं व्रतं पापप्रणाशनम्।

वर्षे बर्षे तु कर्त्तव्यं मम सन्तुष्टिकारणम्।।

दिनद्वये तद्‌व्याप्तौ अंशतः समव्याप्तौ वा परैव। विषमब्याप्तौ त्वधिकव्याप्तिमती। दिनद्वयेऽप्यव्याप्तौ परा। परदिने गौणव्याप्तेः सत्त्वात् पूर्वदिने च तदभावात्। यत्तु--

ततो मध्याह्नवेलायां नद्यादौ विमले जले।

इत्युपक्रम्य--

परिधाय ततो वासो व्रतकर्म्म समारभेत्।।

इति तत्रोक्तम्। तत् सङ्कल्परूपव्रतोपक्रमविषयं न तु प्रधानस्य मध्याह्नकालत्वज्ञापकम्। पूर्वोदाहृतवचनविरोधात्। इयं च योगविशेषेणातिप्रशस्ता।

स्वातीनक्षत्नयोगे च शनिवारे च मद्‌व्रतम्।

सिद्धियोगस्य संयोगे वणिजे करणे तथा।।

पुंसां सौभाग्ययोगेन लभ्यते दैवयोगतः।

एभिर्योगैर्विंनापि स्यात् मद्‌दिनं पापनाशनम्।।

इति तत्रैवोक्तेः। इदं च नृसिंहोपासकानामेव नित्यम्।

सर्वेषामेव वर्णानामाधिकारोऽस्ति मद्‌व्रते।

मद्भक्तैस्तु विशेषेण कर्त्तव्यं मत्परायणैः।।

इति तत्रैवोक्तेः।

इति नृसिंहजयन्तीनिर्णयः।

अथात्रैव प्रसह्गादन्या अपि जयन्त्योऽभिधीयन्ते। पुराणससुच्चये--

मत्स्योऽभूद्‌धुतभुग्दिने मधुसिते कूर्म्मो विधौ माधवे

वाराहो गिरिजासुते नभसि यद्‌भूते सिते माधवे।।

सिंहो भाद्रपदे सिते हरितिथौ श्रीवामनो माधवे

रामो गौरितिथावतः परमभूद्रामो नवम्यां मधोः।।

कृष्णोऽष्टम्यां नभसि सितपरे चाश्विने यद्‌दशम्यां

बुद्‌धः कल्की नभसि समभूच्छ्रुक्लषष्ठयां क्रमेण।।

अह्नो मध्ये वामनो रामरामौ

मत्स्यः क्रोडश्चापराह्णे विभागे।

कूर्म्मः सिंहो बौद्‌धकल्की च सायं

कृष्णो रात्रौ कालसाम्ये च पूर्वे।। इति।

इति जयन्तीनिर्णयः।

ज्येष्ठशुक्लचतुर्दश्यां सर्वस्मिन् दिने पञ्चाग्निसाधनं कृत्वा प्रदोषे हेमधेनुर्देया।

ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम्।

यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम्।।

इति मात्स्योक्तेः। कार्त्तिककृष्णचतुर्दशी दीपावली।

कार्त्तिके कृष्णपक्षे तु चतुर्दश्यां दिनोदये।

अवश्यमेव कर्त्तव्यं स्रानं नरकभीरुभिः।।

इति भाविष्योक्तेः। कार्त्तिकोऽत्र पूर्णिमान्तः। अत्र दिनोदय इति श्रवणात् प्रातःकालव्याप्तित्वमिति गौडाः। दाक्षिणात्यास्तु विधूदय इति पाठमाहुः। तन्मते चन्द्रोदयव्यापिनी ग्राह्या। दिनद्वये तद्‌व्याप्तौ तदव्याप्तौ वा पूर्वैव।

पूर्वविद्धचतुर्धश्यां कार्त्तिकस्य सितेतरे।

प्रत्यूषसमये स्नानं कुर्यात्तत्र प्रयत्नतः।।

इति पृष्वीचन्द्रोदयोदाहृतवचनात्। अस्यामेव च रात्रौ दीपदानं कार्यम्

ततः प्रदोषसमये दीपान् दद्यान् मनोहरान्।

इति वचनात्। कार्त्तिकशुक्लचतुर्द्दश्यां पाषाणचतुर्द्दशीव्रतम्।

कार्त्तिंके शुक्लपक्षे तु या पाषाणचतुर्द्दशी।

तस्यामाराधयेद्‌गौरीं नक्तं पाषाणभक्षकः।।

इति देवीपुराणोक्तेः। इयमेव वैकुण्ठचतुर्द्दशी। सा रात्रिव्यापिनी ग्राह्या।

कार्त्तिंकस्य सिते पक्षे चतुर्द्दश्यां नराधिप!।

सोपवासस्तु सम्पूज्य हरिं रात्रौ जितेन्द्रियः।।

इति भविष्योक्तेः। अस्या एव विश्वेश्वरप्रतिष्ठातिष्ठादिनत्वात् तत्प्रयुक्तपूजादावरुणोदयव्यापिनी ग्राह्या।

वर्षे च हेमलम्बाख्ये मासे श्रीमति कार्त्तिके।

शुक्लपक्षे चतुर्द्दश्यामरुणाभ्युदयं प्रति।।

महादेवतिथौ ब्राह्ने मुहुर्त्ते मणिकर्णिके।

स्नात्वा विश्वेरी देवी विश्वेश्वरमपूजयत्।।

इति सनत्कुमारसंहितोक्तेः। माघशुक्लचतुर्दशी आरटन्त्याख्या। सा अरुणोदयविद्धा ग्राह्या।

माघशुक्लचतुर्दश्यां विष्णोर्देहान्मरीचयः।

निश्चेरुस्तिलकाकाराः शतशोऽथ सहस्रशः।।

अनर्काभ्युदिते काले सत्सु तारांशुकेष्वपि।

राजा च तत्र सम्पूज्यो यमः प्रलयभास्करः।

इति ब्रह्नपुराणात्।

अथ शिवरात्रिनिर्णयः।

तत्स्वरूपं शिवरहस्ये--

तत्प्रभृत्यथ देवर्षे! माघकृष्णचतुर्दशी।

शिवरात्रिः समाख्याता प्रियेयं त्रिपुरद्विषः।। इति।

अत्र च रात्रिशब्दस्तिथिलक्षकः सिवशब्दश्च शिवव्रतलक्षकः प्रकरणात्। अतश्चायं शिवरात्रिशब्दो शिवव्रतविशेषयोग्यतिथिपरः।

स्कन्दपुराणे तु--

माघफाल्गुनयोर्मध्ये असिता या चतुर्दशी।

शिवरात्रिस्तु सा ख्याता सर्वयज्ञोत्तमोत्तमा।। इति।

यत्तु भविष्यपुराणे--

चतुर्दश्यां तु कृष्णायां फाल्गुने शिवपूजनम्।

तामुपोष्य प्रयत्नेन विषयान् परिवर्जयेत्।। इति।

तत् पौर्णमासान्तमासाभिप्रायं पूर्वोदाहृतवचनैकवाक्यत्वात्। तदेतत् शिवरात्रिव्रतमुपवासपूजाजागरणात्मकं ज्ञेयम्।

तथा च नागरखण्डे--

उपवासप्रभावेण बलादपि च जागरात्।

शिवरात्रेस्तथा तस्यां लिङ्गस्यापि प्रपूजया।।

अक्षयान् लभते भोगान् शिवसायुज्यमाप्नुयात्।

तथा सह्यखण्डे--

स्वयं च लिङ्गमभ्यर्च्य सोपवासः सजागरः।

अजानन्नपि निष्पापो निषादो गणतां गतः।। इति।

ब्रह्नपुराणे--

माघे कृष्णचतुर्दश्यां कर्त्तव्यं व्रतमुत्तमम्।

उपोषितो वरारोहे! चतुर्दश्र्यां वरानने!।

इत्याद्यभिधाय प्रतिप्रहरं पूजाजागरणाद्युक्तम्।।

तथा स्कान्दे--

कृष्णपक्षे चतुर्दश्यां न कञ्चिन्मृगमाप्तवान्।

अण्वपि प्राणयात्रार्थं क्षुधासम्पीण्डितोऽवसत्।।

इत्याद्युक्त्वा--

धनुष्कोट्या हतान्येव बिल्वपत्राणि मानद!।

पिततानि महाराज! शम्भोः शिरसि भूतले।।

तत्रैव तस्थौ राजेन्द्र! सर्वरात्रमतन्द्रितः।

रात्रिशेषं स्थितो व्याधः स्तब्धदृष्टिरनामिषः।।

प्रभाते विमले जाते दृष्ट्वा तत्रैव शङ्करम्।

बिल्वपत्रैर्नरश्रेष्ठ! कन्दमूलैश्च पारितः।। इति।

यत्तु व्कचित् एकस्य द्वयोर्वा श्रवणम्।

यथा,

अथवा शिवरात्रिं तु पूजाजागरणैर्नयेत्। इति।

तथापि अथवेत्यनुकल्पोपक्रमेणाशक्तविषयतयोपपाद्यम्। एवमन्यत्रापि--

अखण्डितव्रतो यो हि शिवरात्रिमुपोषयेत्।

सर्वान् कामानवाप्नोति शिवेन सह मोदते।।

तथान्यत्र--

कश्चित् पूण्यविशेषेण जलहीनोऽपि यः पुमान्।

जागरं कुरुते तत्र स रुद्रसमतां व्रजेत्।।

इत्यादीनि तानि अशक्तविषयाणि। तदेतत् शिवरात्रिव्रतं जन्माष्टमीवत् संयोगमपृथक्‌त्वन्यायेन नित्यं काम्यं च तत्र नित्यत्वं तावत् स्कन्दपूराणे--

परात्पतरं नास्ति शिवरात्रिः परात्परम्।

न पूजयति भक्त्येशं रुद्रं त्रिभुवनेश्वरम्।।

जन्तुर्जन्मसहस्रेण भ्रमते नात्र संशयः।

इत्यकरणे प्रत्यवायश्रवणात्।

वर्षे वर्षे महादेवि! नरो नारी पतिव्रता।

शिवरात्रौ महादेवं कामं भत्त्या प्रपूजयेत्।।

इति वीप्साश्रुतेः,

अर्णवो यदि वा शुष्येत् क्षीयेत हिमवानपि।

मेरुमन्दरलङ्काश्च श्रीशैलो विन्ध्य एव च।।



एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

डिजिटल दीमक और बिखरता समाज (The Modern Crisis)

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें