अनभिख्यातदोषस्तु रहस्यं व्रतं आचरेत् । । ३.३०० । । |
त्रिरात्रोपोषितो जप्त्वा ब्रह्महा त्वघमर्षणम् । अन्तर्जले विशुध्येत दत्त्वा गां च पयस्विनाम् । । ३.३०१ । । |
लोमभ्यः स्वाहेत्यथ वा दिवसं मारुताशनः । जले स्थित्वाभिजुहुयाच्चत्वारिंशद्घृताहुतीः । । ३.३०२ । । |
त्रिरात्रोपोषितो हुत्वा कूष्माण्डीभिर्घृतं शुचिः । ब्राह्मणस्वर्णहारी तु रुद्रजापी जले स्थितः । । ३.३०३ । । |
सहस्रशीर्षाजापी तु मुच्यते गुरुतल्पगः । गौर्देया कर्मणोऽस्यान्ते पृथगेभिः पयस्विनी । । ३.३०४ । । |
प्राणायामशतं कार्यं सर्वपापापनुत्तये । उपपातकजातानां अनादिष्टस्य चैव हि । । ३.३०५ । । |
ओंकाराभिष्टुतं सोम सलिलं पावनं पिबेत् । कृत्वा हि रेतोविण्मूत्र प्राशनं तु द्विजोत्तमः । । ३.३०६ । । |
निशायां वा दिवा वापि यदज्ञानकृतं भवेत् । त्रैकाल्यसंध्याकरणात्तत्सर्वं विप्रणश्यति । । ३.३०७ । । |
शुक्रियारण्यकजपो गायत्र्याश्च विशेषतः । सर्वपापहरा ह्येते रुद्रैकादशिनी तथा । । ३.३०८ । । |
यत्र यत्र च संकीर्णं आत्मानं मन्यते द्विजः । तत्र तत्र तिलैर्होमो गायत्र्या वाचनं तथा । । ३.३०९ । । |
वेदाभ्यासरतं क्षान्तं पञ्चयज्ञक्रियापरम् । न स्पृशन्तीह पापानि महापातकजान्यपि । । ३.३१० । । |
वायुभक्षो दिवा तिष्ठन्रात्रिं नीत्वाप्सु सूर्यदृक् । जप्त्वा सहस्रं गायत्र्याः शुध्येद्ब्रह्मवधादृते । । ३.३११ । । |
ब्रह्मचर्यं दया क्षान्तिर्दानं सत्यं अकल्कता । अहिंसा स्तेयमाधुर्ये दमश्चेति यमाः स्मृताः । । ३.३१२ । । |
स्नानं मौनोपवासेज्या स्वाध्यायोपस्थनिग्रहाः । नियमा गुरुशुश्रूषा शौचाक्रोधाप्रमादता । । ३.३१३ । । |
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । जग्ध्वा परेऽह्न्युपवसेत्कृच्छ्रं सान्तपनं चरेत् । । ३.३१४ । । |
पृथक्सान्तपनद्रव्यैः षडहः सोपवासकः । सप्ताहेन तु कृच्छ्रोऽयं महासान्तपनः स्मृतः । । ३.३१५ । । |
पर्णोदुम्बरराजीव बिल्वपत्रकुशोदकैः । प्रत्येकं प्रत्यहं पीतैः पर्णकृच्छ्र उदाहृतः । । ३.३१६ । । |
तप्तक्षीरघृताम्बूनां एकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः । । ३.३१७ । । |
एकभक्तेन नक्तेन तथैवायाचितेन च । उपवासेन चैवायं पादकृच्छ्रः प्रकीर्तितः । । ३.३१८ । । |
यथाकथंचित्त्रिगुणः प्राजापत्योऽयं उच्यते । अयं एवातिकृच्छ्रः स्यात्पाणिपूरान्नभोजनः । । ३.३१९ । । |
कृच्छ्रातिकृच्छ्रः पयसा दिवसानेकविंशतिम् । द्वादशाहोपवासेन पराकः परिकीर्तितः । । ३.३२० । । |
पिण्याकाचामतक्राम्बु सक्तूनां प्रतिवासरम् । एकरात्रोपवासश्च कृच्छ्रः सौम्योऽयं उच्यते । । ३.३२१ । । |
एषां त्रिरात्रं अभ्यासादेकैकस्य यथाक्रमम् । तुलापुरुष इत्येष ज्ञेयः पञ्चदशाहिकः । । ३.३२२ । । |
तिथिवृद्ध्या चरेत्पिण्डान्शुक्ले शिख्यण्डसम्मितान् । एकैकं ह्रासयेत्कृष्ने पिण्डं चान्द्रायणं चरन् । । ३.३२३ । । |
यथाकथंचित्पिण्डानां चत्वारिंशच्छतद्वयम् । मासेनैवोपभुञ्जीत चान्द्रायणं अथापरम् । । ३.३२४ । । |
कुर्यात्त्रिषवणस्नायी कृच्छ्रं चान्द्रायणं तथा । पवित्राणि जपेत्पिण्डान्गायत्र्या चाभिमन्त्रयेत् । । ३.३२५ । । |
अनादिष्टेषु पापेषु शुद्धिश्चान्द्रायणेन च । धर्मार्थं यश्चरेदेतच्चन्द्रस्यैति सलोकताम् । । ३.३२६ । । |
कृच्छ्रकृद्धर्मकामस्तु महतीं श्रियं आप्नुयात् । यथा गुरुक्रतुफलं प्राप्नोति सुसमाहितः । । ३.३२७ । । |
श्रुत्वैतानृषयो धर्मान्याज्ञवल्क्येन भाषितान् । इदं ऊचुर्महात्मानं योगीन्द्रं अमितौजसम् । । ३.३२८ । । |
य इदं धारयिष्यन्ति धर्मशास्त्रं अतन्द्रिताः । इह लोके यशः प्राप्य ते यास्यन्ति त्रिविष्टपम् । । ३.३२९ । । |
विद्यार्थी प्राप्नुयाद्विद्यां धनकामो धनं तथा । आयुष्कामस्तथैवायुः श्रीकामो महतीं श्रियम् । । ३.३३० । । |
श्लोकत्रयं अपि ह्यस्माद्यः श्राद्धे श्रावयिष्यति । पितॄणां तस्य तृप्तिः स्यादक्षय्या नात्र संशयः । । ३.३३१ । । |
ब्राह्मणः पात्रतां याति क्षत्रियो विजयी भवेत् । वैश्यश्च धान्यधनवानस्य शास्त्रस्य धारणात् । । ३.३३२ । । |
य इदं श्रावयेद्विद्वान्द्विजान्पर्वसु पर्वसु । अश्वमेधफलं तस्य तद्भवाननुमन्यताम् । । ३.३३३ । । |
श्रुत्वैतद्याज्ञवक्ल्योऽपि प्रीतात्मा मुनिभाषितम् । एवं अस्त्विति होवाच नमस्कृत्य स्वयंभुवे । । ३.३३४ । । |
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know