मनुं एकाग्रं आसीनं अभिगम्य महर्षयः । प्रतिपूज्य यथान्यायं इदं वचनं अब्रुवन् । । १.१ । । |
भगवन्सर्ववर्णानां यथावदनुपूर्वशः । अन्तरप्रभवानां च धर्मान्नो वक्तुं अर्हसि । । १.२ । । |
त्वं एको ह्यस्य सर्वस्य विधानस्य स्वयंभुवः । अचिन्त्यस्याप्रमेयस्य कार्यतत्त्वार्थवित्प्रभो । । १.३ । । |
स तैः पृष्टस्तथा सम्यगमितौजा महात्मभिः । प्रत्युवाचार्च्य तान्सर्वान्महर्षीञ् श्रूयतां इति । । १.४ । । |
आसीदिदं तमोभूतं अप्रज्ञातं अलक्षणम् । अप्रतर्क्यं अविज्ञेयं प्रसुप्तं इव सर्वतः । । १.५ । । |
ततः स्वयंभूर्भगवानव्यक्तो व्यञ्जयन्निदम् । महाभूतादि वृत्तौजाः प्रादुरासीत्तमोनुदः । । १.६ । । |
योऽसावतीन्द्रियग्राह्यः सूक्ष्मोऽव्यक्तः सनातनः । सर्वभूतमयोऽचिन्त्यः स एव स्वयं उद्बभौ । । १.७ । । |
सोऽभिध्याय शरीरात्स्वात्सिसृक्षुर्विविधाः प्रजाः । अप एव ससर्जादौ तासु वीर्यं अवासृजत् । । १.८ । । |
तदण्डं अभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिञ् जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । । १.९ । । |
आपो नारा इति प्रोक्ता आपो वै नरसूनवः । ता यदस्यायनं पूर्वं तेन नारायणः स्मृतः । । १.१० । । |
यत्तत्कारणं अव्यक्तं नित्यं सदसदात्मकम् । तद्विसृष्टः स पुरुषो लोके ब्रह्मेति कीर्त्यते । । १.११ । । |
तस्मिन्नण्डे स भगवानुषित्वा परिवत्सरम् । स्वयं एवात्मनो ध्यानात्तदण्डं अकरोद्द्विधा । । १.१२ । । |
ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे । मध्ये व्योम दिशश्चाष्टावपां स्थानं च शाश्वतम् । । १.१३ । । |
उद्बबर्हात्मनश्चैव मनः सदसदात्मकम् । मनसश्चाप्यहंकारं अभिमन्तारं ईश्वरम् । । १.१४ । । |
महान्तं एव चात्मानं सर्वाणि त्रिगुणानि च । विषयाणां ग्रहीतॄणि शनैः पञ्चेन्द्रियाणि च । । १.१५ । । |
तेषां त्ववयवान्सूक्ष्मान्षण्णां अप्यमितौजसाम् । संनिवेश्यात्ममात्रासु सर्वभूतानि निर्ममे । । १.१६ । । |
यन्मूर्त्यवयवाः सूक्ष्मास्तानीमान्याश्रयन्ति षट् । तस्माच्छरीरं इत्याहुस्तस्य मूर्तिं मनीषिणः । । १.१७ । । |
तदाविशन्ति भूतानि महान्ति सह कर्मभिः । मनश्चावयवैः सूक्ष्मैः सर्वभूतकृदव्ययम् । । १.१८ । । |
तेषां इदं तु सप्तानां पुरुषाणां महौजसाम् । सूक्ष्माभ्यो मूर्तिमात्राभ्यः संभवत्यव्ययाद्व्ययम् । । १.१९ । । |
आद्याद्यस्य गुणं त्वेषां अवाप्नोति परः परः । यो यो यावतिथश्चैषां स स तावद्गुणः स्मृतः । । १.२० । । |
सर्वेषां तु स नामानि कर्माणि च पृथक्पृथक् । वेदशब्देभ्य एवादौ पृथक्संस्थाश्च निर्ममे । । १.२१ । । |
कर्मात्मनां च देवानां सोऽसृजत्प्राणिनां प्रभुः । साध्यानां च गणं सूक्ष्मं यज्ञं चैव सनातनम् । । १.२२ । । |
अग्निवायुरविभ्यस्तु त्रयं ब्रह्म सनातनम् । दुदोह यज्ञसिद्ध्यर्थं ऋग्यजुःसामलक्षणम् । । १.२३ । । |
कालं कालविभक्तीश्च नक्षत्राणि ग्रहांस्तथा । सरितः सागराञ् शैलान्समानि विषमानि च । । १.२४ । । |
तपो वाचं रतिं चैव कामं च क्रोधं एव च । सृष्टिं ससर्ज चैवेमां स्रष्टुं इच्छन्निमाः प्रजाः । । १.२५ । । |
कर्मणां च विवेकार्थं धर्माधर्मौ व्यवेचयत् । द्वन्द्वैरयोजयच्चेमाः सुखदुःखादिभिः प्रजाः । । १.२६ । । |
अण्व्यो मात्रा विनाशिन्यो दशार्धानां तु याः स्मृताः । ताभिः सार्धं इदं सर्वं संभवत्यनुपूर्वशः । । १.२७ । । |
यं तु कर्मणि यस्मिन्स न्ययुङ्क्त प्रथमं प्रभुः । स तदेव स्वयं भेजे सृज्यमानः पुनः पुनः । । १.२८ । । |
हिंस्राहिंस्रे मृदुक्रूरे धर्माधर्मावृतानृते । यद्यस्य सोऽदधात्सर्गे तत्तस्य स्वयं आविशत् । । १.२९ । । |
यथा र्तुलिङ्गान्यृतवः स्वयं एव र्तुपर्यये । स्वानि स्वान्यभिपद्यन्ते तथा कर्माणि देहिनः । । १.३० । । |
लोकानां तु विवृद्ध्यर्थं मुखबाहूरुपादतः । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं च निरवर्तयत् । । १.३१ । । |
द्विधा कृत्वात्मनो देहं अर्धेन पुरुषोऽभवत् । अर्धेन नारी तस्यां स विराजं असृजत्प्रभुः । । १.३२ । । |
तपस्तप्त्वासृजद्यं तु स स्वयं पुरुषो विराट् । तं मां वित्तास्य सर्वस्य स्रष्टारं द्विजसत्तमाः । । १.३३ । । |
अहं प्रजाः सिसृक्षुस्तु तपस्तप्त्वा सुदुश्चरम् । पतीन्प्रजानां असृजं महर्षीनादितो दश । । १.३४ । । |
मरीचिं अत्र्यङ्गिरसौ पुलस्त्यं पुलहं क्रतुम् । प्रचेतसं वसिष्ठं च भृगुं नारदं एव च । । १.३५ । । |
एते मनूंस्तु सप्तान्यानसृजन्भूरितेजसः । देवान्देवनिकायांश्च महर्षींश्चामितौजसः । । १.३६ । । |
यक्षरक्षःपिशाचांश्च गन्धर्वाप्सरसोऽसुरान् । नागान्सर्पान्सुपर्णांश्च पितॄणांश्च पृथग्गणम् । । १.३७ । । |
विद्युतोऽशनिमेघांश्च रोहितेन्द्रधनूंषि च । उल्कानिर्घातकेतूंश्च ज्योतींष्युच्चावचानि च । । १.३८ । । |
किन्नरान्वानरान्मत्स्यान्विविधांश्च विहङ्गमान् । पशून्मृगान्मनुष्यांश्च व्यालांश्चोभयतोदतः । । १.३९ । । |
कृमिकीटपतङ्गांश्च यूकामक्षिकमत्कुणम् । सर्वं च दंशमशकं स्थावरं च पृथग्विधम् । । १.४० । । |
एवं एतैरिदं सर्वं मन्नियोगान्महात्मभिः । यथाकर्म तपोयोगात्सृष्टं स्थावरजङ्गमम् । । १.४१ । । |
येषां तु यादृषं कर्म भूतानां इह कीर्तितम् । तत्तथा वोऽभिधास्यामि क्रमयोगं च जन्मनि । । १.४२ । । |
पशवश्च मृगाश्चैव व्यालाश्चोभयतोदतः । रक्षांसि च पिशाचाश्च मनुष्याश्च जरायुजाः । । १.४३ । । |
अण्डाजाः पक्षिणः सर्पा नक्रा मत्स्याश्च कच्छपाः । यानि चैवंः प्रकाराणि स्थलजान्यौदकानि च । । १.४४ । । |
स्वेदजं दंशमशकं यूकामक्षिकमत्कुणम् । ऊष्मणश्चोपजायन्ते यच्चान्यत्किं चिदीदृषम् । । १.४५ । । |
उद्भिज्जाः स्थावराः सर्वे बीजकाण्डप्ररोहिणः । ओषध्यः फलपाकान्ता बहुपुष्पफलोपगाः । । १.४६ । । |
अपुष्पाः फलवन्तो ये ते वनस्पतयः स्मृताः । पुष्पिणः फलिनश्चैव वृक्षास्तूभयतः स्मृताः । । १.४७ । । |
गुच्छगुल्मं तु विविधं तथैव तृणजातयः । बीजकाण्डरुहाण्येव प्रताना वल्ल्य एव च । । १.४८ । । |
तमसा बहुरूपेण वेष्टिताः कर्महेतुना । अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः । । १.४९ । । |
एतदन्तास्तु गतयो ब्रह्माद्याः समुदाहृताः । घोरेऽस्मिन्भूतसंसारे नित्यं सततयायिनि । । १.५० । । |
एवं सर्वं स सृष्ट्वेदं मां चाचिन्त्यपराक्रमः । आत्मन्यन्तर्दधे भूयः कालं कालेन पीडयन् । । १.५१ । । |
यदा स देवो जागर्ति तदेवं चेष्टते जगत् । यदा स्वपिति शान्तात्मा तदा सर्वं निमीलति । । १.५२ । । |
तस्मिन्स्वपिति तु स्वस्थे कर्मात्मानः शरीरिणः । स्वकर्मभ्यो निवर्तन्ते मनश्च ग्लानिं ऋच्छति । । १.५३ । । |
युगपत्तु प्रलीयन्ते यदा तस्मिन्महात्मनि । तदायं सर्वभूतात्मा सुखं स्वपिति निर्वृतः । । १.५४ । । |
तमोऽयं तु समाश्रित्य चिरं तिष्ठति सेन्द्रियः । न च स्वं कुरुते कर्म तदोत्क्रामति मूर्तितः । । १.५५ । । |
यदाणुमात्रिको भूत्वा बीजं स्थास्नु चरिष्णु च । समाविशति संसृष्टस्तदा मूर्तिं विमुञ्चति । । १.५६ । । |
एवं स जाग्रत्स्वप्नाभ्यां इदं सर्वं चराचरम् । संजीवयति चाजस्रं प्रमापयति चाव्ययः । । १.५७ । । |
इदं शास्त्रं तु कृत्वासौ मां एव स्वयं आदितः । विधिवद्ग्राहयां आस मरीच्यादींस्त्वहं मुनीन् । । १.५८ । । |
एतद्वोऽयं भृगुः शास्त्रं श्रावयिष्यत्यशेसतः । एतद्धि मत्तोऽधिजगे सर्वं एषोऽखिलं मुनिः । । १.५९ । । |
ततस्तथा स तेनोक्तो महर्षिमनुना भृगुः । तानब्रवीदृषीन्सर्वान्प्रीतात्मा श्रूयतां इति । । १.६० । । |
स्वायंभुवस्यास्य मनोः षड्वंश्या मनवोऽपरे । सृष्टवन्तः प्रजाः स्वाः स्वा महात्मानो महौजसः । । १.६१ । । |
स्वारोचिषश्चोत्तमश्च तामसो रैवतस्तथा । चाक्षुषश्च महातेजा विवस्वत्सुत एव च । । १.६२ । । |
स्वायंभुवाद्याः सप्तैते मनवो भूरितेजसः । स्वे स्वेऽन्तरे सर्वं इदं उत्पाद्यापुश्चराचरम् । । १.६३ । । |
निमेषा दश चाष्टौ च काष्ठा त्रिंशत्तु ताः कला । त्रिंशत्कला मुहूर्तः स्यादहोरात्रं तु तावतः । । १.६४ । । |
अहोरात्रे विभजते सूर्यो मानुषदैविके । रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणां अहः । । १.६५ । । |
पित्र्ये रात्र्यहनी मासः प्रविभागस्तु पक्षयोः । कर्मचेष्टास्वहः कृष्णः शुक्लः स्वप्नाय शर्वरी । । १.६६ । । |
दैवे रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः । अहस्तत्रोदगयनं रात्रिः स्याद्दक्षिणायनम् । । १.६७ । । |
ब्राह्मस्य तु क्षपाहस्य यत्प्रमाणं समासतः । एकैकशो युगानां तु क्रमशस्तन्निबोधत । । १.६८ । । |
चत्वार्याहुः सहस्राणि वर्साणां तत्कृतं युगम् । तस्य तावच्छती संध्या संध्यांशश्च तथाविधः । । १.६९ । । |
इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु । एकापायेन वर्तन्ते सहस्राणि शतानि च । । १.७० । । |
यदेतत्परिसंख्यातं आदावेव चतुर्युगम् । एतद्द्वादशसाहस्रं देवानां युगं उच्यते । । १.७१ । । |
दैविकानां युगानां तु सहस्रं परिसंख्यया । ब्राह्मं एकं अहर्ज्ञेयं तावतीं रात्रिं एव च । । १.७२ । । |
तद्वै युगसहस्रान्तं ब्राह्मं पुण्यं अहर्विदुः । रात्रिं च तावतीं एव तेऽहोरात्रविदो जनाः । । १.७३ । । |
तस्य सोऽहर्निशस्यान्ते प्रसुप्तः प्रतिबुध्यते । प्रतिबुद्धश्च सृजति मनः सदसदात्मकम् । । १.७४ । । |
मनः सृष्टिं विकुरुते चोद्यमानं सिसृक्षया । आकाशं जायते तस्मात्तस्य शब्दं गुणं विदुः । । १.७५ । । |
आकाशात्तु विकुर्वाणात्सर्वगन्धवहः शुचिः । बलवाञ् जायते वायुः स वै स्पर्शगुणो मतः । । १.७६ । । |
वायोरपि विकुर्वाणाद्विरोचिष्णु तमोनुदम् । ज्योतिरुत्पद्यते भास्वत्तद्रूपगुणं उच्यते । । १.७७ । । |
ज्योतिषश्च विकुर्वाणादापो रसगुणाः स्मृताः । अद्भ्यो गन्धगुणा भूमिरित्येषा सृष्टिरादितः । । १.७८ । । |
यद्प्राग्द्वादशसाहस्रं उदितं दैविकं युगम् । तदेकसप्ततिगुणं मन्वन्तरं इहोच्यते । । १.७९ । । |
मन्वन्तराण्यसंख्यानि सर्गः संहार एव च । क्रीडन्निवैतत्कुरुते परमेष्ठी पुनः पुनः । । १.८० । । |
चतुष्पात्सकलो धर्मः सत्यं चैव कृते युगे । नाधर्मेणागमः कश्चिन्मनुष्यान्प्रति वर्तते । । १.८१ । । |
इतरेष्वागमाद्धर्मः पादशस्त्ववरोपितः । चौरिकानृतमायाभिर्धर्मश्चापैति पादशः । । १.८२ । । |
अरोगाः सर्वसिद्धार्थाश्चतुर्वर्षशतायुषः । कृते त्रेतादिषु ह्येषां आयुर्ह्रसति पादशः । । १.८३ । । |
वेदोक्तं आयुर्मर्त्यानां आशिषश्चैव कर्मणाम् । फलन्त्यनुयुगं लोके प्रभावश्च शरीरिणाम् । । १.८४ । । |
अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे । अन्ये कलियुगे नॄणां युगह्रासानुरूपतः । । १.८५ । । |
तपः परं कृतयुगे त्रेतायां ज्ञानं उच्यते । द्वापरे यज्ञं एवाहुर्दानं एकं कलौ युगे । । १.८६ । । |
सर्वस्यास्य तु सर्गस्य गुप्त्यर्थं स महाद्युतिः । मुखबाहूरुपज्जानां पृथक्कर्माण्यकल्पयत् । । १.८७ । । |
अध्यापनं अध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहं चैव ब्राह्मणानां अकल्पयत् । । १.८८ । । |
प्रजानां रक्षणं दानं इज्याध्ययनं एव च । विषयेष्वप्रसक्तिश्च क्षत्रियस्य समासतः । । १.८९ । । |
पशूनां रक्षणं दानं इज्याध्ययनं एव च । वणिक्पथं कुसीदं च वैश्यस्य कृषिं एव च । । १.९० । । |
एकं एव तु शूद्रस्य प्रभुः कर्म समादिशत् । एतेषां एव वर्णानां शुश्रूषां अनसूयया । । १.९१ । । |
ऊर्ध्वं नाभेर्मेध्यतरः पुरुषः परिकीर्तितः । तस्मान्मेध्यतमं त्वस्य मुखं उक्तं स्वयंभुवा । । १.९२ । । |
उत्तमाङ्गोद्भवाज्ज्येष्ठ्याद्ब्रह्मणश्चैव धारणात् । सर्वस्यैवास्य सर्गस्य धर्मतो ब्राह्मणः प्रभुः । । १.९३ । । |
तं हि स्वयंभूः स्वादास्यात्तपस्तप्त्वादितोऽसृजत् । हव्यकव्याभिवाह्याय सर्वस्यास्य च गुप्तये । । १.९४ । । |
यस्यास्येन सदाश्नन्ति हव्यानि त्रिदिवौकसः । कव्यानि चैव पितरः किं भूतं अधिकं ततः । । १.९५ । । |
भूतानां प्राणिनः श्रेष्ठाः प्राणिनां बुद्धिजीविनः । बुद्धिमत्सु नराः श्रेष्ठा नरेषु ब्राह्मणाः स्मृताः । । १.९६ । । |
ब्राह्मणेषु च विद्वांसो विद्वत्सु कृतबुद्धयः । कृतबुद्धिषु कर्तारः कर्तृषु ब्रह्मवेदिनः । । १.९७ । । |
उत्पत्तिरेव विप्रस्य मूर्तिर्धर्मस्य शाश्वती । स हि धर्मार्थं उत्पन्नो ब्रह्मभूयाय कल्पते । । १.९८ । । |
ब्राह्मणो जायमानो हि पृथिव्यां अधिजायते । ईश्वरः सर्वभूतानां धर्मकोशस्य गुप्तये । । १.९९ । । |
सर्वं स्वं ब्राह्मणस्येदं यत्किं चिज्जगतीगतम् । श्रैष्ठ्येनाभिजनेनेदं सर्वं वै ब्राह्मणोऽर्हति । । १.१०० । । |
स्वं एव ब्राह्मणो भुङ्क्ते स्वं वस्ते स्वं ददाति च । आनृशंस्याद्ब्राह्मणस्य भुञ्जते हीतरे जनाः । । १.१०१ । । |
तस्य कर्मविवेकार्थं शेषाणां अनुपूर्वशः । स्वायंभुवो मनुर्धीमानिदं शास्त्रं अकल्पयत् । । १.१०२ । । |
विदुषा ब्राह्मणेनेदं अध्येतव्यं प्रयत्नतः । शिश्येभ्यश्च प्रवक्तव्यं सम्यङ्नान्येन केन चित् । । १.१०३ । । |
इदं शास्त्रं अधीयानो ब्राह्मणः शंसितव्रतः । मनोवाग्गेहजैर्नित्यं कर्मदोषैर्न लिप्यते । । १.१०४ । । |
पुनाति पङ्क्तिं वंश्यांश्च सप्तसप्त परावरान् । पृथिवीं अपि चैवेमां कृत्स्नां एकोऽपि सोऽर्हति । । १.१०५ । । |
इदं स्वस्त्ययनं श्रेष्ठं इदं बुद्धिविवर्धनम् । इदं यशस्यं आयुष्यं इदं निःश्रेयसं परम् । । १.१०६ । । |
अस्मिन्धर्मोऽखिलेनोक्तो गुणदोषौ च कर्मणाम् । चतुर्णां अपि वर्णानां आचारश्चैव शाश्वतः । । १.१०७ । । |
आचारः परमो धर्मः श्रुत्युक्तः स्मार्त एव च । तस्मादस्मिन्सदा युक्तो नित्यं स्यादात्मवान्द्विजः । । १.१०८ । । |
आचाराद्विच्युतो विप्रो न वेदफलं अश्नुते । आचारेण तु संयुक्तः सम्पूर्णफलभाग्भवेत् । । १.१०९ । । |
एवं आचारतो दृष्ट्वा धर्मस्य मुनयो गतिम् । सर्वस्य तपसो मूलं आचारं जगृहुः परम् । । १.११० । । |
जगतश्च समुत्पत्तिं संस्कारविधिं एव च । व्रतचर्योपचारं च स्नानस्य च परं विधिम् । । १.१११ । । |
दाराधिगमनं चैव विवाहानां च लक्षणम् । महायज्ञविधानं च श्राद्धकल्पं च शाश्वतम् । । १.११२ । । |
वृत्तीनां लक्षणं चैव स्नातकस्य व्रतानि च । भक्ष्याभक्ष्यं च शौचं च द्रव्याणां शुद्धिं एव च । । १.११३ । । |
स्त्रीधर्मयोगं तापस्यं मोक्षं संन्यासं एव च । राज्ञश्च धर्मं अखिलं कार्याणां च विनिर्णयम् । । १.११४ । । |
साक्षिप्रश्नविधानं च धर्मं स्त्रीपुंसयोरपि । विभागधर्मं द्यूतं च कण्टकानां च शोधनम् । । १.११५ । । |
वैश्यशूद्रोपचारं च संकीर्णानां च संभवम् । आपद्धर्मं च वर्णानां प्रायश्चित्तविधिं तथा । । १.११६ । । |
संसारगमनं चैव त्रिविधं कर्मसंभवम् । निःश्रेयसं कर्मणां च गुणदोषपरीक्षणम् । । १.११७ । । |
देशधर्माञ् जातिधर्मान्कुलधर्मांश्च शाश्वतान् । पाषण्डगणधर्मांश्च शास्त्रेऽस्मिन्नुक्तवान्मनुः । । १.११८ । । |
यथेदं उक्तवाञ् शास्त्रं पुरा पृष्टो मनुर्मया । तथेदं यूयं अप्यद्य मत्सकाशान्निबोधत । । १.११९ । । |
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know