ग्राहकैर्गृह्यते चौरो लोप्त्रेणाथ पदेन वा । पूर्वकर्मापराधी च तथा चाशुद्धवासकः । । २.२६६ । । |
अन्येऽपि शङ्कया ग्राह्या जातिनामादिनिह्नवैः । द्यूतस्त्रीपानसक्ताश्च शुष्कभिन्नमुखस्वराः । । २.२६७ । । |
परद्रव्यगृहाणां च पृच्छका गूढचारिणः । निराया व्ययवन्तश्च विनष्टद्रव्यविक्रयाः । । २.२६८ । । |
गृहीतः शङ्कया चौर्ये नात्मानं चेद्विशोधयेत् । दापयित्वा हृतं द्रव्यं चौरदण्डेन दण्डयेत् । । २.२६९ । । |
चौरं प्रदाप्यापहृतं घातयेद्विविधैर्वधैः । सचिह्नं ब्राह्मणं कृत्वा स्वराष्ट्राद्विप्रवासयेत् । । २.२७० । । |
घातितेऽपहृते दोषो ग्रामभर्तुरनिर्गते । विवीतभर्तुस्तु पथि चौरोद्धर्तुरवीतके । । २.२७१ । । |
स्वसींनि दद्याद्ग्रामस्तु पदं वा यत्र गच्छति । पञ्चग्रामी बहिः क्रोशाद्दशग्राम्यथ वा पुनः । । २.२७२ । । |
बन्दिग्राहांस्तथा वाजि कुञ्जराणां च हारिणः । प्रसह्यघातिनश्चैव शूलानारोपयेन्नरान् । । २.२७३ । । |
उत्क्षेपकग्रन्थिभेदौ करसंदंशहीनकौ । कार्यौ द्वितीयापराधे करपादैकहीनकौ । । २.२७४ । । |
क्षुद्रमध्यमहाद्रव्य हरणे सारतो दमः । देशकालवयःशक्ति संचिन्त्यं दण्डकर्मणि । । २.२७५ । । |
भक्तावकाशाग्न्युदक मन्त्रोपकरणव्ययान् । दत्त्वा चौरस्य वा हन्तुर्जानतो दम उत्तमः । । २.२७६ । । |
शस्त्रावपाते गर्भस्य पातने चोत्तमो दमः । उत्तमो वाधमो वापि पुरुषस्त्रीप्रमापणे । । २.२७७ । । |
विप्रदुष्टां स्त्रियं चैव पुरुषघ्नीं अगर्भिणीम् । सेतुभेदकरीं चाप्सु शिलां बद्ध्वा प्रवेशयेत् । । २.२७८ । । |
विषाग्निदां पतिगुरु निजापत्यप्रमापणीम् । विकर्णकरनासौष्ठीं कृत्वा गोभिः प्रमापयेत् । । २.२७९ । । |
अविज्ञातहतस्याशु कलहं सुतबान्धवाः । प्रष्टव्या योषितश्चास्य परपुंसि रताः पृथक् । । २.२८० । । |
स्त्रीद्रव्यवृत्तिकामो वा केन वायं गतः सह । मृत्युदेशसमासन्नं पृच्छेद्वापि जनं शनैः । । २.२८१ । । |
क्षेत्रवेश्मवनग्राम विवीतखलदाहकाः । राजपत्न्यभिगामी च दग्धव्यास्तु कटाग्निना । । २.२८२ । । |
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know