सत्यासत्यान्यथास्तोत्रैर्न्यूनाङ्गेन्द्रियरोगिणाम् । क्षेपं करोति चेद्दण्ड्यः पणानर्धत्रयोदशान् । । २.२०४ । । |
अभिगन्तास्मि भगिनीं मातरं वा तवेति ह । शपन्तं दापयेद्राजा पञ्चविंशतिकं दमम् । । २.२०५ । । |
अर्धोऽधर्मेषु द्विगुणः परस्त्रीषूत्तमेषु च । दण्डप्रणयनं कार्यं वर्णजात्युत्तराधरैः । । २.२०६ । । |
प्रातिलोम्यापवादेषु द्विगुणत्रिगुणा दमाः । वर्णानां आनुलोम्येन तस्मादर्धार्धहानितः । । २.२०७ । । |
बाहुग्रीवानेत्रसक्थि विनाशे वाचिके दमः । सत्यस्तदर्धिकः पाद नासाकर्णकरादिषु । । २.२०८ । । |
अशक्तस्तु वदन्नेवं दण्डनीयः पणान्दश । तथा शक्तः प्रतिभुवं दाप्यः क्षेमाय तस्य तु । । २.२०९ । । |
पतनीयकृते क्षेपे दण्डो मध्यमसाहसः । उपपातकयुक्ते तु दाप्यः प्रथमसाहसम् । । २.२१० । । |
त्रैविद्यनृपदेवानां क्षेप उत्तमसाहसः । मध्यमो जातिपूगानां प्रथमो ग्रामदेशयोः । । २.२११ । । |