समवायेन वणिजां लाभार्थं कर्म कुर्वताम् । लाभालाभौ यथाद्रव्यं यथा वा संविदा कृतौ । । २.२५९ । । |
प्रतिषिद्धं अनादिष्टं प्रमादाद्यच्च नाशितम् । स तद्दद्याद्विप्लवाच्च रक्षिताद्दशमांशभाक् । । २.२६० । । |
अर्घप्रक्षेपणाद्विंशं भागं शुल्कं नृपो हरेत् । व्यासिद्धं राजयोग्यं च विक्रीतं राजगामि तत् । । २.२६१ । । |
मिथ्या वदन्परीमाणं शुल्कस्थानादपासरन् । दाप्यस्त्वष्टगुणं यश्च सव्याजक्रयविक्रयी । । २.२६२ । । |
तरिकः स्थलजं शुल्कं गृह्णन्दाप्यः पणान्दश । ब्राह्मणप्रातिवेश्यानां एतदेवानिमन्त्रणे । । २.२६३ । । |
देशान्तरगते प्रेते द्रव्यं दायादबान्धवाः । ज्ञातयो वा हरेयुस्तद् आगतास्तैर्विना नृपः । । २.२६४ । । |
जिह्मं त्यजेयुर्निर्लाभं अशक्तोऽन्येन कारयेत् । अनेन विधिराख्यात ऋत्विक्कर्षककर्मिणाम् । । २.२६५ । । |