अधीयीरंस्त्रयो वर्णाः स्वकर्मस्था द्विजातयः । प्रब्रूयाद्ब्राह्मणस्त्वेषां नेतराविति निश्चयः । । १०.१ । । |
सर्वेषां ब्राह्मणो विद्याद्वृत्त्युपायान्यथाविधि । प्रब्रूयादितरेभ्यश्च स्वयं चैव तथा भवेत् । । १०.२ । । |
वैशेष्यात्प्रकृतिश्रैष्ठ्यान्नियमस्य च धारणात् । संस्कारस्य विशेषाच्च वर्णानां ब्राह्मणः प्रभुः । । १०.३ । । |
ब्राह्मणः क्षत्रियो वैश्यस्त्रयो वर्णा द्विजातयः । चतुर्थ एकजातिस्तु शूद्रो नास्ति तु पञ्चमः । । १०.४ । । |
सर्ववर्णेषु तुल्यासु पत्नीष्वक्षतयोनिषु । आनुलोम्येन संभूता जात्या ज्ञेयास्त एव ते । । १०.५ । । |
स्त्रीष्वनन्तरजातासु द्विजैरुत्पादितान्सुतान् । सदृशानेव तानाहुर्मातृदोषविगर्हितान् । । १०.६ । । |
अनन्तरासु जातानां विधिरेष सनातनः । द्व्येकान्तरासु जातानां धर्म्यं विद्यादिमं विधिम् । । १०.७ । । |
ब्राह्मणाद्वैश्यकन्यायां अम्बष्ठो नाम जायते । निषादः शूद्रकन्यायां यः पारशव उच्यते । । १०.८ । । |
क्षत्रियाच्छूद्रकन्यायां क्रूराचारविहारवान् । क्षत्रशूद्रवपुर्जन्तुरुग्रो नाम प्रजायते । । १०.९ । । |
विप्रस्य त्रिषु वर्णेषु नृपतेर्वर्णयोर्द्वयोः । वैश्यस्य वर्णे चैकस्मिन्षडेतेऽपसदाः स्मृताः । । १०.१० । । |
क्षत्रियाद्विप्रकन्यायां सूतो भवति जातितः । वैश्यान्मागधवैदेहौ राजविप्राङ्गनासुतौ । । १०.११ । । |
शूद्रादायोगवः क्षत्ता चण्डालश्चाधमो नृणाम् । वैश्यराजन्यविप्रासु जायन्ते वर्णसंकराः । । १०.१२ । । |
एकान्तरे त्वानुलोम्यादम्बष्ठोग्रौ यथा स्मृतौ । क्षत्तृवैदेहकौ तद्वत्प्रातिलोम्येऽपि जन्मनि । । १०.१३ । । |
पुत्रा येऽनन्तरस्त्रीजाः क्रमेणोक्ता द्विजन्मनाम् । ताननन्तरनाम्नस्तु मातृदोषात्प्रचक्षते । । १०.१४ । । |
ब्राह्मणादुग्रकन्यायां आवृतो नाम जायते । आभीरोऽम्बष्ठकन्यायां आयोगव्यां तु धिग्वणः । । १०.१५ । । |
आयोगवश्च क्षत्ता च चण्डालश्चाधमो नृणाम् । प्रातिलोम्येन जायन्ते शूद्रादपसदास्त्रयः । । १०.१६ । । |
वैश्यान्मागधवैदेहौ क्षत्रियात्सूत एव तु । प्रतीपं एते जायन्ते परेऽप्यपसदास्त्रयः । । १०.१७ । । |
जातो निषादाच्छूद्रायां जात्या भवति पुक्कसः । शूद्राज्जातो निषाद्यां तु स वै कुक्कुटकः स्मृतः । । १०.१८ । । |
क्षत्तुर्जातस्तथोग्रायां श्वपाक इति कीर्त्यते । वैदेहकेन त्वम्बष्ठ्यां उत्पन्नो वेण उच्यते । । १०.१९ । । |
द्विजातयः सवर्णासु जनयन्त्यव्रतांस्तु यान् । तान्सावित्रीपरिभ्रष्टान्व्रात्यानिति विनिर्दिशेत् । । १०.२० । । |
व्रात्यात्तु जायते विप्रात्पापात्मा भूर्जकण्टकः । आवन्त्यवाटधानौ च पुष्पधः शैख एव च । । १०.२१ । । |
झल्लो मल्लश्च राजन्याद्व्रात्यान्निच्छिविरेव च । नटश्च करणश्चैव खसो द्रविड एव च । । १०.२२ । । |
वैश्यात्तु जायते व्रात्यात्सुधन्वाचार्य एव च । कारुषश्च विजन्मा च मैत्रः सात्वत एव च । । १०.२३ । । |
व्यभिचारेण वर्णानां अवेद्यावेदनेन च । स्वकर्मणां च त्यागेन जायन्ते वर्णसंकराः । । १०.२४ । । |
संकीर्णयोनयो ये तु प्रतिलोमानुलोमजाः । अन्योन्यव्यतिषक्ताश्च तान्प्रवक्ष्याम्यशेषतः । । १०.२५ । । |
सूतो वैदेहकश्चैव चण्डालश्च नराधमः । मागधः तथायोगव एव च क्षत्रजातिश्च । । १०.२६ । । |
एते षट्सदृशान्वर्णाञ् जनयन्ति स्वयोनिषु । मातृजात्यां प्रसूयन्ते प्रवारासु च योनिषु । । १०.२७ । । |
यथा त्रयाणां वर्णानां द्वयोरात्मास्य जायते । आनन्तर्यात्स्वयोन्यां तु तथा बाह्येष्वपि क्रमात् । । १०.२८ । । |
ते चापि बाह्यान्सुबहूंस्ततोऽप्यधिकदूषितान् । परस्परस्य दारेषु जनयन्ति विगर्हितान् । । १०.२९ । । |
यथैव शूद्रो ब्राह्मण्यां बाह्यं जन्तुं प्रसूयते । तथा बाह्यतरं बाह्यश्चातुर्वर्ण्ये प्रसूयते । । १०.३० । । |
प्रतिकूलं वर्तमाना बाह्या बाह्यतरान्पुनः । हीना हीनान्प्रसूयन्ते वर्णान्पञ्चदशैव तु । । १०.३१ । । |
प्रसाधनोपचारज्ञं अदासं दासजीवनम् । सैरिन्ध्रं वागुरावृत्तिं सूते दस्युरयोगवे । । १०.३२ । । |
मैत्रेयकं तु वैदेहो माधूकं संप्रसूयते । नॄन्प्रशंसत्यजस्रं यो घण्टाताडोऽरुणोदये । । १०.३३ । । |
निषादो मार्गवं सूते दासं नौकर्मजीविनम् । कैवर्तं इति यं प्राहुरार्यावर्तनिवासिनः । । १०.३४ । । |
मृतवस्त्रभृत्स्व्नारीषु गर्हितान्नाशनासु च । भवन्त्यायोगवीष्वेते जातिहीनाः पृथक्त्रयः । । १०.३५ । । |
कारावरो निषादात्तु चर्मकारः प्रसूयते । वैदेहिकादन्ध्रमेदौ बहिर्ग्रामप्रतिश्रयौ । । १०.३६ । । |
चण्डालात्पाण्डुसोपाकस्त्वक्सारव्यवहारवान् । आहिण्डिको निषादेन वैदेह्यां एव जायते । । १०.३७ । । |
चण्डालेन तु सोपाको मूलव्यसनवृत्तिमान् । पुक्कस्यां जायते पापः सदा सज्जनगर्हितः । । १०.३८ । । |
निषादस्त्री तु चण्डालात्पुत्रं अन्त्यावसायिनम् । श्मशानगोचरं सूते बाह्यानां अपि गर्हितम् । । १०.३९ । । |
संकरे जातयस्त्वेताः पितृमातृप्रदर्शिताः । प्रछन्ना वा प्रकाशा वा वेदितव्याः स्वकर्मभिः । । १०.४० । । |
स्वजातिजानन्तरजाः षट्सुता द्विजधर्मिणः । शूद्राणां तु सधर्माणः सर्वेऽपध्वंसजाः स्मृताः । । १०.४१ । । |
तपोबीजप्रभावैस्तु ते गच्छन्ति युगे युगे । उत्कर्षं चापकर्षं च मनुष्येष्विह जन्मतः । । १०.४२ । । |
शनकैस्तु क्रियालोपादिमाः क्षत्रियजातयः । वृषलत्वं गता लोके ब्राह्मणादर्शनेन च । । १०.४३ । । |
पौण्ड्रकाश्चौड्रद्रविडाः काम्बोजा यवनाः शकाः । पारदापह्लवाश्चीनाः किराता दरदाः खशाः । । १०.४४ । । |
मुखबाहूरुपज्जानां या लोके जातयो बहिः । म्लेच्छवाचश्चार्यवाचः सर्वे ते दस्यवः स्मृताः । । १०.४५ । । |
ये द्विजानां अपसदा ये चापध्वंसजाः स्मृताः । ते निन्दितैर्वर्तयेयुर्द्विजानां एव कर्मभिः । । १०.४६ । । |
सूतानां अश्वसारथ्यं अम्बष्ठानां चिकित्सनम् । वैदेहकानां स्त्रीकार्यं मागधानां वणिक्पथः । । १०.४७ । । |
मत्स्यघातो निषादानां त्वष्टिस्त्वायोगवस्य च । मेदान्ध्रचुञ्चुमद्गूनां आरण्यपशुहिंसनम् । । १०.४८ । । |
क्षत्त्रुग्रपुक्कसानां तु बिलौकोवधबन्धनम् । धिग्वणानां चर्मकार्यं वेणानां भाण्डवादनम् । । १०.४९ । । |
चैत्यद्रुमश्मशानेषु शैलेषूपवनेषु च । वसेयुरेते विज्ञाता वर्तयन्तः स्वकर्मभिः । । १०.५० । । |
चण्डालश्वपचानां तु बहिर्ग्रामात्प्रतिश्रयः । अपपात्राश्च कर्तव्या धनं एषां श्वगर्दभम् । । १०.५१ । । |
वासांसि मृतचैलानि भिन्नभाण्डेषु भोजनम् । कार्ष्णायसं अलङ्कारः परिव्रज्या च नित्यशः । । १०.५२ । । |
न तैः समयं अन्विच्छेत्पुरुषो धर्मं आचरन् । व्यवहारो मिथस्तेषां विवाहः सदृशैः सह । । १०.५३ । । |
अन्नं एषां पराधीनं देयं स्याद्भिन्नभाजने । रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च । । १०.५४ । । |
दिवा चरेयुः कार्यार्थं चिह्निता राजशासनैः । अबान्धवं शवं चैव निर्हरेयुरिति स्थितिः । । १०.५५ । । |
वध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च । । १०.५६ । । |
वर्णापेतं अविज्ञातं नरं कलुषयोनिजम् । आर्यरूपं इवानार्यं कर्मभिः स्वैर्विभावयेत् । । १०.५७ । । |
अनार्यता निष्ठुरता क्रूरता निष्क्रियात्मता । पुरुषं व्यञ्जयन्तीह लोके कलुषयोनिजम् । । १०.५८ । । |
पित्र्यं वा भजते शीलं मातुर्वोभयं एव वा । न कथं चन दुर्योनिः प्रकृतिं स्वां नियच्छति । । १०.५९ । । |
कुले मुख्येऽपि जातस्य यस्य स्याद्योनिसंकरः । संश्रयत्येव तच्छीलं नरोऽल्पं अपि वा बहु । । १०.६० । । |
यत्र त्वेते परिध्वंसाज्जायन्ते वर्णदूषकाः । राष्ट्रिकैः सह तद्राष्ट्रं क्षिप्रं एव विनश्यति । । १०.६१ । । |
ब्राह्मणार्थे गवार्थे वा देहत्यागोऽनुपस्कृतः । स्त्रीबालाभ्युपपत्तौ च बाह्यानां सिद्धिकारणम् । । १०.६२ । । |
अहिंसा सत्यं अस्तेयं शौचं इन्द्रियनिग्रहः । एतं सामासिकं धर्मं चातुर्वर्ण्येऽब्रवीन्मनुः । । १०.६३ । । |
शूद्रायां ब्राह्मणाज्जातः श्रेयसा चेत्प्रजायते । अश्रेयान्श्रेयसीं जातिं गच्छत्या सप्तमाद्युगात् । । १०.६४ । । |
शूद्रो ब्राह्मणतां एति ब्राह्मणश्चैति शूद्रताम् । क्षत्रियाज्जातं एवं तु विद्याद्वैश्यात्तथैव च । । १०.६५ । । |
अनार्यायां समुत्पन्नो ब्राह्मणात्तु यदृच्छया । ब्राह्मण्यां अप्यनार्यात्तु श्रेयस्त्वं क्वेति चेद्भवेत् । । १०.६६ । । |
जातो नार्यां अनार्यायां आर्यादार्यो भवेद्गुणैः । जातोऽप्यनार्यादार्यायां अनार्य इति निश्चयः । । १०.६७ । । |
तावुभावप्यसंस्कार्याविति धर्मो व्यवस्थितः । वैगुण्याज्जन्मनः पूर्व उत्तरः प्रतिलोमतः । । १०.६८ । । |
सुबीजं चैव सुक्षेत्रे जातं संपद्यते यथा । तथार्याज्जात आर्यायां सर्वं संस्कारं अर्हति । । १०.६९ । । |
बीजं एके प्रशंसन्ति क्षेत्रं अन्ये मनीषिणः । बीजक्षेत्रे तथैवान्ये तत्रेयं तु व्यवस्थितिः । । १०.७० । । |
अक्षेत्रे बीजं उत्सृष्टं अन्तरैव विनश्यति । अबीजकं अपि क्षेत्रं केवलं स्थण्डिलं भवेत् । । १०.७१ । । |
यस्माद्बीजप्रभावेण तिर्यग्जा ऋषयोऽभवन् । पूजिताश्च प्रशस्ताश्च तस्माद्बीजं प्रशस्यते । । १०.७२ । । |
अनार्यं आर्यकर्माणं आर्यं चानार्यकर्मिणम् । संप्रधार्याब्रवीद्धाता न समौ नासमाविति । । १०.७३ । । |
ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्मण्यवस्थिताः । ते सम्यगुपजीवेयुः षट्कर्माणि यथाक्रमम् । । १०.७४ । । |
अध्यापनं अध्ययनं यजनं याजनं तथा । दानं प्रतिग्रहश्चैव षट्कर्माण्यग्रजन्मनः । । १०.७५ । । |
षण्णां तु कर्मणां अस्य त्रीणि कर्माणि जीविका । याजनाध्यापने चैव विशुद्धाच्च प्रतिग्रहः । । १०.७६ । । |
त्रयो धर्मा निवर्तन्ते ब्राह्मणात्क्षत्रियं प्रति । अध्यापनं याजनं च तृतीयश्च प्रतिग्रहः । । १०.७७ । । |
वैश्यं प्रति तथैवैते निवर्तेरन्निति स्थितिः । न तौ प्रति हि तान्धर्मान्मनुराह प्रजापतिः । । १०.७८ । । |
शस्त्रास्त्रभृत्त्वं क्षत्रस्य वणिक्पशुकृषिर्विषः । आजीवनार्थं धर्मस्तु दानं अध्ययनं यजिः । । १०.७९ । । |
वेदाभ्यासो ब्राह्मणस्य क्षत्रियस्य च रक्षणम् । वार्ताकर्मैव वैश्यस्य विशिष्टानि स्वकर्मसु । । १०.८० । । |
अजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा । जीवेत्क्षत्रियधर्मेण स ह्यस्य प्रत्यनन्तरः । । १०.८१ । । |
उभाभ्यां अप्यजीवंस्तु कथं स्यादिति चेद्भवेत् । कृषिगोरक्षं आस्थाय जीवेद्वैश्यस्य जीविकाम् । । १०.८२ । । |
वैश्यवृत्त्यापि जीवंस्तु ब्राह्मणः क्सत्रियोऽपि वा । हिंसाप्रायां पराधीनां कृषिं यत्नेन वर्जयेत् । । १०.८३ । । |
कृषिं साध्विति मन्यन्ते सा वृत्तिः सद्विगर्हिताः । भूमिं भूमिशयांश्चैव हन्ति काष्ठं अयोमुखम् । । १०.८४ । । |
इदं तु वृत्तिवैकल्यात्त्यजतो धर्मनैपुणम् । विट्पण्यं उद्धृतोद्धारं विक्रेयं वित्तवर्धनम् । । १०.८५ । । |
सर्वान्रसानपोहेत कृतान्नं च तिलैः सह । अश्मनो लवणं चैव पशवो ये च मानुषाः । । १०.८६ । । |
सर्वं च तान्तवं रक्तं शाणक्षौमाविकानि च । अपि चेत्स्युररक्तानि फलमूले तथौषधीः । । १०.८७ । । |
अपः शस्त्रं विषं मांसं सोमं गन्धांश्च सर्वशः । क्षीरं क्षौद्रं दधि घृतं तैलं मधु गुडं कुशान् । । १०.८८ । । |
आरण्यांश्च पशून्सर्वान्दंष्ट्रिणश्च वयांसि च । मद्यं नीलिं च लाक्षां च सर्वांश्चैकशफांस्तथा । । १०.८९ । । |
कामं उत्पाद्य कृष्यां तु स्वयं एव कृषीवलः । विक्रीणीत तिलाञ् शूद्रान्धर्मार्थं अचिरस्थितान् । । १०.९० । । |
भोजनाभ्यञ्जनाद्दानाद्यदन्यत्कुरुते तिलैः । कृमिभूतः श्वविष्ठायां पितृभिः सह मज्जति । । १०.९१ । । |
सद्यः पतति मांसेन लाक्षया लवणेन च । त्र्यहेण शूद्रो भवति ब्राह्मणः क्षीरविक्रयात् । । १०.९२ । । |
इतरेषां तु पण्यानां विक्रयादिह कामतः । ब्राह्मणः सप्तरात्रेण वैश्यभावं नियच्छति । । १०.९३ । । |
रसा रसैर्निमातव्या न त्वेव लवणं रसैः । कृतान्नं च कृतान्नेन तिला धान्येन तत्समाः । । १०.९४ । । |
जीवेदेतेन राजन्यः सर्वेणाप्यनयं गतः । न त्वेव ज्यायंसीं वृत्तिं अभिमन्येत कर्हि चित् । । १०.९५ । । |
यो लोभादधमो जात्या जीवेदुत्कृष्टकर्मभिः । तं राजा निर्धनं कृत्वा क्षिप्रं एव प्रवासयेत् । । १०.९६ । । |
वरं स्वधर्मो विगुणो न पारक्यः स्वनुष्ठितः । परधर्मेण जीवन्हि सद्यः पतति जातितः । । १०.९७ । । |
वैश्योऽजीवन्स्वधर्मेण शूद्रवृत्त्यापि वर्तयेत् । अनाचरन्नकार्याणि निवर्तेत च शक्तिमान् । । १०.९८ । । |
अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम् । पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः । । १०.९९ । । |
यैः कर्मभिः प्रचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च । । १०.१०० । । |
वैश्यवृत्तिं अनातिष्ठन्ब्राह्मणः स्वे पथि स्थितः । अवृत्तिकर्षितः सीदन्निमं धर्मं समाचरेत् । । १०.१०१ । । |
सर्वतः प्रतिगृह्णीयाद्ब्राह्मणस्त्वनयं गतः । पवित्रं दुष्यतीत्येतद्धर्मतो नोपपद्यते । । १०.१०२ । । |
नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् । दोषो भवति विप्राणां ज्वलनाम्बुसमा हि ते । । १०.१०३ । । |
जीवितात्ययं आपन्नो योऽन्नं अत्ति ततस्ततः । आकाशं इव पङ्केन न स पापेन लिप्यते । । १०.१०४ । । |
अजीगर्तः सुतं हन्तुं उपासर्पद्बुभुक्षितः । न चालिप्यत पापेन क्षुत्प्रतीकारं आचरन् । । १०.१०५ । । |
श्वमांसं इच्छनार्तोऽत्तुं धर्माधर्मविचक्षणः । प्राणानां परिरक्षार्थं वामदेवो न लिप्तवान् । । १०.१०६ । । |
भरद्वाजः क्षुधार्तस्तु सपुत्रो विजने वने । बह्वीर्गाः प्रतिजग्राह वृधोस्तक्ष्णो महातपाः । । १०.१०७ । । |
क्षुधार्तश्चात्तुं अभ्यागाद्विश्वामित्रः श्वजाघनीम् । चण्डालहस्तादादाय धर्माधर्मविचक्षणः । । १०.१०८ । । |
प्रतिग्रहाद्याजनाद्वा तथैवाध्यापनादपि । प्रतिग्रहः प्रत्यवरः प्रेत्य विप्रस्य गर्हितः । । १०.१०९ । । |
याजनाध्यापने नित्यं क्रियेते संस्कृतात्मनाम् । प्रतिग्रहस्तु क्रियते शूद्रादप्यन्त्यजन्मनः । । १०.११० । । |
जपहोमैरपैत्येनो याजनाध्यापनैः कृतम् । प्रतिग्रहनिमित्तं तु त्यागेन तपसैव च । । १०.१११ । । |
शिलोञ्छं अप्याददीत विप्रोऽजीवन्यतस्ततः । प्रतिग्रहाच्छिलः श्रेयांस्ततोऽप्युञ्छः प्रशस्यते । । १०.११२ । । |
सीदद्भिः कुप्यं इच्छद्भिर्धने वा पृथिवीपतिः । याच्यः स्यात्स्नातकैर्विप्रैरदित्संस्त्यागं अर्हति । । १०.११३ । । |
अकृतं च कृतात्क्षेत्राद्गौरजाविकं एव च । हिरण्यं धान्यं अन्नं च पूर्वं पूर्वं अदोषवत् । । १०.११४ । । |
सप्त वित्तागमा धर्म्या दायो लाभः क्रयो जयः । प्रयोगः कर्मयोगश्च सत्प्रतिग्रह एव च । । १०.११५ । । |
विद्या शिल्पं भृतिः सेवा गोरक्ष्यं विपणिः कृषिः । धृतिर्भैक्षं कुसीदं च दश जीवनहेतवः । । १०.११६ । । |
ब्राह्मणः क्षत्रियो वापि वृद्धिं नैव प्रयोजयेत् । कामं तु खलु धर्मार्थं दद्यात्पापीयसेऽल्पिकाम् । । १०.११७ । । |
चतुर्थं आददानोऽपि क्षत्रियो भागं आपदि । प्रजा रक्षन्परं शक्त्या किल्बिषात्प्रतिमुच्यते । । १०.११८ । । |
स्वधर्मो विजयस्तस्य नाहवे स्यात्पराङ्मुखः । शस्त्रेण वैश्यान्रक्षित्वा धर्म्यं आहारयेद्बलिम् । । १०.११९ । । |
धान्येऽष्टमं विशां शुल्कं विंशं कार्षापणावरम् । कर्मोपकरणाः शूद्राः कारवः शिल्पिनस्तथा । । १०.१२० । । |
शूद्रस्तु वृत्तिं आकाङ्क्षन्क्षत्रं आराधयेद्यदि । धनिनं वाप्युपाराध्य वैश्यं शूद्रो जिजीविषेत् । । १०.१२१ । । |
स्वर्गार्थं उभयार्थं वा विप्रानाराधयेत्तु सः । जातब्राह्मणशब्दस्य सा ह्यस्य कृतकृत्यता । । १०.१२२ । । |
विप्रसेवैव शूद्रस्य विशिष्टं कर्म कीर्त्यते । यदतोऽन्यद्धि कुरुते तद्भवत्यस्य निष्फलम् । । १०.१२३ । । |
प्रकल्प्या तस्य तैर्वृत्तिः स्वकुटुम्बाद्यथार्हतः । शक्तिं चावेक्ष्य दाक्ष्यं च भृत्यानां च परिग्रहम् । । १०.१२४ । । |
उच्छिष्टं अन्नं दातव्यं जीर्णानि वसनानि च । पुलाकाश्चैव धान्यानां जीर्णाश्चैव परिच्छदाः । । १०.१२५ । । |
न शूद्रे पातकं किं चिन्न च संस्कारं अर्हति । नास्याधिकारो धर्मेऽस्ति न धर्मात्प्रतिषेधनम् । । १०.१२६ । । |
धर्मेप्सवस्तु धर्मज्ञाः सतां वृत्तं अनुष्ठिताः । मन्त्रवर्ज्यं न दुष्यन्ति प्रशंसां प्राप्नुवन्ति च । । १०.१२७ । । |
यथा यथा हि सद्वृत्तं आतिष्ठत्यनसूयकः । तथा तथेमं चामुं च लोकं प्राप्नोत्यनिन्दितः । । १०.१२८ । । |
शक्तेनापि हि शूद्रेण न कार्यो धनसंचयः । शूद्रो हि धनं आसाद्य ब्राह्मणानेव बाधते । । १०.१२९ । । |
एते चतुर्णां वर्णानां आपद्धर्माः प्रकीर्तिताः । यान्सम्यगनुतिष्ठन्तो व्रजन्ति परमं गतिम् । । १०.१३० । । |
एष धर्मविधिः कृत्स्नश्चातुर्वर्ण्यस्य कीर्तितः । अतः परं प्रवक्ष्यामि प्रायश्चित्तविधिं शुभम् । । १०.१३१ । । |
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know