व्यवहारान्दिदृक्षुस्तु ब्राह्मणैः सह पार्थिवः । मन्त्रज्ञैर्मन्त्रिभिश्चैव विनीतः प्रविशेत्सभाम् । । ८.१ । । |
तत्रासीनः स्थितो वापि पाणिं उद्यम्य दक्षिणम् । विनीतवेषाभरणः पश्येत्कार्याणि कार्यिणाम् । । ८.२ । । |
प्रत्यहं देशदृष्टैश्च शास्त्रदृष्टैश्च हेतुभिः । अष्टादशसु मार्गेषु निबद्धानि पृथक्पृथक् । । ८.३ । । |
तेषां आद्यं ऋणादानं निक्षेपोऽस्वामिविक्रयः । संभूय च समुत्थानं दत्तस्यानपकर्म च । । ८.४ । । |
वेतनस्यैव चादानं संविदश्च व्यतिक्रमः । क्रयविक्रयानुशयो विवादः स्वामिपालयोः । । ८.५ । । |
सीमाविवादधर्मश्च पारुष्ये दण्डवाचिके । स्तेयं च साहसं चैव स्त्रीसंग्रहणं एव च । । ८.६ । । |
स्त्रीपुंधर्मो विभागश्च द्यूतं आह्वय एव च । पदान्यष्टादशैतानि व्यवहारस्थिताविह । । ८.७ । । |
एषु स्थानेषु भूयिष्ठं विवादं चरतां नृणाम् । धर्मं शाश्वतं आश्रित्य कुर्यात्कार्यविनिर्णयम् । । ८.८ । । |
यदा स्वयं न कुर्यात्तु नृपतिः कार्यदर्शनम् । तदा नियुञ्ज्याद्विद्वांसं ब्राह्मणं कार्यदर्शने । । ८.९ । । |
सोऽस्य कार्याणि संपश्येत्सभ्यैरेव त्रिभिर्वृतः । सभां एव प्रविश्याग्र्यां आसीनः स्थित एव वा । । ८.१० । । |
यस्मिन्देशे निषीदन्ति विप्रा वेदविदस्त्रयः । राज्ञश्चाधिकृतो विद्वान्ब्रह्मणस्तां सभां विदुः । । ८.११ । । |
धर्मो विद्धस्त्वधर्मेण सभां यत्रोपतिष्ठते । शल्यं चास्य न कृन्तन्ति विद्धास्तत्र सभासदः । । ८.१२ । । |
सभां वा न प्रवेष्टव्यं वक्तव्यं वा समञ्जसम् । अब्रुवन्विब्रुवन्वापि नरो भवति किल्बिषी । । ८.१३ । । |
यत्र धर्मो ह्यधर्मेण सत्यं यत्रानृतेन च । हन्यते प्रेक्षमाणानां हतास्तत्र सभासदः । । ८.१४ । । |
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः । तस्माद्धर्मो न हन्तव्यो मा नो धर्मो हतोऽवधीत् । । ८.१५ । । |
वृषो हि भगवान्धर्मस्तस्य यः कुरुते ह्यलम् । वृषलं तं विदुर्देवास्तस्माद्धर्मं न लोपयेत् । । ८.१६ । । |
एक एव सुहृद्धर्मो निधानेऽप्यनुयाति यः । शरीरेण समं नाशं सर्वं अन्यद्धि गच्छति । । ८.१७ । । |
पादोऽधर्मस्य कर्तारं पादः साक्षिणं ऋच्छति । पादः सभासदः सर्वान्पादो राजानं ऋच्छति । । ८.१८ । । |
राजा भवत्यनेनास्तु मुच्यन्ते च सभासदः । एनो गच्छति कर्तारं निन्दार्हो यत्र निन्द्यते । । ८.१९ । । |
जातिमात्रोपजीवी वा कामं स्याद्ब्राह्मणब्रुवः । धर्मप्रवक्ता नृपतेर्न तु शूद्रः कथं चन । । ८.२० । । |
यस्य शूद्रस्तु कुरुते राज्ञो धर्मविवेचनम् । तस्य सीदति तद्राष्ट्रं पङ्के गौरिव पश्यतः । । ८.२१ । । |
यद्राष्ट्रं शूद्रभूयिष्ठं नास्तिकाक्रान्तं अद्विजम् । विनश्यत्याशु तत्कृत्स्नं दुर्भिक्षव्याधिपीडितम् । । ८.२२ । । |
धर्मासनं अधिष्ठाय संवीताङ्गः समाहितः । प्रणम्य लोकपालेभ्यः कार्यदर्शनं आरभेत् । । ८.२३ । । |
अर्थानर्थावुभौ बुद्ध्वा धर्माधर्मौ च केवलौ । वर्णक्रमेण सर्वाणि पश्येत्कार्याणि कार्यिणाम् । । ८.२४ । । |
बाह्यैर्विभावयेल्लिङ्गैर्भावं अन्तर्गतं नृणाम् । स्वरवर्णेङ्गिताकारैश्चक्षुषा चेष्टितेन च । । ८.२५ । । |
आकारैरिङ्गितैर्गत्या चेष्टया भाषितेन च । नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः । । ८.२६ । । |
बालदायादिकं रिक्थं तावद्राजानुपालयेत् । यावत्स स्यात्समावृत्तो यावच्चातीतशैशवः । । ८.२७ । । |
वशापुत्रासु चैवं स्याद्रक्षणं निष्कुलासु च । पतिव्रतासु च स्त्रीषु विधवास्वातुरासु च । । ८.२८ । । |
जीवन्तीनां तु तासां ये तद्धरेयुः स्वबान्धवाः । ताञ् शिष्याच्चौरदण्डेन धार्मिकः पृथिवीपतिः । । ८.२९ । । |
प्रणष्टस्वामिकं रिक्थं राजा त्र्यब्दं निधापयेत् । अर्वाक्त्र्यब्दाद्धरेत्स्वामी परेण नृपतिर्हरेत् । । ८.३० । । |
ममेदं इति यो ब्रूयात्सोऽनुयोज्यो यथाविधि । संवाद्य रूपसंख्यादीन्स्वामी तद्द्रव्यं अर्हति । । ८.३१ । । |
अवेदयानो नष्टस्य देशं कालं च तत्त्वतः । वर्णं रूपं प्रमाणं च तत्समं दण्डं अर्हति । । ८.३२ । । |
आददीताथ षड्भागं प्रनष्टाधिगतान्नृपः । दशमं द्वादशं वापि सतां धर्मं अनुस्मरन् । । ८.३३ । । |
प्रनष्टाधिगतं द्रव्यं तिष्ठेद्युक्तैरधिष्ठितम् । यांस्तत्र चौरान्गृह्णीयात्तान्राजेभेन घातयेत् । । ८.३४ । । |
ममायं इति यो ब्रूयान्निधिं सत्येन मानवः । तस्याददीत षड्भागं राजा द्वादशं एव वा । । ८.३५ । । |
अनृतं तु वदन्दण्ड्यः स्ववित्तस्यांशं अष्टमम् । तस्यैव वा निधानस्य संख्ययाल्पीयसीं कलाम् । । ८.३६ । । |
विद्वांस्तु ब्राह्मणो दृष्ट्वा पूर्वोपनिहितं निधिम् । अशेषतोऽप्याददीत सर्वस्याधिपतिर्हि सः । । ८.३७ । । |
यं तु पश्येन्निधिं राजा पुराणं निहितं क्षितौ । तस्माद्द्विजेभ्यो दत्त्वार्धं अर्धं कोशे प्रवेशयेत् । । ८.३८ । । |
निधीनां तु पुराणानां धातूनां एव च क्षितौ । अर्धभाग्रक्षणाद्राजा भूमेरधिपतिर्हि सः । । ८.३९ । । |
दातव्यं सर्ववर्णेभ्यो राज्ञा चौरैर्हृतं धनम् । राजा तदुपयुञ्जानश्चौरस्याप्नोति किल्बिषम् । । ८.४० । । |
जातिजानपदान्धर्मान्श्रेणीधर्मांश्च धर्मवित् । समीक्ष्य कुलधर्मांश्च स्वधर्मं प्रतिपादयेत् । । ८.४१ । । |
स्वानि कर्माणि कुर्वाणा दूरे सन्तोऽपि मानवाः । प्रिया भवन्ति लोकस्य स्वे स्वे कर्मण्यवस्थिताः । । ८.४२ । । |
नोत्पादयेत्स्वयं कार्यं राजा नाप्यस्य पुरुषः । न च प्रापितं अन्येन ग्रसेदर्थं कथं चन । । ८.४३ । । |
यथा नयत्यसृक्पातैर्मृगस्य मृगयुः पदम् । नयेत्तथानुमानेन धर्मस्य नृपतिः पदम् । । ८.४४ । । |
सत्यं अर्थं च संपश्येदात्मानं अथ साक्षिणः । देशं रूपं च कालं च व्यवहारविधौ स्थितः । । ८.४५ । । |
सद्भिराचरितं यत्स्याद्धार्मिकैश्च द्विजातिभिः । तद्देशकुलजातीनां अविरुद्धं प्रकल्पयेत् । । ८.४६ । । |
अधमर्णार्थसिद्ध्यर्थं उत्तमर्णेन चोदितः । दापयेद्धनिकस्यार्थं अधमर्णाद्विभावितम् । । ८.४७ । । |
यैर्यैरुपायैरर्थं स्वं प्राप्नुयादुत्तमर्णिकः । तैर्तैरुपायैः संगृह्य दापयेदधमर्णिकम् । । ८.४८ । । |
धर्मेण व्यवहारेण छलेनाचरितेन च । प्रयुक्तं साधयेदर्थं पञ्चमेन बलेन च । । ८.४९ । । |
यः स्वयं साधयेदर्थं उत्तमर्णोऽधमर्णिकात् । न स राज्ञाभियोक्तव्यः स्वकं संसाधयन्धनम् । । ८.५० । । |
अर्थेऽपव्ययमानं तु करणेन विभावितम् । दापयेद्धनिकस्यार्थं दण्डलेशं च शक्तितः । । ८.५१ । । |
अपह्नवेऽधमर्णस्य देहीत्युक्तस्य संसदि । अभियोक्ता दिशेद्देश्यं करणं वान्यदुद्दिशेत् । । ८.५२ । । |
अदेश्यं यश्च दिशति निर्दिश्यापह्नुते च यः । यश्चाधरोत्तरानर्थान्विगीतान्नावबुध्यते । । ८.५३ । । |
अपदिश्यापदेश्यं च पुनर्यस्त्वपधावति । सम्यक्प्रणिहितं चार्थं पृष्टः सन्नाभिनन्दति । । ८.५४ । । |
असंभाष्ये साक्षिभिश्च देशे संभाषते मिथः । निरुच्यमानं प्रश्नं च नेच्छेद्यश्चापि निष्पतेत् । । ८.५५ । । |
ब्रूहीत्युक्तश्च न ब्रूयादुक्तं च न विभावयेत् । न च पूर्वापरं विद्यात्तस्मादर्थात्स हीयते । । ८.५६ । । |
साक्षिणः सन्ति मेत्युक्त्वा दिशेत्युक्तो दिशेन्न यः । धर्मस्थः कारणैरेतैर्हीनं तं अपि निर्दिशेत् । । ८.५७ । । |
अभियोक्ता न चेद्ब्रूयाद्बध्यो दण्ड्यश्च धर्मतः । न चेत्त्रिपक्षात्प्रब्रूयाद्धर्मं प्रति पराजितः । । ८.५८ । । |
यो यावन्निह्नुवीतार्थं मिथ्या यावति वा वदेत् । तौ नृपेण ह्यधर्मज्ञौ दाप्यो तद्द्विगुणं दमम् । । ८.५९ । । |
पृष्टोऽपव्ययमानस्तु कृतावस्थो धनैषिणा । त्र्यवरैः साक्षिभिर्भाव्यो नृपब्राह्मणसंनिधौ । । ८.६० । । |
यादृशा धनिभिः कार्या व्यवहारेषु साक्षिणः । तादृशान्संप्रवक्ष्यामि यथा वाच्यं ऋतं च तैः । । ८.६१ । । |
गृहिणः पुत्रिणो मौलाः क्षत्रविश्शूद्रयोनयः । अर्थ्युक्ताः साक्ष्यं अर्हन्ति न ये के चिदनापदि । । ८.६२ । । |
आप्ताः सर्वेषु वर्णेषु कार्याः कार्येषु साक्षिणः । सर्वधर्मविदोऽलुब्धा विपरीतांस्तु वर्जयेत् । । ८.६३ । । |
नार्थसंबन्धिनो नाप्ता न सहाया न वैरिणः । न दृष्टदोषाः कर्तव्या न व्याध्यार्ता न दूषिताः । । ८.६४ । । |
न साक्षी नृपतिः कार्यो न कारुककुशीलवौ । न श्रोत्रियो न लिङ्गस्थो न सङ्गेभ्यो विनिर्गतः । । ८.६५ । । |
नाध्यधीनो न वक्तव्यो न दस्युर्न विकर्मकृत् । न वृद्धो न शिशुर्नैको नान्त्यो न विकलेन्द्रियः । । ८.६६ । । |
नार्तो न मत्तो नोन्मत्तो न क्षुत्तृष्णोपपीडितः । न श्रमार्तो न कामार्तो न क्रुद्धो नापि तस्करः । । ८.६७ । । |
स्त्रीणां साक्ष्यं स्त्रियः कुर्युर्द्विजानां सदृशा द्विजाः । शूद्राश्च सन्तः शूद्राणां अन्त्यानां अन्त्ययोनयः । । ८.६८ । । |
अनुभावी तु यः कश्चित्कुर्यात्साक्ष्यं विवादिनाम् । अन्तर्वेश्मन्यरण्ये वा शरीरस्यापि चात्यये । । ८.६९ । । |
स्त्रियाप्यसंभावे कार्यं बालेन स्थविरेण वा । शिष्येण बन्धुना वापि दासेन भृतकेन वा । । ८.७० । । |
बालवृद्धातुराणां च साक्ष्येषु वदतां मृषा । जानीयादस्थिरां वाचं उत्सिक्तमनसां तथा । । ८.७१ । । |
साहसेषु च सर्वेषु स्तेयसंग्रहणेषु च । वाग्दण्डयोश्च पारुष्ये न परीक्षेत साक्षिणः । । ८.७२ । । |
बहुत्वं परिगृह्णीयात्साक्षिद्वैधे नराधिपः । समेषु तु गुणोत्कृष्टान्गुणिद्वैधे द्विजोत्तमान् । । ८.७३ । । |
समक्षदर्शनात्साक्ष्यं श्रवणाच्चैव सिध्यति । तत्र सत्यं ब्रुवन्साक्षी धर्मार्थाभ्यां न हीयते । । ८.७४ । । |
साक्षी दृष्टश्रुतादन्यद्विब्रुवन्नार्यसंसदि । अवाङ्नरकं अभ्येति प्रेत्य स्वर्गाच्च हीयते । । ८.७५ । । |
यत्रानिबद्धोऽपीक्षेत शृणुयाद्वापि किं चन । पृष्टस्तत्रापि तद्ब्रूयाद्यथादृष्टं यथाश्रुतम् । । ८.७६ । । |
एकोऽलुब्धस्तु साक्षी स्याद्बह्व्यः शुच्योऽपि न स्त्रियः । स्त्रीबुद्धेरस्थिरत्वात्तु दोषैश्चान्येऽपि ये वृताः । । ८.७७ । । |
स्वभावेनैव यद्ब्रूयुस्तद्ग्राह्यं व्यावहारिकम् । अतो यदन्यद्विब्रूयुर्धर्मार्थं तदपार्थकम् । । ८.७८ । । |
सभान्तः साक्षिणः प्राप्तानर्थिप्रत्यर्थिसंनिधौ । प्राड्विवाकोऽनुयुञ्जीत विधिनानेन सान्त्वयन् । । ८.७९ । । |
यद्द्वयोरनयोर्वेत्थ कार्येऽस्मिंश्चेष्टितं मिथः । तद्ब्रूत सर्वं सत्येन युष्माकं ह्यत्र साक्षिता । । ८.८० । । |
सत्यं साक्ष्ये ब्रुवन्साक्षी लोकानाप्नोति पुष्कलान् । इह चानुत्तमां कीर्तिं वागेषा ब्रह्मपूजिता । । ८.८१ । । |
साक्ष्येऽनृतं वदन्पाशैर्बध्यते वारुणैर्भृशम् । विवशः शतं आजातीस्तस्मात्साक्ष्यं वदेदृतम् । । ८.८२ । । |
सत्येन पूयते साक्षी धर्मः सत्येन वर्धते । तस्मात्सत्यं हि वक्तव्यं सर्ववर्णेषु साक्षिभिः । । ८.८३ । । |
आत्मैव ह्यात्मनः साक्षी गतिरात्मा तथात्मनः । मावमंस्थाः स्वं आत्मानं नृणां साक्षिणं उत्तमम् । । ८.८४ । । |
मन्यन्ते वै पापकृतो न कश्चित्पश्यतीति नः । तांस्तु देवाः प्रपश्यन्ति स्वस्यैवान्तरपूरुषः । । ८.८५ । । |
द्यौर्भूमिरापो हृदयं चन्द्रार्काग्नियमानिलाः । रात्रिः संध्ये च धर्मश्च वृत्तज्ञाः सर्वदेहिनाम् । । ८.८६ । । |
देवब्राह्मणसांनिध्ये साक्ष्यं पृच्छेदृतं द्विजान् । उदङ्मुखान्प्राङ्मुखान्वा पूर्वाह्णे वै शुचिः शुचीन् । । ८.८७ । । |
ब्रूहीति ब्राह्मणं पृच्छेत्सत्यं ब्रूहीति पार्थिवम् । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः । । ८.८८ । । |
ब्रह्मघ्नो ये स्मृता लोका ये च स्त्रीबालघातिनः । मित्रद्रुहः कृतघ्नस्य ते ते स्युर्ब्रुवतो मृषा । । ८.८९ । । |
जन्मप्रभृति यत्किं चित्पुण्यं भद्र त्वया कृतम् । तत्ते सर्वं शुनो गच्छेद्यदि ब्रूयास्त्वं अन्यथा । । ८.९० । । |
एकोऽहं अस्मीत्यात्मानं यस्त्वं कल्याण मन्यसे । नित्यं स्थितस्ते हृद्येष पुण्यपापेक्षिता मुनिः । । ८.९१ । । |
यमो वैवस्वतो देवो यस्तवैष हृदि स्थितः । तेन चेदविवादस्ते मा गङ्गां मा कुरून्गमः । । ८.९२ । । |
नग्नो मुण्डः कपालेन च भिक्षार्थी क्षुत्पिपासितः । अन्धः शत्रुकुलं गच्छेद्यः साक्ष्यं अनृतं वदेत् । । ८.९३ । । |
अवाक्शिरास्तमस्यन्धे किल्बिषी नरकं व्रजेत् । यः प्रश्नं वितथं ब्रूयात्पृष्टः सन्धर्मनिश्चये । । ८.९४ । । |
अन्धो मत्स्यानिवाश्नाति स नरः कण्टकैः सह । यो भाषतेऽर्थवैकल्यं अप्रत्यक्षं सभां गतः । । ८.९५ । । |
यस्य विद्वान्हि वदतः क्षेत्रज्ञो नाभिशङ्कते । तस्मान्न देवाः श्रेयांसं लोकेऽन्यं पुरुषं विदुः । । ८.९६ । । |
यावतो बान्धवान्यस्मिन्हन्ति साक्ष्येऽनृतं वदन् । तावतः संख्यया तस्मिन्शृणु सौम्यानुपूर्वशः । । ८.९७ । । |
पञ्च पश्वनृते हन्ति दश हन्ति गवानृते । शतं अश्वानृते हन्ति सहस्रं पुरुषानृते । । ८.९८ । । |
हन्ति जातानजातांश्च हिरण्यार्थेऽनृतं वदन् । सर्वं भूम्यनृते हन्ति मा स्म भूम्यनृतं वदीः । । ८.९९ । । |
अप्सु भूमिवदित्याहुः स्त्रीणां भोगे च मैथुने । अब्जेषु चैव रत्नेषु सर्वेष्वश्ममयेषु च । । ८.१०० । । |
एतान्दोषानवेक्ष्य त्वं सर्वाननृतभाषणे । यथाश्रुतं यथादृष्टं सर्वं एवाञ्जसा वद । । ८.१०१ । । |
गोरक्षकान्वाणिजिकांस्तथा कारुकुशीलवान् । प्रेष्यान्वार्धुषिकांश्चैव विप्रान्शूद्रवदाचरेत् । । ८.१०२ । । |
तद्वदन्धर्मतोऽर्थेषु जानन्नप्यन्य्था नरः । न स्वर्गाच्च्यवते लोकाद्दैवीं वाचं वदन्ति ताम् । । ८.१०३ । । |
शूद्रविट्क्षत्रविप्राणां यत्र र्तोक्तौ भवेद्वधः । तत्र वक्तव्यं अनृतं तद्धि सत्याद्विशिष्यते । । ८.१०४ । । |
वाग्गैवत्यैश्च चरुभिर्यजेरंस्ते सरस्वतीम् । अनृतस्यैनसस्तस्य कुर्वाणा निष्कृतिं पराम् । । ८.१०५ । । |
कूष्माण्डैर्वापि जुहुयाद्घृतं अग्नौ यथाविधि । उदित्यृचा वा वारुण्या तृचेनाब्दैवतेन वा । । ८.१०६ । । |
त्रिपक्षादब्रुवन्साक्ष्यं ऋणादिषु नरोऽगदः । तदृणं प्राप्नुयात्सर्वं दशबन्धं च सर्वतः । । ८.१०७ । । |
यस्य दृश्येत सप्ताहादुक्तवाक्यस्य साक्षिणः । रोगोऽग्निर्ज्ञातिमरणं ऋणं दाप्यो दमं च सः । । ८.१०८ । । |
असाक्षिकेषु त्वर्थेषु मिथो विवादमानयोः । अविन्दंस्तत्त्वतः सत्यं शपथेनापि लम्भयेत् । । ८.१०९ । । |
महर्षिभिश्च देवैश्च कार्यार्थं शपथाः कृताः । वसिष्ठश्चापि शपथं शेपे पैजवने नृपे । । ८.११० । । |
न वृथा शपथं कुर्यात्स्वल्पेऽप्यर्थे नरो बुधः । वृथा हि शपथं कुर्वन्प्रेत्य चेह च नश्यति । । ८.१११ । । |
कामिनीषु विवाहेषु गवां भक्ष्ये तथेन्धने । ब्राह्मणाभ्युपपत्तौ च शपथे नास्ति पातकम् । । ८.११२ । । |
सत्येन शापयेद्विप्रं क्षत्रियं वाहनायुधैः । गोबीजकाञ्चनैर्वैश्यं शूद्रं सर्वैस्तु पातकैः । । ८.११३ । । |
अग्निं वाहारयेदेनं अप्सु चैनं निमज्जयेत् । पुत्रदारस्य वाप्येनं शिरांसि स्पर्शयेत्पृथक् । । ८.११४ । । |
यं इद्धो न दहत्यग्निरापो नोन्मज्जयन्ति च । न चार्तिं ऋच्छति क्षिप्रं स ज्ञेयः शपथे शुचिः । । ८.११५ । । |
वत्सस्य ह्यभिशस्तस्य पुरा भ्रात्रा यवीयसा । नाग्निर्ददाह रोमापि सत्येन जगतः स्पशः । । ८.११६ । । |
यस्मिन्यस्मिन्विवादे तु कौटसाक्ष्यं कृतं भवेत् । तत्तत्कार्यं निवर्तेत कृतं चाप्यकृतं भवेत् । । ८.११७ । । |
लोभान्मोहाद्भयान्मैत्रात्कामात्क्रोधात्तथैव च । अज्ञानाद्बालभावाच्च साक्ष्यं वितथं उच्यते । । ८.११८ । । |
एषां अन्यतमे स्थाने यः साक्ष्यं अनृतं वदेत् । तस्य दण्डविशेषांस्तु प्रवक्ष्याम्यनुपूर्वशः । । ८.११९ । । |
लोभात्सहस्रं दण्ड्यस्तु मोहात्पूर्वं तु साहसम् । भयाद्द्वौ मध्यमौ दण्डौ मैत्रात्पूर्वं चतुर्गुणम् । । ८.१२० । । |
कामाद्दशगुणं पूर्वं क्रोधात्तु त्रिगुणं परम् । अज्ञानाद्द्वे शते पूर्णे बालिश्याच्छतं एव तु । । ८.१२१ । । |
एतानाहुः कौटसाक्ष्ये प्रोक्तान्दण्डान्मनीषिभिः । धर्मस्याव्यभिचारार्थं अधर्मनियमाय च । । ८.१२२ । । |
कौटसाक्ष्यं तु कुर्वाणांस्त्रीन्वर्णान्धार्मिको नृपः । प्रवासयेद्दण्डयित्वा ब्राह्मणं तु विवासयेत् । । ८.१२३ । । |
दश स्थानानि दण्डस्य मनुः स्वयंभुवोऽब्रवीत् । त्रिषु वर्णेषु यानि स्युरक्षतो ब्राह्मणो व्रजेत् । । ८.१२४ । । |
उपस्थं उदरं जिह्वा हस्तौ पादौ च पञ्चमम् । चक्षुर्नासा च कर्णौ च धनं देहस्तथैव च । । ८.१२५ । । |
अनुबन्धं परिज्ञाय देशकालौ च तत्त्वतः । सारापराधो चालोक्य दण्डं दण्ड्येषु पातयेत् । । ८.१२६ । । |
अधर्मदण्डनं लोके यशोघ्नं कीर्तिनाशनम् । अस्वर्ग्यं च परत्रापि तस्मात्तत्परिवर्जयेत् । । ८.१२७ । । |
अदण्ड्यान्दण्डयन्राजा दण्ड्यांश्चैवाप्यदण्डयन् । अयशो महदाप्नोति नरकं चैव गच्छति । । ८.१२८ । । |
वाग्दण्डं प्रथमं कुर्याद्धिग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डं अतः परम् । । ८.१२९ । । |
वधेनापि यदा त्वेतान्निग्रहीतुं न शक्नुयात् । तदैषु सर्वं अप्येतत्प्रयुञ्जीत चतुष्टयम् । । ८.१३० । । |
लोकसंव्यवहारार्थं याः संज्ञाः प्रथिता भुवि । ताम्ररूप्यसुवर्णानां ताः प्रवक्ष्याम्यशेषतः । । ८.१३१ । । |
जालान्तरगते भानौ यत्सूक्ष्मं दृश्यते रजः । प्रथमं तत्प्रमाणानां त्रसरेणुं प्रचक्षते । । ८.१३२ । । |
त्रसरेणवोऽष्टौ विज्ञेया लिक्षैका परिमाणतः । ता राजसर्षपस्तिस्रस्ते त्रयो गौरसर्षपः । । ८.१३३ । । |
सर्षपाः षड्यवो मध्यस्त्रियवं त्वेककृष्णलम् । पञ्चकृष्णलको माषस्ते सुवर्णस्तु षोडश । । ८.१३४ । । |
पलं सुवर्णाश्चत्वारः पलानि धरणं दश । द्वे कृष्णले समधृते विज्ञेयो रौप्यमाषकः । । ८.१३५ । । |
ते षोडश स्याद्धरणं पुराणश्चैव राजतः । कार्षापणस्तु विज्ञेयस्ताम्रिकः कार्षिकः पणः । । ८.१३६ । । |
धरणानि दश ज्ञेयः शतमानस्तु राजतः । चतुःसौवर्णिको निष्को विज्ञेयस्तु प्रमाणतः । । ८.१३७ । । |
पणानां द्वे शते सार्धे प्रथमः साहसः स्मृतः । मध्यमः पञ्च विज्ञेयः सहस्रं त्वेव चोत्तमः । । ८.१३८ । । |
ऋणे देये प्रतिज्ञाते पञ्चकं शतं अर्हति । अपह्नवे तद्द्विगुणं तन्मनोरनुशासनम् । । ८.१३९ । । |
वसिष्ठविहितां वृद्धिं सृजेद्वित्तविवर्धिनीम् । अशीतिभागं गृह्णीयान्मासाद्वार्धुषिकः शते । । ८.१४० । । |
द्विकं शतं वा गृह्णीयात्सतां धर्मं अनुस्मरन् । द्विकं शतं हि गृह्णानो न भवत्यर्थकिल्बिषी । । ८.१४१ । । |
द्विकं त्रिकं चतुष्कं च पञ्चकं च शतं समम् । मासस्य वृद्धिं गृह्णीयाद्वर्णानां अनुपूर्वशः । । ८.१४२ । । |
न त्वेवाधौ सोपकारे कौसीदीं वृद्धिं आप्नुयात् । न चाधेः कालसंरोधान्निसर्गोऽस्ति न विक्रयः । । ८.१४३ । । |
न भोक्तव्यो बलादाधिर्भुञ्जानो वृद्धिं उत्सृजेत् । मूल्येन तोषयेच्चैनं आधिस्तेनोऽन्यथा भवेत् । । ८.१४४ । । |
आधिश्चोपनिधिश्चोभौ न कालात्ययं अर्हतः । अवहार्यौ भवेतां तौ दीर्घकालं अवस्थितौ । । ८.१४५ । । |
संप्रीत्या भुज्यमानानि न नश्यन्ति कदा चन । धेनुरुष्ट्रो वहन्नश्वो यश्च दम्यः प्रयुज्यते । । ८.१४६ । । |
यत्किं चिद्दशवर्षाणि संनिधौ प्रेक्षते धनी । भुज्यमानं परैस्तूष्णीं न स तल्लब्धुं अर्हति । । ८.१४७ । । |
अजडश्चेदपोगण्डो विषये चास्य भुज्यते । भग्नं तद्व्यवहारेण भोक्ता तद्द्रव्यं अर्हति । । ८.१४८ । । |
आधिः सीमा बालधनं निक्षेपोपनिधिः स्त्रियः । राजस्वं श्रोत्रियस्वं च न भोगेन प्रणश्यति । । ८.१४९ । । |
यः स्वामिनाननुज्ञातं आधिं भूङ्क्तेऽविचक्षणः । तेनार्धवृद्धिर्मोक्तव्या तस्य भोगस्य निष्कृतिः । । ८.१५० । । |
कुसीदवृद्धिर्द्वैगुण्यं नात्येति सकृदाहृता । धान्ये सदे लवे वाह्ये नातिक्रामति पञ्चताम् । । ८.१५१ । । |
कृतानुसारादधिका व्यतिरिक्ता न सिध्यति । कुसीदपथं आहुस्तं पञ्चकं शतं अर्हति । । ८.१५२ । । |
नातिसांवत्सरीं वृद्धिं न चादृष्टां पुनर्हरेत् । चक्रवृद्धिः कालवृद्धिः कारिता कायिका च या । । ८.१५३ । । |
ऋणं दातुं अशक्तो यः कर्तुं इच्छेत्पुनः क्रियाम् । स दत्त्वा निर्जितां वृद्धिं करणं परिवर्तयेत् । । ८.१५४ । । |
अदर्शयित्वा तत्रैव हिरण्यं परिवर्तयेत् । यावती संभवेद्वृद्धिस्तावतीं दातुं अर्हति । । ८.१५५ । । |
चक्रवृद्धिं समारूढो देशकालव्यवस्थितः । अतिक्रामन्देशकालौ न तत्फलं अवाप्नुयात् । । ८.१५६ । । |
समुद्रयानकुशला देशकालार्थदर्शिनः । स्थापयन्ति तु यां वृद्धिं सा तत्राधिगमं प्रति । । ८.१५७ । । |
यो यस्य प्रतिभूस्तिष्ठेद्दर्शनायेह मानवः । अदर्शयन्स तं तस्य प्रयच्छेत्स्वधनादृणम् । । ८.१५८ । । |
प्रातिभाव्यं वृथादानं आक्षिकं सौरिकां च यत् । दण्डशुल्कावशेषं च न पुत्रो दातुं अर्हति । । ८.१५९ । । |
दर्शनप्रातिभाव्ये तु विधिः स्यात्पूर्वचोदितः । दानप्रतिभुवि प्रेते दायादानपि दापयेत् । । ८.१६० । । |
अदातरि पुनर्दाता विज्ञातप्रकृतावृणम् । पश्चात्प्रतिभुवि प्रेते परीप्सेत्केन हेतुना । । ८.१६१ । । |
निरादिष्टधनश्चेत्तु प्रतिभूः स्यादलंधनः । स्वधनादेव तद्दद्यान्निरादिष्ट इति स्थितिः । । ८.१६२ । । |
मत्तोन्मत्तार्ताध्यधीनैर्बालेन स्थविरेण वा । असंबद्धकृतश्चैव व्यावहारो न सिध्यति । । ८.१६३ । । |
सत्या न भाषा भवति यद्यपि स्यात्प्रतिष्ठिता । बहिश्चेद्भाष्यते धर्मान्नियताद्व्यवहारिकात् । । ८.१६४ । । |
योगाधमनविक्रीतं योगदानप्रतिग्रहम् । यत्र वाप्युपधिं पश्येत्तत्सर्वं विनिवर्तयेत् । । ८.१६५ । । |
ग्रहीता यदि नष्टः स्यात्कुटुम्बार्थे कृतो व्ययः । दातव्यं बान्धवैस्तत्स्यात्प्रविभक्तैरपि स्वतः । । ८.१६६ । । |
कुटुम्बार्थेऽध्यधीनोऽपि व्यवहारं यं आचरेत् । स्वदेशे वा विदेशे वा तं ज्यायान्न विचालयेत् । । ८.१६७ । । |
बलाद्दत्तं बलाद्भुक्तं बलाद्यच्चापि लेखितम् । सर्वान्बलकृतानर्थानकृतान्मनुरब्रवीत् । । ८.१६८ । । |
त्रयः परार्थे क्लिश्यन्ति साक्षिणः प्रतिभूः कुलम् । चत्वारस्तूपचीयन्ते विप्र आढ्यो वणिङ्नृपः । । ८.१६९ । । |
अनादेयं नाददीत परिक्षीणोऽपि पार्थिवः । न चादेयं समृद्धोऽपि सूक्ष्मं अप्यर्थं उत्सृजेत् । । ८.१७० । । |
अनादेयस्य चादानादादेयस्य च वर्जनात् । दौर्बल्यं ख्याप्यते राज्ञः स प्रेत्येह च नश्यति । । ८.१७१ । । |
स्वादानाद्वर्णसंसर्गात्त्वबलानां च रक्षणात् । बलं संजायते राज्ञः स प्रेत्येह च वर्धते । । ८.१७२ । । |
तस्माद्यम इव स्वामी स्वयं हित्वा प्रियाप्रिये । वर्तेत याम्यया वृत्त्या जितक्रोधो जितेन्द्रियः । । ८.१७३ । । |
यस्त्वधर्मेण कार्याणि मोहात्कुर्यान्नराधिपः । अचिरात्तं दुरात्मानं वशे कुर्वन्ति शत्रवः । । ८.१७४ । । |
कामक्रोधौ तु संयम्य योऽर्थान्धर्मेण पश्यति । प्रजास्तं अनुवर्तन्ते समुद्रं इव सिन्धवः । । ८.१७५ । । |
यः साधयन्तं छन्देन वेदयेद्धनिकं नृपे । स राज्ञा तच्चतुर्भागं दाप्यस्तस्य च तद्धनम् । । ८.१७६ । । |
कर्मणापि समं कुर्याद्धनिकायाधमर्णिकः । समोऽवकृष्टजातिस्तु दद्याच्छ्रेयांस्तु तच्छनैः । । ८.१७७ । । |
अनेन विधिना राजा मिथो विवदतां नृणाम् । साक्षिप्रत्ययसिद्धानि कार्याणि समतां नयेत् । । ८.१७८ । । |
कुलजे वृत्तसंपन्ने धर्मज्ञे सत्यवादिनि । महापक्षे धनिन्यार्ये निक्षेपं निक्षिपेद्बुधः । । ८.१७९ । । |
यो यथा निक्षिपेद्धस्ते यं अर्थं यस्य मानवः । स तथैव ग्रहीतव्यो यथा दायस्तथा ग्रहः । । ८.१८० । । |
यो निक्षेपं याच्यमानो निक्षेप्तुर्न प्रयच्छति । स याच्यः प्राड्विवाकेन तन्निक्षेप्तुरसंनिधौ । । ८.१८१ । । |
साक्ष्यभावे प्रणिधिभिर्वयोरूपसमन्वितैः । अपदेशैश्च संन्यस्य हिरण्यं तस्य तत्त्वतः । । ८.१८२ । । |
स यदि प्रतिपद्येत यथान्यस्तं यथाकृतम् । न तत्र विद्यते किं चिद्यत्परैरभियुज्यते । । ८.१८३ । । |
तेषां न दद्याद्यदि तु तद्धिरण्यं यथाविधि । उभौ निगृह्य दाप्यः स्यादिति धर्मस्य धारणा । । ८.१८४ । । |
निक्षेपोपनिधी नित्यं न देयौ प्रत्यनन्तरे । नश्यतो विनिपाते तावनिपाते त्वनाशिनौ । । ८.१८५ । । |
स्वयं एव तु यौ दद्यान्मृतस्य प्रत्यनन्तरे । न स राज्ञाभियोक्तव्यो न निक्षेप्तुश्च बन्धुभिः । । ८.१८६ । । |
अच्छलेनैव चान्विच्छेत्तं अर्थं प्रीतिपूर्वकम् । विचार्य तस्य वा वृत्तं साम्नैव परिसाधयेत् । । ८.१८७ । । |
निक्षेपेष्वेषु सर्वेषु विधिः स्यात्परिसाधने । समुद्रे नाप्नुयात्किं चिद्यदि तस्मान्न संहरेत् । । ८.१८८ । । |
चौरैर्हृतं जलेनोढं अग्निना दग्धं एव वा । न दद्याद्यदि तस्मात्स न संहरति किं चन । । ८.१८९ । । |
निक्षेपस्यापहर्तारं अनिक्षेप्तारं एव च । सर्वैरुपायैरन्विच्छेच्छपथैश्चैव वैदिकैः । । ८.१९० । । |
यो निक्षेपं नार्पयति यश्चानिक्षिप्य याचते । तावुभौ चौरवच्छास्यौ दाप्यौ वा तत्समं दमम् । । ८.१९१ । । |
निक्षेपस्यापहर्तारं तत्समं दापयेद्दमम् । तथोपनिधिहर्तारं अविशेषेण पार्थिवः । । ८.१९२ । । |
उपधाभिश्च यः कश्चित्परद्रव्यं हरेन्नरः । ससहायः स हन्तव्यः प्रकाशं विविधैर्वधैः । । ८.१९३ । । |
निक्षेपो यः कृतो येन यावांश्च कुलसंनिधौ । तावानेव स विज्ञेयो विब्रुवन्दण्डं अर्हति । । ८.१९४ । । |
मिथो दायः कृतो येन गृहीतो मिथ एव वा । मिथ एव प्रदातव्यो यथा दायस्तथा ग्रहः । । ८.१९५ । । |
निक्षिप्तस्य धनस्यैवं प्रीत्योपनिहितस्य च । राजा विनिर्णयं कुर्यादक्षिण्वन्न्यासधारिणम् । । ८.१९६ । । |
विक्रीणीते परस्य स्वं योऽस्वामी स्वाम्यसम्मतः । न तं नयेत साक्ष्यं तु स्तेनं अस्तेनमानिनम् । । ८.१९७ । । |
अवहार्यो भवेच्चैव सान्वयः षट्शतं दमम् । निरन्वयोऽनपसरः प्राप्तः स्याच्चौरकिल्बिषम् । । ८.१९८ । । |
अस्वामिना कृतो यस्तु दायो विक्रय एव वा । अकृतः स तु विज्ञेयो व्यवहारे यथा स्थितिः । । ८.१९९ । । |
संभोगो दृश्यते यत्र न दृश्येतागमः क्व चित् । आगमः कारणं तत्र न संभोग इति स्थितिः । । ८.२०० । । |
विक्रयाद्यो धनं किं चिद्गृह्णीयत्कुलसंनिधौ । क्रयेण स विशुद्धं हि न्यायतो लभते धनम् । । ८.२०१ । । |
अथ मूलं अनाहार्यं प्रकाशक्रयशोधितः । अदण्ड्यो मुच्यते राज्ञा नाष्टिको लभते धनम् । । ८.२०२ । । |
नान्यदन्येन संसृष्ट रूपं विक्रयं अर्हति । न चासारं न च न्यूनं न दूरेण तिरोहितम् । । ८.२०३ । । |
अन्यां चेद्दर्शयित्वान्या वोढुः कन्या प्रदीयते । उभे त एकशुल्केन वहेदित्यब्रवीन्मनुः । । ८.२०४ । । |
नोन्मत्ताया न कुष्ठिन्या न च या स्पृष्टमैथुना । पूर्वं दोषानभिख्याप्य प्रदाता दण्डं अर्हति । । ८.२०५ । । |
ऋत्विग्यदि वृतो यज्ञे स्वकर्म परिहापयेत् । तस्य कर्मानुरूपेण देयोऽंशः सहकर्तृभिः । । ८.२०६ । । |
दक्षिणासु च दत्तासु स्वकर्म परिहापयन् । कृत्स्नं एव लभेतांशं अन्येनैव च कारयेत् । । ८.२०७ । । |
यस्मिन्कर्मणि यास्तु स्युरुक्ताः प्रत्यङ्गदक्षिणाः । स एव ता आदिदीत भजेरन्सर्व एव वा । । ८.२०८ । । |
रथं हरेत्चाध्वर्युर्ब्रह्माधाने च वाजिनम् । होता वापि हरेदश्वं उद्गाता चाप्यनः क्रये । । ८.२०९ । । |
सर्वेषां अर्धिनो मुख्यास्तदर्धेनार्धिनोऽपरे । तृतीयिनस्तृतीयांशाश्चतुर्थांशाश्च पादिनः । । ८.२१० । । |
संभूय स्वानि कर्माणि कुर्वद्भिरिह मानवैः । अनेन विधियोगेन कर्तव्यांशप्रकल्पना । । ८.२११ । । |
धर्मार्थं येन दत्तं स्यात्कस्मै चिद्याचते धनम् । पश्चाच्च न तथा तत्स्यान्न देयं तस्य तद्भवेत् । । ८.२१२ । । |
यदि संसाधयेत्तत्तु दर्पाल्लोभेन वा पुनः । राज्ञा दाप्यः सुवर्णं स्यात्तस्य स्तेयस्य निष्कृतिः । । ८.२१३ । । |
दत्तस्यैषोदिता धर्म्या यथावदनपक्रिया । अत ऊर्ध्वं प्रवक्ष्यामि वेतनस्यानपक्रियाम् । । ८.२१४ । । |
भृतो नार्तो न कुर्याद्यो दर्पात्कर्म यथोदितम् । स दण्ड्यः कृष्णलान्यष्टौ न देयं चास्य वेतनम् । । ८.२१५ । । |
आर्तस्तु कुर्यात्स्वस्थः सन्यथाभाषितं आदितः । स दीर्घस्यापि कालस्य तल्लभेतैव वेतनम् । । ८.२१६ । । |
यथोक्तं आर्तः सुस्थो वा यस्तत्कर्म न कारयेत् । न तस्य वेतनं देयं अल्पोनस्यापि कर्मणः । । ८.२१७ । । |
एष धर्मोऽखिलेनोक्तो वेतनादानकर्मणः । अत ऊर्ध्वं प्रवक्ष्यामि धर्मं समयभेदिनाम् । । ८.२१८ । । |
यो ग्रामदेशसंघानां कृत्वा सत्येन संविदम् । विसंवदेन्नरो लोभात्तं राष्ट्राद्विप्रवासयेत् । । ८.२१९ । । |
निगृह्य दापयेच्चैनं समयव्यभिचारिणम् । चतुःसुवर्णान्षण्निष्कांश्छतमानं च राजकम् । । ८.२२० । । |
एतद्दण्डविधिं कुर्याद्धार्मिकः पृथिवीपतिः । ग्रामजातिसमूहेषु समयव्यभिचारिणाम् । । ८.२२१ । । |
क्रीत्वा विक्रीय वा किं चिद्यस्येहानुशयो भवेत् । सोऽन्तर्दशाहात्तद्द्रव्यं दद्याच्चैवाददीत वा । । ८.२२२ । । |
परेण तु दशाहस्य न दद्यान्नापि दापयेत् । आददानो ददत्चैव राज्ञा दण्ड्यौ शतानि षट् । । ८.२२३ । । |
यस्तु दोषवतीं कन्यां अनाख्याय प्रयच्छति । तस्य कुर्यान्नृपो दण्डं स्वयं षण्णवतिं पणान् । । ८.२२४ । । |
अकन्येति तु यः कन्यां ब्रूयाद्द्वेषेण मानवः । स शतं प्राप्नुयाद्दण्डं तस्या दोषं अदर्शयन् । । ८.२२५ । । |
पाणिग्रहणिका मन्त्राः कन्यास्वेव प्रतिष्ठिताः । नाकन्यासु क्व चिन्नॄणां लुप्तधर्मक्रिया हि ताः । । ८.२२६ । । |
पाणिग्रहणिका मन्त्रा नियतं दारलक्षणम् । तेषां निष्ठा तु विज्ञेया विद्वद्भिः सप्तमे पदे । । ८.२२७ । । |
यस्मिन्यस्मिन्कृते कार्ये यस्येहानुशयो भवेत् । तं अनेन विधानेन धर्म्ये पथि निवेशयेत् । । ८.२२८ । । |
पशुषु स्वामिनां चैव पालानां च व्यतिक्रमे । विवादं संप्रवक्ष्यामि यथावद्धर्मतत्त्वतः । । ८.२२९ । । |
दिवा वक्तव्यता पाले रात्रौ स्वामिनि तद्गृहे । योगक्षेमेऽन्यथा चेत्तु पालो वक्तव्यतां इयात् । । ८.२३० । । |
गोपः क्षीरभृतो यस्तु स दुह्याद्दशतो वराम् । गोस्वाम्यनुमते भृत्यः सा स्यात्पालेऽभृते भृतिः । । ८.२३१ । । |
नष्टं विनष्टं कृमिभिः श्वहतं विषमे मृतम् । हीनं पुरुषकारेण प्रदद्यात्पाल एव तु । । ८.२३२ । । |
विघुष्य तु हृतं चौरैर्न पालो दातुं अर्हति । यदि देशे च काले च स्वामिनः स्वस्य शंसति । । ८.२३३ । । |
कर्णौ चर्म च वालांश्च बस्तिं स्नायुं च रोचनाम् । पशुषु स्वामिनां दद्यान्मृतेष्वङ्कानि दर्शयेत् । । ८.२३४ । । |
अजाविके तु संरुद्धे वृकैः पाले त्वनायति । यां प्रसह्य वृको हन्यात्पाले तत्किल्बिषं भवेत् । । ८.२३५ । । |
तासां चेदवरुद्धानां चरन्तीनां मिथो वने । यां उत्प्लुत्य वृको हन्यान्न पालस्तत्र किल्बिषी । । ८.२३६ । । |
धनुःशतं परीहारो ग्रामस्य स्यात्समन्ततः । शम्यापातास्त्रयो वापि त्रिगुणो नगरस्य तु । । ८.२३७ । । |
तत्रापरिवृतं धान्यं विहिंस्युः पशवो यदि । न तत्र प्रणयेद्दण्डं नृपतिः पशुरक्षिणाम् । । ८.२३८ । । |
वृतिं तत्र प्रकुर्वीत यां उष्ट्रो न विलोकयेत् । छिद्रं च वारयेत्सर्वं श्वसूकरमुखानुगम् । । ८.२३९ । । |
पथि क्षेत्रे परिवृते ग्रामान्तीयेऽथ वा पुनः । सपालः शतदण्डार्हो विपालान्वारयेत्पशून् । । ८.२४० । । |
क्षेत्रेष्वन्येषु तु पशुः सपादं पणं अर्हति । सर्वत्र तु सदो देयः क्षेत्रिकस्येति धारणा । । ८.२४१ । । |
अनिर्दशाहां गां सूतां वृषान्देवपशूंस्तथा । सपालान्वा विपालान्वा न दण्ड्यान्मनुरब्रवीत् । । ८.२४२ । । |
क्षेत्रियस्यात्यये दण्डो भागाद्दशगुणो भवेत् । ततोऽर्धदण्डो भृत्यानां अज्ञानात्क्षेत्रिकस्य तु । । ८.२४३ । । |
एतद्विधानं आतिष्ठेद्धार्मिकः पृथिवीपतिः । स्वामिनां च पशूनां च पालानां च व्यतिक्रमे । । ८.२४४ । । |
सीमां प्रति समुत्पन्ने विवादे ग्रामयोर्द्वयोः । ज्येष्ठे मासि नयेत्सीमां सुप्रकाशेषु सेतुषु । । ८.२४५ । । |
सींआवृक्षांश्च कुर्वीत न्यग्रोधाश्वत्थकिंशुकान् । शाल्मलीन्सालतालांश्च क्षीरिणश्चैव पादपान् । । ८.२४६ । । |
गुल्मान्वेणूंश्च विविधान्शमीवल्लीस्थलानि च । शरान्कुब्जकगुल्मांश्च तथा सीमा न नश्यति । । ८.२४७ । । |
तडागान्युदपानानि वाप्यः प्रस्रवणानि च । । ८.२४८अ[ं२५०] । । सीमासंधिषु कार्याणि देवतायतनानि च । । ८.२४८[ं२५०च्] । । |
उपछन्नानि चान्यानि सीमालिङ्गानि कारयेत् । सीमाज्ञाने नृणां वीक्ष्य नित्यं लोके विपर्ययम् । । ८.२४९ । । |
अश्मनोऽस्थीनि गोवालांस्तुषान्भस्म कपालिकाः । करीषं इष्टकाङ्गारांश्शर्करा वालुकास्तथा । । ८.२५०[ं२४८] । । |
यानि चैवंप्रकाराणि कालाद्भूमिर्न भक्षयेत् । तानि संधिषु सीमायां अप्रकाशानि कारयेत् । । ८.२५१ । । |
एतैर्लिङ्गैर्नयेत्सीमां राजा विवदमानयोः । पूर्वभुक्त्या च सततं उदकस्यागमेन च । । ८.२५२ । । |
यदि संशय एव स्याल्लिङ्गानां अपि दर्शने । साक्षिप्रत्यय एव स्यात्सीमावादविनिर्णयः । । ८.२५३ । । |
ग्रामीयककुलानां च समक्षं सीम्नि साक्षिणः । प्रष्टव्याः सीमलिङ्गानि तयोश्चैव विवादिनोः । । ८.२५४ । । |
ते पृष्टास्तु यथा ब्रूयुः समस्ताः सीम्नि निश्चयम् । निबध्नीयात्तथा सीमां सर्वांस्तांश्चैव नामतः । । ८.२५५ । । |
शिरोभिस्ते गृहीत्वोर्वीं स्रग्विणो रक्तवाससः । सुकृतैः शापिथाः स्वैः स्वैर्नयेयुस्ते समञ्जसम् । । ८.२५६ । । |
यथोक्तेन नयन्तस्ते पूयन्ते सत्यसाक्षिणः । विपरीतं नयन्तस्तु दाप्याः स्युर्द्विशतं दमम् । । ८.२५७ । । |
साक्ष्यभावे तु चत्वारो ग्रामाः सामन्तवासिनः । सीमाविनिर्णयं कुर्युः प्रयता राजसंनिधौ । । ८.२५८ । । |
सामन्तानां अभावे तु मौलानां सीम्नि साक्षिणाम् । इमानप्यनुयुञ्जीत पुरुषान्वनगोचरान् । । ८.२५९ । । |
व्याधाञ् शाकुनिकान्गोपान्कैवर्तान्मूलखानकान् । व्यालग्राहानुञ्छवृत्तीनन्यांश्च वनचारिणः । । ८.२६० । । |
ते पृष्टास्तु यथा ब्रूयुः सीमासंधिषु लक्षणम् । तत्तथा स्थापयेद्राजा धर्मेण ग्रामयोर्द्वयोः । । ८.२६१ । । |
क्षेत्रकूपतडागानां आरामस्य गृहस्य च । सामन्तप्रत्ययो ज्ञेयः सीमासेतुविनिर्णयः । । ८.२६२ । । |
सामन्ताश्चेन्मृषा ब्रूयुः सेतौ विवादतां नृणाम् । सर्वे पृथक्पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । । ८.२६३ । । |
गृहं तडागं आरामं क्षेत्रं वा भीषया हरन् । शतानि पञ्च दण्ड्यः स्यादज्ञानाद्द्विशतो दमः । । ८.२६४ । । |
सीमायां अविषह्यायां स्वयं राजैव धर्मवित् । प्रदिशेद्भूमिं एकेषां उपकारादिति स्थितिः । । ८.२६५ । । |
एषोऽखिलेनाभिहितो धर्मः सीमाविनिर्णये । अत ऊर्ध्वं प्रवक्ष्यामि वाक्पारुष्यविनिर्णयम् । । ८.२६६ । । |
शतं ब्राह्मणं आक्रुश्य क्षत्रियो दण्डं अर्हति । वैश्योऽप्यर्धशतं द्वे वा शूद्रस्तु वधं अर्हति । । ८.२६७ । । |
पञ्चाशद्ब्राह्मणो दण्ड्यः क्षत्रियस्याभिशंसने । वैश्ये स्यादर्धपञ्चाशच्छूद्रे द्वादशको दमः । । ८.२६८ । । |
समवर्णे द्विजातीनां द्वादशैव व्यतिक्रमे । वादेष्ववचनीयेषु तदेव द्विगुणं भवेत् । । ८.२६९ । । |
एकजातिर्द्विजातींस्तु वाचा दारुणया क्षिपन् । जिह्वायाः प्राप्नुयाच्छेदं जघन्यप्रभवो हि सः । । ८.२७० । । |
नामजातिग्रहं त्वेषां अभिद्रोहेण कुर्वतः । निक्षेप्योऽयोमयः शङ्कुर्ज्वलन्नास्ये दशाङ्गुलः । । ८.२७१ । । |
धर्मोपदेशं दर्पेण विप्राणां अस्य कुर्वतः । तप्तं आसेचयेत्तैलं वक्त्रे श्रोत्रे च पार्थिवः । । ८.२७२ । । |
श्रुतं देशं च जातिं च कर्म शरीरं एव च । वितथेन ब्रुवन्दर्पाद्दाप्यः स्याद्द्विशतं दमम् । । ८.२७३ । । |
काणं वाप्यथ वा खञ्जं अन्यं वापि तथाविधम् । तथ्येनापि ब्रुवन्दाप्यो दण्डं कार्षापणावरम् । । ८.२७४ । । |
मातरं पितरं जायां भ्रातरं तनयं गुरुम् । आक्षारयञ् शतं दाप्यः पन्थानं चाददद्गुरोः । । ८.२७५ । । |
ब्राह्मणक्षत्रियाभ्यां तु दण्डः कार्यो विजानता । ब्राह्मणे साहसः पूर्वः क्षत्रिये त्वेव मध्यमः । । ८.२७६ । । |
विट्शूद्रयोरेवं एव स्वजातिं प्रति तत्त्वतः । छेदवर्जं प्रणयनं दण्डस्येति विनिश्चयः । । ८.२७७ । । |
एष दण्डविधिः प्रोक्तो वाक्पारुष्यस्य तत्त्वतः । अत ऊर्ध्वं प्रवक्ष्यामि दण्डपारुष्यनिर्णयम् । । ८.२७८ । । |
येन केन चिदङ्गेन हिंस्याच्चेच्छ्रेष्ठं अन्त्यजः । छेत्तव्यं तद्तदेवास्य तन्मनोरनुशासनम् । । ८.२७९ । । |
पाणिं उद्यम्य दण्डं वा पाणिच्छेदनं अर्हति । पादेन प्रहरन्कोपात्पादच्छेदनं अर्हति । । ८.२८० । । |
सहासनं अभिप्रेप्सुरुत्कृष्टस्यापकृष्टजः । कट्यां कृताङ्को निर्वास्यः स्फिचं वास्यावकर्तयेत् । । ८.२८१ । । |
अवनिष्ठीवतो दर्पाद्द्वावोष्ठौ छेदयेन्नृपः । अवमूत्रयतो मेढ्रं अवशर्धयतो गुदम् । । ८.२८२ । । |
केशेषु गृह्णतो हस्तौ छेदयेदविचारयन् । पादयोर्दाढिकायां च ग्रीवायां वृषणेषु च । । ८.२८३ । । |
त्वग्भेदकः शतं दण्ड्यो लोहितस्य च दर्शकः । मांसभेत्ता तु षण्निष्कान्प्रवास्यस्त्वस्थिभेदकः । । ८.२८४ । । |
वनस्पतीनां सर्वेषां उपभोगो यथा यथा । यथा तथा दमः कार्यो हिंसायां इति धारणा । । ८.२८५ । । |
मनुष्याणां पशूनां च दुःखाय प्रहृते सति । यथा यथा महद्दुःखं दण्डं कुर्यात्तथा तथा । । ८.२८६ । । |
अङ्गावपीडनायां च व्रणशोनितयोस्तथा । समुत्थानव्ययं दाप्यः सर्वदण्डं अथापि वा । । ८.२८७ । । |
द्रव्याणि हिंस्याद्यो यस्य ज्ञानतोऽज्ञानतोऽपि वा । स तस्योत्पादयेत्तुष्टिं राज्ञे दद्याच्च तत्समम् । । ८.२८८ । । |
चर्मचार्मिकभाण्डेषु काष्ठलोष्टमयेषु । मूल्यात्पञ्चगुणो दण्डः पुष्पमूलफलेषु च । । ८.२८९ । । |
यानस्य चैव यातुश्च यानस्वामिन एव च । दशातिवर्तनान्याहुः शेषे दण्डो विधीयते । । ८.२९० । । |
छिन्ननास्ये भग्नयुगे तिर्यक्प्रतिमुखागते । अक्षभङ्गे च यानस्य चक्रभङ्गे तथैव च । । ८.२९१ । । |
छेदने चैव यन्त्राणां योक्त्ररश्म्योस्तथैव च । आक्रन्दे चाप्यपैहीति न दण्डं मनुरब्रवीत् । । ८.२९२ । । |
यत्रापवर्तते युग्यं वैगुण्यात्प्राजकस्य तु । तत्र स्वामी भवेद्दण्ड्यो हिंसायां द्विशतं दमम् । । ८.२९३ । । |
प्राजकश्चेद्भवेदाप्तः प्राजको दण्डं अर्हति । युग्यस्थाः प्राजकेऽनाप्ते सर्वे दण्ड्याः शतं शतम् । । ८.२९४ । । |
स चेत्तु पथि संरुद्धः पशुभिर्वा रथेन वा । प्रमापयेत्प्राणभृतस्तत्र दण्डोऽविचारितः । । ८.२९५ । । |
मनुष्यमारणे क्षिप्रं चौरवत्किल्बिषं भवेत् । प्राणभृत्सु महत्स्वर्धं गोगजोष्ट्रहयादिषु । । ८.२९६ । । |
क्षुद्रकाणां पशूनां तु हिंसायां द्विशतो दमः । पञ्चाशत्तु भवेद्दण्डः शुभेषु मृगपक्षिषु । । ८.२९७ । । |
गर्धभाजाविकानां तु दण्डः स्यात्पञ्चमाषिकः । माषिकस्तु भवेद्दण्डः श्वसूकरनिपातने । । ८.२९८ । । |
भार्या पुत्रश्च दासश्च प्रेष्यो भ्रात्रा च सोदरः । प्राप्तापराधास्ताड्याः स्यू रज्ज्वा वेणुदलेन वा । । ८.२९९ । । |
पृष्ठतस्तु शरीरस्य नोत्तमाङ्गे कथं चन । अतोऽन्यथा तु प्रहरन्प्राप्तः स्याच्चौरकिल्बिषम् । । ८.३०० । । |
एषोऽखिलेनाभिहितो दण्डपारुष्यनिर्णयः । स्तेनस्यातः प्रवक्ष्यामि विधिं दण्डविनिर्णये । । ८.३०१ । । |
परमं यत्नं आतिष्ठेत्स्तेनानां निग्रहे नृपः । स्तेनानां निग्रहादस्य यशो राष्ट्रं च वर्धते । । ८.३०२ । । |
अभयस्य हि यो दाता स पूज्यः सततं नृपः । सत्त्रं हि वर्धते तस्य सदैवाभयदक्षिणम् । । ८.३०३ । । |
सर्वतो धर्मषड्भागो राज्ञो भवति रक्षतः । अधर्मादपि षड्भागो भवत्यस्य ह्यरक्षतः । । ८.३०४ । । |
यदधीते यद्यजते यद्ददाति यदर्चति । तस्य षड्भागभाग्राजा सम्यग्भवति रक्षणात् । । ८.३०५ । । |
रक्षन्धर्मेण भूतानि राजा वध्यांश्च घातयन् । यजतेऽहरहर्यज्ञैः सहस्रशतदक्षिणैः । । ८.३०६ । । |
योऽरक्षन्बलिं आदत्ते करं शुल्कं च पार्थिवः । प्रतिभागं च दण्डं च स सद्यो नरकं व्रजेत् । । ८.३०७ । । |
अरक्षितारं राजानं बलिषड्भागहारिणम् । तं आहुः सर्वलोकस्य समग्रमलहारकम् । । ८.३०८ । । |
अनपेक्षितमर्यादं नास्तिकं विप्रलुंपकम् । अरक्षितारं अत्तारं नृपं विद्यादधोगतिम् । । ८.३०९ । । |
अधार्मिकं त्रिभिर्न्यायैर्निगृह्णीयात्प्रयत्नतः । निरोधनेन बन्धेन विविधेन वधेन च । । ८.३१० । । |
निग्रहेण हि पापानां साधूनां संग्रहेण च । द्विजातय इवेज्याभिः पूयन्ते सततं नृपाः । । ८.३११ । । |
क्षन्तव्यं प्रभुणा नित्यं क्षिपतां कार्यिणां नृणाम् । बालवृद्धातुराणां च कुर्वता हितं आत्मनः । । ८.३१२ । । |
यः क्षिप्तो मर्षयत्यार्तैस्तेन स्वर्गे महीयते । यस्त्वैश्वर्यान्न क्षमते नरकं तेन गच्छति । । ८.३१३ । । |
राजा स्तेनेन गन्तव्यो मुक्तकेशेन धावता । आचक्षाणेन तत्स्तेयं एवंकर्मास्मि शाधि माम् । । ८.३१४ । । |
स्कन्धेनादाय मुसलं लगुडं वापि खादिरम् । शक्तिं चोभयतस्तीक्ष्णां आयसं दण्डं एव वा । । ८.३१५ । । |
शासनाद्वा विमोक्षाद्वा स्तेनः स्तेयाद्विमुच्यते । अशासित्वा तु तं राजा स्तेनस्याप्नोति किल्बिषम् । । ८.३१६ । । |
अन्नादे भ्रूणहा मार्ष्टि पत्यौ भार्यापचारिणी । गुरौ शिष्यश्च याज्यश्च स्तेनो राजनि किल्बिषम् । । ८.३१७ । । |
राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गं आयान्ति सन्तः सुकृतिनो यथा । । ८.३१८ । । |
यस्तु रज्जुं घटं कूपाद्धरेद्भिन्द्याच्च यः प्रपाम् । स दण्डं प्राप्नुयान्माषं तच्च तस्मिन्समाहरेत् । । ८.३१९ । । |
धान्यं दशभ्यः कुम्भेभ्यो हरतोऽभ्यधिकं वधः । शेषेऽप्येकादशगुणं दाप्यस्तस्य च तद्धनम् । । ८.३२० । । |
तथा धरिममेयानां शतादभ्यधिके वधः । सुवर्णरजतादीनां उत्तमानां च वाससाम् । । ८.३२१ । । |
पञ्चाशतस्त्वभ्यधिके हस्तच्छेदनं इष्यते । शेषे त्वेकादशगुणं मूल्याद्दण्डं प्रकल्पयेत् । । ८.३२२ । । |
पुरुषाणां कुलीनानां नारीणां च विशेषतः । मुख्यानां चैव रत्नानां हरणे वधं अर्हति । । ८.३२३ । । |
महापशूनां हरणे शस्त्राणां औषधस्य च । कालं आसाद्य कार्यं च दण्डं राजा प्रकल्पयेत् । । ८.३२४ । । |
गोषु ब्राह्मणसंस्थासु छुरिकायाश्च भेदने । पशूनां हरणे चैव सद्यः कार्योऽर्धपादिकः । । ८.३२५ । । |
सूत्रकार्पासकिण्वानां गोमयस्य गुडस्य च । दध्नः क्षीरस्य तक्रस्य पानीयस्य तृणस्य च । । ८.३२६ । । |
वेणुवैदलभाण्डानां लवणानां तथैव च । मृण्मयानां च हरणे मृदो भस्मन एव च । । ८.३२७ । । |
मत्स्यानां पक्षिणां चैव तैलस्य च घृतस्य च । मांसस्य मधुनश्चैव यच्चान्यत्पशुसंभवम् । । ८.३२८ । । |
अन्येषां चैवमादीनां मद्यानां ओदनस्य च । पक्वान्नानां च सर्वेषां तन्मुल्याद्द्विगुणो दमः । । ८.३२९ । । |
पुष्पेषु हरिते धान्ये गुल्मवल्लीनगेषु च । अन्येष्वपरिपूतेषु दण्डः स्यात्पञ्चकृष्णलः । । ८.३३० । । |
परिपूतेषु धान्येषु शाकमूलफलेषु च । निरन्वये शतं दण्डः सान्वयेऽर्धशतं दमः । । ८.३३१ । । |
स्यात्साहसं त्वन्वयवत्प्रसभं कर्म यत्कृतम् । निरन्वयं भवेत्स्तेयं हृत्वापव्ययते च यत् । । ८.३३२ । । |
यस्त्वेतान्युपक्ल्प्तानि द्रव्याणि स्तेनयेन्नरः । तं आद्यं दण्डयेद्राजा यश्चाग्निं चोरयेद्गृहात् । । ८.३३३ । । |
येन येन यथाङ्गेन स्तेनो नृषु विचेष्टते । तत्तदेव हरेत्तस्य प्रत्यादेशाय पार्थिवः । । ८.३३४ । । |
पिताचार्यः सुहृन्माता भार्या पुत्रः पुरोहितः । नादण्ड्यो नाम राज्ञोऽस्ति यः स्वधर्मे न तिष्ठति । । ८.३३५ । । |
कार्षापणं भवेद्दण्ड्यो यत्रान्यः प्राकृतो जनः । तत्र राजा भवेद्दण्ड्यः सहस्रं इति धारणा । । ८.३३६ । । |
अष्टापाद्यं तु शूद्रस्य स्तेये भवति किल्बिषम् । षोडशैव तु वैश्यस्य द्वात्रिंशत्क्षत्रियस्य च । । ८.३३७ । । |
ब्राह्मणस्य चतुःषष्टिः पूर्णं वापि शतं भवेत् । द्विगुणा वा चतुःषष्टिस्तद्दोषगुणविद्धि सः । । ८.३३८ । । |
वानस्पत्यं मूलफलं दार्वग्न्यर्थं तथैव च । तृणं च गोभ्यो ग्रासार्थं अस्तेयं मनुरब्रवीत् । । ८.३३९ । । |
योऽदत्तादायिनो हस्ताल्लिप्सेत ब्राह्मणो धनम् । याजनाध्यापनेनापि यथा स्तेनस्तथैव सः । । ८.३४० । । |
द्विजोऽध्वगः क्षीणवृत्तिर्द्वाविक्षू द्वे च मूलके । आददानः परक्षेत्रान्न दण्डं दातुं अर्हति । । ८.३४१ । । |
असंदितानां संदाता संदितानां च मोक्षकः । दासाश्वरथहर्ता च प्राप्तः स्याच्चोरकिल्बिषम् । । ८.३४२ । । |
अनेन विधिना राजा कुर्वाणः स्तेननिग्रहम् । यशोऽस्मिन्प्राप्नुयाल्लोके प्रेत्य चानुत्तमं सुखम् । । ८.३४३ । । |
ऐन्द्रं स्थानं अभिप्रेप्सुर्यशश्चाक्षयं अव्ययम् । नोपेक्षेत क्षणं अपि राजा साहसिकं नरम् । । ८.३४४ । । |
वाग्दुष्टात्तस्कराच्चैव दण्डेनैव च हिंसतः । साहसस्य नरः कर्ता विज्ञेयः पापकृत्तमः । । ८.३४५ । । |
साहसे वर्तमानं तु यो मर्षयति पार्थिवः । स विनाशं व्रजत्याशु विद्वेषं चाधिगच्छति । । ८.३४६ । । |
न मित्रकारणाद्राजा विपुलाद्वा धनागमात् । समुत्सृजेत्साहसिकान्सर्वभूतभयावहान् । । ८.३४७ । । |
शस्त्रं द्विजातिभिर्ग्राह्यं धर्मो यत्रोपरुध्यते । द्विजातीनां च वर्णानां विप्लवे कालकारिते । । ८.३४८ । । |
आत्मनश्च परित्राणे दक्षिणानां च संगरे । स्त्रीविप्राभ्युपपत्तौ च घ्नन्धर्मेण न दुष्यति । । ८.३४९ । । |
गुरुं वा बालवृद्धौ वा ब्राह्मणं वा बहुश्रुतम् । आततायिनं आयान्तं हन्यादेवाविचारयन् । । ८.३५० । । |
नाततायिवधे दोषो हन्तुर्भवति कश्चन । प्रकाशं वाप्रकाशं वा मन्युस्तं मन्युं ऋच्छति । । ८.३५१ । । |
परदाराभिमर्शेषु प्रवृत्तान्नॄन्महीपतिः । उद्वेजनकरैर्दण्डैश्छिन्नयित्वा प्रवासयेत् । । ८.३५२ । । |
तत्समुत्थो हि लोकस्य जायते वर्णसंकरः । येन मूलहरोऽधर्मः सर्वनाशाय कल्पते । । ८.३५३ । । |
परस्य पत्न्या पुरुषः संभाषां योजयन्रहः । पूर्वं आक्षारितो दोषैः प्राप्नुयात्पूर्वसाहसम् । । ८.३५४ । । |
यस्त्वनाक्षारितः पूर्वं अभिभाषते कारणात् । न दोषं प्राप्नुयात्किं चिन्न हि तस्य व्यतिक्रमः । । ८.३५५ । । |
परस्त्रियं योऽभिवदेत्तीर्थेऽरण्ये वनेऽपि वा । नदीनां वापि संभेदे स संग्रहणं आप्नुयात् । । ८.३५६ । । |
उपचारक्रिया केलिः स्पर्शो भूषणवाससाम् । सह खट्वासनं चैव सर्वं संग्रहणं स्मृतम् । । ८.३५७ । । |
स्त्रियं स्पृशेददेशे यः स्पृष्टो वा मर्षयेत्तया । परस्परस्यानुमते सर्वं संग्रहणं स्मृतम् । । ८.३५८ । । |
अब्राह्मणः संग्रहणे प्राणान्तं दण्डं अर्हति । चतुर्णां अपि वर्णानां दारा रक्ष्यतमाः सदा । । ८.३५९ । । |
भिक्षुका बन्दिनश्चैव दीक्षिताः कारवस्तथा । संभाषनं सह स्त्रीभिः कुर्युरप्रतिवारिताः । । ८.३६० । । |
न संभाषां परस्त्रीभिः प्रतिषिद्धः समाचरेत् । निषिद्धो भाषमाणस्तु सुवर्णं दण्डं अर्हति । । ८.३६१ । । |
नैष चारणदारेषु विधिर्नात्मोपजीविषु । सज्जयन्ति हि ते नारीर्निगूढाश्चारयन्ति च । । ८.३६२ । । |
किं चिदेव तु दाप्यः स्यात्संभाषां ताभिराचरन् । प्रैष्यासु चैकभक्तासु रहः प्रव्रजितासु च । । ८.३६३ । । |
योऽकामां दूषयेत्कन्यां स सद्यो वधं अर्हति । सकामां दूषयंस्तुल्यो न वधं प्राप्नुयान्नरः । । ८.३६४ । । |
कन्यां भजन्तीं उत्कृष्टं न किं चिदपि दापयेत् । जघन्यं सेवमानां तु संयतां वासयेद्गृहे । । ८.३६५ । । |
उत्तमां सेवमानस्तु जघन्यो वधं अर्हति । शुल्कं दद्यात्सेवमानः समां इच्छेत्पिता यदि । । ८.३६६ । । |
अभिषह्य तु यः कन्यां कुर्याद्दर्पेण मानवः । तस्याशु कर्त्ये अङ्गुल्यौ दण्डं चार्हति षट्शतम् । । ८.३६७ । । |
सकामां दूषयंस्तुल्यो नाङ्गुलिच्छेदं आप्नुयात् । द्विशतं तु दमं दाप्यः प्रसङ्गविनिवृत्तये । । ८.३६८ । । |
कन्यैव कन्यां या कुर्यात्तस्याः स्याद्द्विशतो दमः । शुल्कं च द्विगुणं दद्याच्छिफाश्चैवाप्नुयाद्दश । । ८.३६९ । । |
या तु कन्यां प्रकुर्यात्स्त्री सा सद्यो मौण्ड्यं अर्हति । अङ्गुल्योरेव वा छेदं खरेणोद्वहनं तथा । । ८.३७० । । |
भर्तारं लङ्घयेद्या तु स्त्री ज्ञातिगुणदर्पिता । तां श्वभिः खादयेद्राजा संस्थाने बहुसंस्थिते । । ८.३७१ । । |
पुमांसं दाहयेत्पापं शयने तप्त आयसे । अभ्यादध्युश्च काष्ठानि तत्र दह्येत पापकृत् । । ८.३७२ । । |
संवत्सराभिशस्तस्य दुष्टस्य द्विगुणो दमः । व्रात्यया सह संवासे चाण्डाल्या तावदेव तु । । ८.३७३ । । |
शूद्रो गुप्तं अगुप्तं वा द्वैजातं वर्णं आवसन् । अगुप्तं अङ्गसर्वस्वैर्गुप्तं सर्वेण हीयते । । ८.३७४ । । |
वैश्यः सर्वस्वदण्डः स्यात्संवत्सरनिरोधतः । सहस्रं क्षत्रियो दण्ड्यो मौण्ड्यं मूत्रेण चार्हति । । ८.३७५ । । |
ब्राह्मणीं यद्यगुप्तां तु गच्छेतां वैश्यपार्थिवौ । वैश्यं पञ्चशतं कुर्यात्क्षत्रियं तु सहस्रिणम् । । ८.३७६ । । |
उभावपि तु तावेव ब्राह्मण्या गुप्तया सह । विप्लुतौ शूद्रवद्दण्ड्यौ दग्धव्यौ वा कटाग्निना । । ८.३७७ । । |
सहस्रं ब्राह्मणो दण्ड्यो गुप्तां विप्रां बलाद्व्रजन् । शतानि पञ्च दण्ड्यः स्यादिच्छन्त्या सह संगतः । । ८.३७८ । । |
मौण्ड्यं प्राणान्तिकं दण्डो ब्राह्मणस्य विधीयते । इतरेषां तु वर्णानां दण्डः प्राणान्तिको भवेत् । । ८.३७९ । । |
न जातु ब्राह्मणं हन्यात्सर्वपापेष्वपि स्थितम् । राष्ट्रादेनं बहिः कुर्यात्समग्रधनं अक्षतम् । । ८.३८० । । |
न ब्राह्मणवधाद्भूयानधर्मो विद्यते भुवि । तस्मादस्य वधं राजा मनसापि न चिन्तयेत् । । ८.३८१ । । |
वैश्यश्चेत्क्षत्रियां गुप्तां वैश्यां वा क्षत्रियो व्रजेत् । यो ब्राह्मण्यां अगुप्तायां तावुभौ दण्डं अर्हतः । । ८.३८२ । । |
सहस्रं ब्राह्मणो दण्डं दाप्यो गुप्ते तु ते व्रजन् । शूद्रायां क्षत्रियविशोः साहस्रो वै भवेद्दमः । । ८.३८३ । । |
क्षत्रियायां अगुप्तायां वैश्ये पञ्चशतं दमः । मूत्रेण मौण्ड्यं इच्छेत्तु क्षत्रियो दण्डं एव वा । । ८.३८४ । । |
अगुप्ते क्षत्रियावैश्ये शूद्रां वा ब्राह्मणो व्रजन् । शतानि पञ्च दण्ड्यः स्यात्सहस्रं त्वन्त्यजस्त्रियम् । । ८.३८५ । । |
यस्य स्तेनः पुरे नास्ति नान्यस्त्रीगो न दुष्टवाक् । न साहसिकदण्डघ्नो स राजा शक्रलोकभाक् । । ८.३८६ । । |
एतेषां निग्रहो राज्ञः पञ्चानां विषये स्वके । सांराज्यकृत्सजात्येषु लोके चैव यशस्करः । । ८.३८७ । । |
ऋत्विजं यस्त्यजेद्याज्यो याज्यं च र्त्विक्त्यजेद्यदि । शक्तं कर्मण्यदुष्टं च तयोर्दण्डः शतं शतम् । । ८.३८८ । । |
न माता न पिता न स्त्री न पुत्रस्त्यागं अर्हति । त्यजन्नपतितानेतान्राज्ञा दण्ड्यः शतानि षट् । । ८.३८९ । । |
आश्रमेषु द्विजातीनां कार्ये विवदतां मिथः । न विब्रूयान्नृपो धर्मं चिकीर्षन्हितं आत्मनः । । ८.३९० । । |
यथार्हं एतानभ्यर्च्य ब्राह्मणैः सह पार्थिवः । सान्त्वेन प्रशमय्यादौ स्वधर्मं प्रतिपादयेत् । । ८.३९१ । । |
प्रतिवेश्यानुवेश्यौ च कल्याणे विंशतिद्विजे । अर्हावभोजयन्विप्रो दण्डं अर्हति माषकम् । । ८.३९२ । । |
श्रोत्रियः श्रोत्रियं साधुं भूतिकृत्येष्वभोजयन् । तदन्नं द्विगुणं दाप्यो हिरण्यं चैव माषकम् । । ८.३९३ । । |
अन्धो जडः पीठसर्पी सप्तत्या स्थविरश्च यः । श्रोत्रियेषूपकुर्वंश्च न दाप्याः केन चित्करम् । । ८.३९४ । । |
श्रोत्रियं व्याधितार्तौ च बालवृद्धावकिंचनम् । महाकुलीनं आर्यं च राजा संपूजयेत्सदा । । ८.३९५ । । |
शाल्मलीफलके श्लक्ष्णे नेनिज्यान्नेजकः शनैः । न च वासांसि वासोभिर्निर्हरेन्न च वासयेत् । । ८.३९६ । । |
तन्तुवायो दशपलं दद्यादेकपलाधिकम् । अतोऽन्यथा वर्तमानो दाप्यो द्वादशकं दमम् । । ८.३९७ । । |
शुल्कस्थानेषु कुशलाः सर्वपण्यविचक्षणाः । कुर्युरर्घं यथापण्यं ततो विंशं नृपो हरेत् । । ८.३९८ । । |
राज्ञः प्रख्यातभाण्डानि प्रतिषिद्धानि यानि च । ताणि निर्हरतो लोभात्सर्वहारं हरेन्नृपः । । ८.३९९ । । |
शुल्कस्थानं परिहरन्नकाले क्रयविक्रयी । मिथ्यावादी च संख्याने दाप्योऽष्टगुणं अत्ययम् । । ८.४०० । । |
आगमं निर्गमं स्थानं तथा वृद्धिक्षयावुभौ । विचार्य सर्वपण्यानां कारयेत्क्रयविक्रयौ । । ८.४०१ । । |
पञ्चरात्रे पञ्चरात्रे पक्षे पक्षेऽथ वा गते । कुर्वीत चैषां प्रत्यक्षं अर्घसंस्थापनं नृपः । । ८.४०२ । । |
तुलामानं प्रतीमानं सर्वं च स्यात्सुलक्षितम् । षट्सु षट्सु च मासेषु पुनरेव परीक्षयेत् । । ८.४०३ । । |
पणं यानं तरे दाप्यं पौरुषोऽर्धपणं तरे । पादं पशुश्च योषिच्च पादार्धं रिक्तकः पुमान् । । ८.४०४ । । |
भाण्डपूर्णानि यानानि तार्यं दाप्यानि सारतः । रिक्तभाण्डानि यत्किं चित्पुमांसश्चापरिच्छदाः । । ८.४०५ । । |
दीर्घाध्वनि यथादेशं यथाकालं तरो भवेत् । नदीतीरेषु तद्विद्यात्समुद्रे नास्ति लक्षणम् । । ८.४०६ । । |
गर्भिणी तु द्विमासादिस्तथा प्रव्रजितो मुनिः । ब्राह्मणा लिङ्गिनश्चैव न दाप्यास्तारिकं तरे । । ८.४०७ । । |
यन्नावि किं चिद्दाशानां विशीर्येतापराधतः । तद्दाशैरेव दातव्यं समागम्य स्वतोऽंशतः । । ८.४०८ । । |
एष नौयायिनां उक्तो व्यवहारस्य निर्णयः । दाशापराधतस्तोये दैविके नास्ति निग्रहः । । ८.४०९ । । |
वाणिज्यं कारयेद्वैश्यं कुसीदं कृषिं एव च । पशूनां रक्षणं चैव दास्यं शूद्रं द्विजन्मनाम् । । ८.४१० । । |
क्षत्रियं चैव वैश्यं च ब्राह्मणो वृत्तिकर्शितौ । बिभृयादानृशंस्येन स्वानि कर्माणि कारयेत् । । ८.४११ । । |
दास्यं तु कारयंल्लोभाद्ब्राह्मणः संस्कृतान्द्विजान् । अनिच्छतः प्राभवत्याद्राज्ञा दण्ड्यः शतानि षट् । । ८.४१२ । । |
शूद्रं तु कारयेद्दास्यं क्रीतं अक्रीतं एव वा । दास्यायैव हि सृष्टोऽसौ ब्राह्मणस्य स्वयंभुवा । । ८.४१३ । । |
न स्वामिना निसृष्टोऽपि शूद्रो दास्याद्विमुच्यते । निसर्गजं हि तत्तस्य कस्तस्मात्तदपोहति । । ८.४१४ । । |
ध्वजाहृतो भक्तदासो गृहजः क्रीतदत्त्रिमौ । पैत्रिको दण्डदासश्च सप्तैते दासयोनयः । । ८.४१५ । । |
भार्या पुत्रश्च दासश्च त्रय एवाधनाः स्मृताः । यत्ते समधिगच्छन्ति यस्य ते तस्य तद्धनम् । । ८.४१६ । । |
विस्रब्धं ब्राह्मणः शूद्राद्द्रव्योपादानं आचरेत् । न हि तस्यास्ति किं चित्स्वं भर्तृहार्यधनो हि सः । । ८.४१७ । । |
वैश्यशूद्रौ प्रयत्नेन स्वानि कर्माणि कारयेत् । तौ हि च्युतौ स्वकर्मभ्यः क्षोभयेतां इदं जगत् । । ८.४१८ । । |
अहन्यहन्यवेक्षेत कर्मान्तान्वाहनानि च । आयव्ययौ च नियतावाकरान्कोशं एव च । । ८.४१९ । । |
एवं सर्वानिमान्राजा व्यवहारान्समापयन् । व्यपोह्य किल्बिषं सर्वं प्राप्नोति परमां गतिम् । । ८.४२० । । |
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know