ग्रहयज्ञं समाचरेत् । वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन्नपि । । १.२९५ । । |
सूर्यः सोमो महीपुत्रः सोमपुत्रो बृहस्पतिः । शुक्रः शनैश्चरो राहुः केतुश्चेति ग्रहाः स्मृताः । । १.२९६ । । |
ताम्रकात्स्फटिकाद्रक्त चन्दनात्स्वर्णकादुभौ । राजतादयसः सीसात्कांस्यात्कार्या ग्रहाः क्रमात् । । १.२९७ । । |
स्ववर्णैर्वा पटे लेख्या गन्धैर्मण्डलकेषु वा । यथावर्णं प्रदेयानि वासांसि कुसुमानि च । । १.२९८ । । |
गन्धाश्च बलयश्चैव धूपो देयश्च गुग्गुलुः । कर्तव्या मन्त्रवन्तश्च चरवः प्रतिदैवतम् । । १.२९९ । । |
आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् । उद्बुध्यस्वेति च ऋचो यथासंख्यं प्रकीर्तिताः । । १.३०० । । |
बृहस्पतेऽति यदर्यस्तथैवान्नात्परिस्रुतः । शं नो देवीस्तथा काण्डात्केतुं कृण्वन्निमांस्तथा । । १.३०१ । । |
अर्कः पलाशः खदिर अपामार्गोऽथ पिप्पलः । उदुम्बरः शमी दूर्वा कुशाश्च समिधः क्रमात् । । १.३०२ । । |
एकैकस्य त्वष्टशतं अष्टाविंशतिरेव वा । होतव्या मधुसर्पिर्भ्यां दध्ना क्षीरेण वा युताः । । १.३०३ । । |
गुडौदनं पायसं च हविष्यं क्षीरषाष्टिकम् । दध्योदनं हविश्चूर्णं मांसं चित्रान्नं एव च । । १.३०४ । । |
दद्याद्ग्रहक्रमादेवं द्विजेभ्यो भोजनं बुधः । शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकम् । । १.३०५ । । |
धेनुः शङ्खस्तथानड्वान्हेम वासो हयः क्रमात् । कृष्णा गौरायसं छाग एता वै दक्षिणाः स्मृताः । । १.३०६ । । |
यश्च यस्य यदा दुःस्थः स तं यत्नेन पूजयेत् । ब्रह्मणैषां वरो दत्तः पूजिताः पूजयिष्यथ । । १.३०७ । । |
ग्रहाधीना नरेन्द्राणां उच्छ्रायाः पतनानि च । भावाभावौ च जगतस्तस्मात्पूज्यतमा ग्रहाः । । १.३०८ । । |
ग्रहाणां इदं आतिथ्यं कुर्यात्संवत्सरादपि । आरोग्यबलसंपन्नो जीवेत्स शरदः शतम् । । १.३०८आ । । |
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know