अभियोगं अनिस्तीर्य नैनं प्रत्यभियोजयेत् । अभियुक्तं च नान्येन नोक्तं विप्रकृतिं नयेत् । । २.९ । । |
कुर्यात्प्रत्यभियोगं च कलहे साहसेषु च । उभयोः प्रतिभूर्ग्राह्यः समर्थः कार्यनिर्णये । । २.१० । । |
निह्नवे भावितो दद्याद्धनं राज्ञे च तत्समम् । मिथ्याभियोगी द्विगुणं अभियोगाद्धनं वहेत् । । २.११ । । |
साहसस्तेयपारुष्य गोऽभिशापात्यये स्त्रियाम् । विवादयेत्सद्य एव कालोऽन्यत्रेच्छया स्मृतः । । २.१२ । । |
देशाद्देशान्तरं याति सृक्किणी परिलेढि च । ललाटं स्विद्यते चास्य मुखं वैवर्ण्यं एति च । । २.१३ । । |
परिशुष्यत्स्खलद्वाक्यो विरुद्धं बहु भाषिते । वाक्चक्षुः पूजयति नो तथौष्ठौ निर्भुजत्यपि । । २.१४ । । |
स्वभावाद्विकृतिं गच्छेन्मनोवाक्कायकर्मभिः । अभियोगेऽथ साक्ष्ये वा दुष्टः स परिकीर्तितः । । २.१५ । । |
संदिग्धार्थं स्वतन्त्रो यः साधयेद्यश्च निष्पतेत् । न चाहूतो वदेत्किंचिद्धीनो दण्ड्यश्च स स्मृतः । । २.१६ । । |
साक्षिषूभयतः सत्सु साक्षिणः पूर्ववादिनः । पूर्वपक्षेऽधरीभूते भवन्त्युत्तरवादिनः । । २.१७ । । |
सपणश्चेद्विवादः स्यात्तत्र हीनं तु दापयेत् । दण्डं च स्वपणं चैव धनिने धनं एव च । । २.१८ । । |
छलं निरस्य भूतेन व्यवहारान्नयेन्नृपः । भूतं अप्यनुपन्यस्तं हीयते व्यवहारतः । । २.१९ । । |
निह्नुते लिखितं नैकं एकदेशे विभावितः । दाप्यः सर्वं नृपेणार्थं न ग्राह्यस्त्वनिवेदितः । । २.२० । । |
स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः । अर्थशास्त्रात्तु बलवद्धर्मशास्त्रं इति स्थितिः । । २.२१ । । |
प्रमाणं लिखितं भुक्तिः साक्षिणश्चेति कीर्तितम् । एषां अन्यतमाभावे दिव्यान्यतमं उच्यते । । २.२२ । । |
सर्वेष्वर्थविवादेषु बलवत्युत्तराक्रिया । आधौ प्रतिग्रहे क्रीते पूर्वा तु बलवत्तरा । । २.२३ । । |
पश्यतोऽब्रुवतो भूमेर्हानिर्विंशतिवार्षिकी । परेण भुज्यमानाया धनस्य दशवार्षिकी । । २.२४ । । |
आधिसीमोपनिक्षेप जडबालधनैर्विना । तथोपनिधिराजस्त्री श्रोत्रियाणां धनैरपि । । २.२५ । । |
आध्यादीनां विहर्तारं धनिने दापयेद्धनम् । दण्डं च तत्समं राज्ञे शक्त्यपेक्षं अथापि वा । । २.२६ । । |
आगमोऽभ्यधिको भोगाद्विना पूर्वक्रमागतात् । आगमेऽपि बलं नैव भुक्तिः स्तोकापि यत्र नो । । २.२७ । । |
आगमस्तु कृतो येन सोऽभियुक्तस्तं उद्धरेत् । न तत्सुतस्तत्सुतो वा भुक्तिस्तत्र गरीयसी । । २.२८ । । |
योऽभियुक्तः परेतः स्यात्तस्य रिक्थी तं उद्धरेत् । न तत्र कारणं भुक्तिरागमेन विनाकृता । । २.२९ । । |
नृपेणाधिकृताः पूगाः श्रेणयोऽथ कुलानि च । पूर्वं पूर्वं गुरु ज्ञेयं व्यवहारविधौ नृणाम् । । २.३० । । |
बलोपाधिविनिर्वृत्तान्व्यवहारान्निवर्तयेत् । स्त्रीनक्तमन्तरागार बहिःशत्रुकृतांस्तथा । । २.३१ । । |
मत्तोन्मत्तार्तव्यसनि बालभीतादियोजितः । असंबद्धकृतश्चैव व्यवहारो न सिध्यति । । २.३२ । । |
प्रनष्टाधिगतं देयं नृपेण धनिने धनम् । विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डं अर्हति । । २.३३ । । |
राजा लब्ध्वा निधिं दद्याद्द्विजेभ्योऽर्धं द्विजः पुनः । विद्वानशेषं आदद्यात्स सर्वस्य प्रभुर्यतः । । २.३४ । । |
इतरेण निधौ लब्धे राजा षष्ठांशं आहरेत् । अनिवेदितविज्ञातो दाप्यस्तं दण्डं एव च । । २.३५ । । |
देयं चौरहृतं द्रव्यं राज्ञा जानपदाय तु । अददद्धि समाप्नोति किल्बिषं यस्य तस्य तत् । । २.३६ । । |
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know