व्यवहारान्नृपः पश्येद्विद्वद्भिर्ब्राह्मणैः सह । धर्मशास्त्रानुसारेण क्रोधलोभविवर्जितः । । २.१ । । |
श्रुताध्ययनसंपन्ना धर्मज्ञाः सत्यवादिनः । राज्ञा सभासदः कार्या रिपौ मित्रे च ये समाः । । २.२ । । |
अपश्यता कार्यवशाद्व्यवहारान्नृपेण तु । सभ्यैः सह नियोक्तव्यो ब्राह्मणः सर्वधर्मवित् । । २.३ । । |
रागाल्लोभाद्भयाद्वापि स्मृत्यपेतादिकारिणः । सभ्याः पृथक्पृथग्दण्ड्या विवादाद्द्विगुणं दमम् । । २.४ । । |
स्मृत्याचारव्यपेतेन मार्गेणाधर्षितः परैः । आवेदयति चेद्राज्ञे व्यवहारपदं हि तत् । । २.५ । । |
प्रत्यर्थिनोऽग्रतो लेख्यं यथावेदितं अर्थिना । समामासतदर्धाहर् नामजात्यादिचिह्नितम् । । २.६ । । |
श्रुतार्थस्योत्तरं लेख्यं पूर्वावेदकसंनिधौ । ततोऽर्थी लेखयेत्सद्यः प्रतिज्ञातार्थसाधनम् । । २.७ । । |
तत्सिद्धौ सिद्धिं आप्नोति विपरीतं अतोऽन्यथा । चतुष्पाद्व्यवहारोऽयं विवादेषूपदर्शितः । । २.८ । । |