याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/दत्ताप्रदानिकप्रकरणम्

स्वं कुटुम्बाविरोधेन देयं दारसुतादृते ।
नान्वये सति सर्वस्वं यच्चान्यस्मै प्रतिश्रुतम् । । २.१७५ । ।

प्रतिग्रहः प्रकाशः स्यात्स्थावरस्य विशेषतः ।
देयं प्रतिश्रुतं चैव दत्त्वा नापहरेत्पुनः । । २.१७६ । ।

याज्ञवल्क्यस्मृतिः/व्यवहाराध्यायः/क्रीतानुशयप्रकरणम्


दशैकपञ्चसप्ताह मासत्र्यहार्धमासिकम् ।
बीजायोवाह्यरत्नस्त्री दोह्यपुंसां परीक्षणम् । । २.१७७ । ।

अग्नौ सुवर्णं अक्षीणं रजते द्विपलं शते ।
अष्टौ त्रपुणि सीसे च ताम्रे पञ्च दशायसि । । २.१७८ । ।

शते दशपला वृद्धिरौर्णे कार्पाससौत्रिके ।
मध्ये पञ्चपला वृद्धिः सूक्ष्मे तु त्रिपला मता । । २.१७९ । ।

कार्मिके रोमबद्धे च त्रिंशद्भागः क्षयो मतः ।
न क्षयो न च वृद्धिश्च कौशेये वाल्कलेषु च । । २.१८० । ।

देशं कालं च भोगं च ज्ञात्वा नष्टे बलाबलम् ।
द्रव्याणां कुशला ब्रूयुर्यत्तद्दाप्यं असंशयम् । । २.१८१ । ।

एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

भीष्म जीवनी - अनुवाद का महत्व (Importance of Translation

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें