सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.8 अष्टमप्रपाठकः/2.8.2 द्वितीयोऽर्द्धः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.8 अष्टमप्रपाठकः/2.8.2 द्वितीयोऽर्द्धः

पन्यंपन्यमित्सोतार आ धावत मद्याय ।

सोमं वीराय शूराय ॥ १६५७ ॥

एह हरी ब्रह्मयुजा शग्मा वक्षतः सखायं ।

इन्द्रं गीर्भिर्गिर्वणसं ॥ १६५८ ॥

पाता वृत्रहा सुतमा घा गमन्नारे अस्मत् ।

नि यमते शतमूतिः ॥ १६५९ ॥

आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।

न त्वामिन्द्राति रिच्यते ॥ १६६० ॥

विव्यक्थ महिना वृषन्भक्षं सोमस्य जागृवे ।

य इन्द्र जठरेषु ते ॥ १६६१ ॥

अरं त इन्द्र कुक्षये सोमो भवतु वृत्रहन् ।

अरं धामभ्य इन्दवः ॥ १६६२ ॥

जराबोध तद्विविड्ढि विशेविशे यज्ञियाय ।

स्तोमं रुद्राय दृशीकं ॥ १६६३ ॥

स नो महां अनिमानो धूमकेतुः पुरुश्चन्द्रः ।

धिये वाजाय हिन्वतु ॥ १६६४ ॥

स रेवां इव विश्पतिर्दैव्यः केतुः शृणोतु नः ।

उक्थैरग्निर्बृहद्भानुः ॥ १६६५ ॥

तद्वो गाय सुते सचा पुरुहूताय सत्वने ।

शं यद्गवे न शाकिने ॥ १६६६ ॥

न घा वसुर्नि यमते दानं वाजस्य गोमतः ।

यत्सीमुपश्रवद्गिरः ॥ १६६७ ॥

कुवित्सस्य प्र हि व्रजं गोमन्तं दस्युहा गमत् ।

शचीभिरप नो वरत् ॥१६६८ ॥

इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदं ।

समूढमस्य पांसुले ॥ १६६९ ॥

त्रीणि पदा वि चक्रमे विष्णुर्गोपा अदाभ्यः ।

अतो धर्माणि धारयन् ॥१६७० ॥

विष्णोः कर्माणि पश्यत यतो व्रतानि पस्पशे ।

इन्द्रस्य युज्यः सखा ॥ १६७१ ॥

तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः ।

दिवीव चक्षुराततं ॥ १६७२ ॥

तद्विप्रासो विपन्युवो जागृवांसः समिन्धते ।

विष्णोर्यत्परमं पदं ॥ १६७३ ॥

अतो देवा अवन्तु नो यतो विष्णुर्विचक्रमे ।

पृथिव्या अधि सानवि ॥ १६७४ ॥

मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् ।

आरात्ताद्व सधमादं न आ गहीह वा सन्नुप श्रुधि ॥ १६७५ ॥

इमे हि ते ब्रह्मकृतः सुते सचा मधौ न मक्ष आसते ।

इन्द्रे कामं जरितारो वसूयवो रथे न पादमा दधुः ॥ १६७६ ॥

अस्तावि मन्म पूर्व्यं ब्रह्मेन्द्राय वोचत ।

पूर्वीरृतस्य बृहतीरनूषत स्तोतुर्मेधा असृक्षत ॥ १६७७ ॥

समिन्द्रो रायो बृहतीरधूनुत सं क्षोणी समु सूर्यं ।

सं शुक्रासः शुचयः सं गवाशिरः सोमा इन्द्रममन्दिषुः ॥ १६७८ ॥

इन्द्राय सोम पातवे वृत्रघ्ने परि षिच्यसे ।

नरे च दक्षिणावते देवाय सदनासदे ॥ १६७९ ॥

तं सखायः पुरूरुचं यूयं वयं च सूरयः ।

अश्याम वाजगन्ध्यं सनेम वाजपस्त्यं ॥ १६८० ॥

परि त्यं हर्यतं हरिं बभ्रुं पुनन्ति वारेण ।

यो देवान्विश्वां इत्परि मदेन सह गच्छति ॥ १६८१ ॥

कस्तमिन्द्र त्वावसो मर्त्यो दधर्षति ।

श्रद्धा इत्तेमघवन्पार्ये दिवि वाजी वाजं सिषासति ॥ १६८२ ॥

मघोनः स्म वृत्रहत्येषु चोदय ये ददति प्रिया वसु ।

तव प्रणीती हर्यश्व सूरिभिर्विश्वा तरेम दुरिता ॥ १६८३ ॥

१०

एदु मधोर्मदिन्तरं सिञ्चाध्वर्यो अन्धसः ।

एवा हि वीर स्तवते सदावृधः ॥ १६८४ ॥

इन्द्र स्थातर्हरीणां न किष्टे पूर्व्यस्तुतिं ।

उदानंश शवसा न भन्दना ॥ १६८५ ॥

तं वो वाजानां पतिमहूमहि श्रवस्यवः ।

अप्रायुभिर्ज्ञेभिर्वावृधेन्यं ॥ १६८६ ॥

११

तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।

देवत्रा हव्यमूहिषे ॥ १६८७ ॥

विभूतरातिं विप्र चित्रशोचिषमग्निमीडिष्व यन्तुरं ।

अस्य मेधस्य सोम्यस्य सोभरे प्रेमध्वराय पूर्व्यं ॥ १६८८ ॥

१२

आ सोम सवानो अद्रिभिस्तिरो वाराण्यव्यया ।

जनो न पुरि चम्वोर्विशद्धरिः सदो वनेषु दध्रिषे ॥ १६८९ ॥

स मामृजे तिरो अण्वानि मेष्यो मीड्वान्त्सप्तिर्न वाजयुः ।

अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥ १६९० ॥

१३

वयमेनमिदा ह्योऽपीपेमेह वज्रिणं ।

तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥ १६९१ ॥

वृकश्चिदस्य वारण उरामथिरा वयुनेषु भूषति ।

सेमं न स्तोमं जुजुषाण आ गहीन्द्र प्र चित्रया धिया ॥ १६९२ ॥

१४

इन्द्राग्नी रोचना दिवः परि वाजेषु भूषथः ।

तद्वां चेति प्र वीर्यं ॥ १६९३ ॥

इन्द्राग्नी अपसस्परि उप प्र यन्ति धीतयः ।

ऋतस्य पथ्या अनु ॥ १६९४ ॥

इन्द्राग्नी तविषाणि वां सधस्थानि प्रयांसि च ।

युवोरप्तूर्यं हितं ॥ १६९५ ॥

१५

क ईं वेद सुते सचा पिबन्तं कद्वयो दधे ।

अयं यः पुरो विभिनत्त्योजसा मन्दानः शिप्रयन्धसः ॥ १६९६ ॥

दाना मृगो न वारणः पुरुत्रा चरथं दधे ।

न किष्ट्वा नि यमदा सुते गमो महांश्चरस्योजसा ॥ १६९७ ॥

य उग्रः सन्ननिष्टृतः स्थिरो रणाय संस्कृतः ।

यदि स्तोतुर्मघवा शृणवद्धवं नेन्द्रो योषत्या गमत् ॥१६९८ ॥

१६

पवमाना असृक्षत सोमाः शुक्रास इन्दवः ।

अभि विश्वानि काव्या ॥ १६९९ ॥

पवमाना दिवस्पर्यन्तरिक्षादसृक्षत ।

पृथिव्या अधि सानवि ॥ १७०० ॥

पवमानास आशवः शुभ्रा असृग्रमिन्दवः ।

घ्नन्तो विश्वा अप द्विषः ॥ १७०१ ॥

१७

तोशा वृत्रहणा हुवे सजित्वानापराजिता ।

इन्द्राग्नी वाजसातमा ॥ १७०२ ॥

प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।

इन्द्राग्नी इष आ वृणे ॥ १७०३ ॥

इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतं ।

साकमेकेन कर्मणा ॥ १७०४ ॥

१८

उप त्वा रण्वसन्दृशं प्रयस्वन्तः सहस्कृत ।

अग्ने ससृज्महे गिरः ॥ १७०५ ॥

उप च्छायामिव घृणेरगन्म शर्म ते वयं ।

अग्ने हिरण्यसन्दृशः ॥ १७०६ ॥

य उग्र इव शर्यहा तिग्मशृङ्गो न वंसगः ।

अग्ने पुरो रुरोजिथ ॥ १७०७ ॥

१९

ऋतावानं वैश्वानरमृतस्य ज्योतिषस्पतिं ।

अजस्रं घर्ममीमहे ॥ १७०८ ॥

य इदं प्रतिपप्रथे यज्ञस्य स्वरुत्तिरन् ।

ऋतूनुत्सृजते वशी ॥ १७०९ ॥

अग्निः प्रियेषु धामसु कामो भूतस्य भव्यस्य ।

सभ्राडेको वि राजति ॥ १७१० ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

भीष्म जीवनी - अनुवाद का महत्व (Importance of Translation

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें