१
विश्वेभिरग्ने अग्निभिरिमं यज्ञमिदं वचः ।
चनो घाः सहसा यहो ॥ १६१७ ॥
यच्चिद्धि शश्वा तना देवंदेवं यजामहे ।
त्वे इद्धूयते हविः ॥ १६१८ ॥
प्रियो नो अस्तु विश्पतिर्होता मन्द्रो वरेण्यः ।
प्रियाः स्वग्नयो वयं ॥ १६१९ ॥
२
इन्द्रं वो विश्वतस्परि हवामहे जनेभ्यः ।
अस्माकमस्तु केवलः ॥ १६२० ॥
स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि ।
अस्मभ्यमप्रतिष्कुतः ॥ १६२१ ॥
बृषा यूथेव वंसगः कृष्टीरियर्त्योजसा ।
ईशानो अप्रतिष्कुतः ॥ १६२२ ॥
३
त्वं नश्चित्र ऊत्या वसो राधांसि चोदय ।
अस्य रायस्त्वमग्ने रथीरसि विदा गाधं तुचे तु नः ॥ १६२३ ॥
पर्षि तोकं तनयं पर्तृभिष्ट्वमदब्धैरप्रयुत्वभिः ।
अग्ने हेडांसि दैव्या युयोधि नोऽदेवानि हरांसि च ॥ १६२४ ॥
४
किमित्ते विष्णो परिचक्षि नाम प्र यद्ववक्षे शिपिविष्टो अस्मि ।
मा वर्पो अस्मदप गूह एतद्यदन्यरूपः समिथे बभूथ ॥ १६२५ ॥
प्र तत्ते अद्य शिपिविष्ट हव्यमर्यः शंसामि वयुनानि विद्वान् ।
तं त्वा गृणामि तवसमतव्यान्क्षयन्तमस्य रजसः पराके ॥ १६२६ ॥
वषट्ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यं ।
वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तभिः सदा नः ॥ १६२७ ॥
५
[१]वायो शुक्रो अयामि ते मध्वो अग्रं दिविष्टिषु ।
आ याहि सोमपीतये स्पार्हो देव नियुत्वता ॥ १६२८ ॥
इन्द्रश्च वायवेषां सोमानां पीतिमर्हथः ।
युवां हि यन्तीन्दवो निम्नमापो न सध्र्यक् ॥१६२९ ॥
वायविन्द्रश्च शुष्मिणा सरथं शवसस्पती ।
नियुत्वन्ता न ऊतय आ यातं सोमपीतये ॥ १६३० ॥
६
अध क्षपा परिष्कृतो वाजां अभि प्र गाहते ।
यदी विवस्वतो धियो हरिं हिन्वन्ति यातवे ॥ १६३१ ॥
तमस्य मर्जयामसि मदो य इन्द्रपातमः ।
यं गाव आसभिर्दधुः पुरा नूनं च सूरयः ॥ १६३२ ॥
तं गाथया पुराण्या पुनानमभ्यनूषत ।
उतो कृपन्त धीतयो देवानां नाम बिभ्रतीः ॥ १६३३ ॥
७
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः ।
सम्राजन्तमध्वराणां ॥ १६३४ ॥
स घा नः सूनुः शवसा पृथुप्रगामा सुशेवः ।
मीढ्वां अस्माकं बभूयात् ॥१६३५ ॥
स नो दूराच्चासाच्च नि मर्त्यादघायोः ।
पाहि सदमिद्विश्वायुः ॥ १६३६ ॥
८
त्वमिन्द्र प्रतूर्तिष्वभि विश्वा असि स्पृधः ।
अशस्तिहा जनिता वृत्रतूरसि त्वं तूर्य तरुष्यतः ॥ १६३७ ॥
अनु ते शुष्मं तुरयन्तमीयतुः क्षोणी शिशुं न मातरा ।
विश्वास्ते स्पृधः श्नथयन्त मन्यवे वृत्रं यदिन्द्र तूर्वसि ॥ १६३८ ॥
९
यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् ।
चक्राण ओपशं दिवि ॥ १६३९ ॥
व्या३न्तरिक्षमतिरन्मदे सोमस्य रोचना ।
इन्द्रो यदभिनद्वलं ॥ १६४० ॥
उदगा आजदङ्गिरोभ्य आविष्कृण्वन्गुहा सतीः ।
अर्वाञ्चं नुनुदे वलं ॥ १६४१ ॥
१०
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतं ।
आ च्यावयस्यूतये ॥ १६४२ ॥
युध्मं सन्तमनर्वाणं सोमपामनपच्युतं ।
नरमवार्यक्रतुं ॥ १६४३ ॥
शिक्षा ण इन्द्र राय आ पुरु विद्वां ऋचीषम ।
अवा नः पार्ये धने ॥ १६४४ ॥
११
तव त्यदिन्द्रियं बृहत्तव दक्ष्ममुत क्रतुं ।
वज्रं शिशाति धिषणा वरेण्यं ॥ १६४५ ॥
तव द्यौरिन्द्र प्ॐस्यं पृथिवी वर्धति श्रवः ।
त्वामापः पर्वतासश्च हिन्विरे ॥ १६४६ ॥
त्वां विष्णुर्बृहन्क्षयो मित्रो गृणाति वरुणः ।
त्वां शर्धो मदत्यनु मारुतं ॥ १६४७ ॥
१२
नमस्ते अग्न ओजसे गृणन्ति देव कृष्टयः ।
अमैरमित्रमर्दय ॥ १६४८ ॥
कुवित्सु नो गविष्टयेऽग्ने संवेषिषो रयिं ।
उरुकृदुरु णस्कृधि ॥ १६४९ ॥
मा नो अग्ने महाधने परा वर्ग्भारभृद्यथा ।
संवर्गं सं रयिं जय ॥ १६५० ॥
१३
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
समुद्रायेव सिन्धवः ॥ १६५१ ॥
वि चिद्वृत्रस्य दोधतः शिरो बिभेद वृष्णिना ।
वज्रेण शतपर्वणा ॥ १६५२ ॥
ओजस्तदस्य तित्विष उभे यत्समवर्त्तयत् ।
इन्द्रश्चर्मेव रोदसी ॥ १६५३ ॥
१४
[२]सुमन्मा वस्वी रन्ती सूनरी ॥ १६५४ ॥
सरूप वृषन्ना गहीमौ भद्रौ धुर्यावभि ।
ताविमा उप सर्पतः ॥ १६५५ ॥
नीव शीर्षाणि मृढ्वं मध्य आपस्य तिष्ठति ।
शृङ्गेभिर्दशभिर्दिशन् ॥१६५६ ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know