सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.7 सप्तमप्रपाठकः/2.7.1 प्रथमोऽर्द्धः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.7 सप्तमप्रपाठकः/2.7.1 प्रथमोऽर्द्धः

अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।

मूनुं सत्यस्य सत्पतिं ॥ १४८९ ॥

आ हरयः ससृज्रिरेऽरुषीरधि बर्हिषि ।

यत्राभि संनवामहे ॥ १४९० ॥

इन्द्राय गाव आशिरं दुदुह्रे वज्रिणे मधु ।

यत्सीमुपह्वरे विदत् ॥१४९१ ॥

आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत ।

उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥ १४९२ ॥

त्वं दाता प्रथमो राधसामस्यसि सत्य ईशानकृत् ।

तुविद्युम्नस्य युज्या वृणीमहे पुत्रस्य शवसो महः ॥ १४९३ ॥

प्रत्नं पीयूषं पूर्व्यं यदुक्थ्यं महो गाहद्दिव आ निरधुक्षत ।[१]

इन्द्रमभि जायमानं समस्वरन् ॥१४९४ ॥

आदीं के चित्पश्यमानास आप्यं वसुरुचो दिव्या अभ्यनूषत ।

दिवो न वारं सविता व्यूर्णुते ॥ १४९५ ॥

अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना ।

यूथे न निष्ठा वृषभो वि राजसि ॥ १४९६ ॥

इममू षु त्वमस्माकं सनिं गायत्रं नव्यांसं ।

अग्ने देवेषु प्र वोचः ॥ १४९७ ॥

विभक्तासि चित्रभानो सिन्धोरूर्मा उपाक आ ।

सद्यो दाशुषे क्षरसि ॥ १४९८ ॥

आ नो भज परमेष्वा वाजेषु मध्यमेषु ।

शिक्षा वस्वो अन्तमस्य ॥ १४९९ ॥

अहमिद्धि पितुष्परि मेधामृतस्य जग्रह ।

अहं सूर्य इवाजनि ॥ १५०० ॥

अहं प्रत्नेन जन्मना गिरः शुम्भामि कण्ववत् ।

येनेन्द्रः शुष्ममिद्दधे ॥ १५०१ ॥

ये त्वामिन्द्र न तुष्टुवुरृषयो ये च तुष्टुवुः ।

ममेद्वर्धस्व सुष्टुतः ॥ १५०२ ॥

अग्ने विश्वेभिरग्निभिर्जोषि ब्रह्म सहस्कृत ।

ये देवत्रा य आयुषु तेभिर्नो महया गिरः ॥ १५०३ ॥

प्र स विश्वेभिरग्निभिरग्निः स यस्य वाजिनः ।

तनये तोके अस्मदा सम्यङ्वाजैः परीवृतः ॥ १५०४ ॥

त्वं नो अग्ने अग्निभिर्ब्रह्म यज्ञं च वर्धय ।

त्वं नो देवतातये रायो दानाय चोदय ॥ १५०५ ॥

त्वे सोम प्रथमा वृक्तबर्हिषो महे वाजाय श्रवसे धियन्दधुः ।

स त्वं नो वीर वीर्याय चोदय ॥ १५०६ ॥

अभ्यभि हि श्रवसा ततर्दिथोत्सं न कं चिज्जनपानमक्षितं ।

शर्याभिर्न भरमाणो गभस्त्योः ॥ १५०७ ॥

अजीजनो अमृत मर्त्याय अमृतस्य धर्मन्नमृतस्य चारुणः ।

सदासरो वाजमच्छा सनिष्यदत् ॥१५०८ ॥

एन्दुमिन्द्राय सिञ्चत पिबाति सोम्यं मधु ।

प्र राधांसि चोदयते महित्वना ॥ १५०९ ॥

उपो हरीणां पतिं राधः पृञ्चन्तमब्रवं ।

नूनं श्रुधि स्तुवतो अश्व्यस्य ॥ १५१० ॥

न ह्याङ्३ग पुरा च न जज्ञे वीरतरस्त्वत् ।

न की राया नैवथा न भन्दना ॥ १५११ ॥

नदं व ओदतीनां नदं योयुवतीनां ।

पतिं वो अघ्न्यानां धेनूनामिषुध्यसि ॥ १५१२ ॥

१०

देवो वो द्रविणोदाः पूर्णां विवष्ट्वासिचं ।

उद्वा सिञ्चध्वमुप वा पृणध्वमादिद्वो देव ओहते ॥ १५१३ ॥

तं होतारमध्वरस्य प्रचेतसं वह्निं देवा अकृण्वत ।

दधाति रत्नं विधते सुवीर्यमग्निर्जनाय दाशुषे ॥ १५१४ ॥

११

अदर्शि गातुवित्तमो यस्मिन्व्रतान्यादधुः ।

उपोषु जातमार्यस्य वर्धनमग्निं नक्षन्तु नो गिरः ॥ १५१५ ॥

यस्माद्रेजन्त कृष्टयश्चर्कृत्यानि कृण्वतः ।

सहस्रसां मेधसाताविव त्मनाग्निं धीभिर्नमस्यत ॥ १५१६ ॥

प्र दैवोदासो अग्निर्देव इन्द्रो न मज्मना ।

अनु मातरं पृथिवीं वि वावृते तस्थौ नाकस्य शर्मणि ॥ १५१७ ॥

१२

अग्न आयूंषि पवसे आसुवोर्जमिषं च नः ।

आरे बाधस्व दुच्छुनां ॥ १५१८ ॥

अग्निरृषिः पवमानः पाञ्चजन्यः पुरोहितः ।

तमीमहे महागयं ॥ १५१९ ॥

अग्ने पवस्व स्वपा अस्मे वर्चः सुवीर्यं ।

दधद्रयिं मयि योषं ॥ १५२० ॥

१३

अग्ने पावक रोचिषा मन्द्रया देव जिह्वया ।

आ देवान्वक्षि यक्षि च ॥ १५२१ ॥

तं त्वा घृतस्नवीमहे चित्रभानो स्वर्दृशं ।

देवां आ वीतये वह ॥ १५२२ ॥

वीतिहोत्रं त्वा कवे द्युमन्तं समिधीमहि ।

अग्ने बृहन्तमध्वरे ॥ १५२३ ॥

१४

अवा नो अग्न ऊतिभिर्गायत्रस्य प्रभर्मणि ।

विश्वासु धीषु वन्द्य ॥ १५२४ ॥

आ नो अग्ने रयिं भर सत्रासाहं वरेण्यं ।

विश्वासु पृत्सु दुष्टरं ॥ १५२५ ॥

आ नो अग्ने सुचेतुना रयिं विश्वायुपोषसं ।

मार्डीकं धेहि जीवसे ॥ १५२६ ॥

१५

अग्निं हिन्वन्तु नो धियः सप्तिमाशुमिवाजिषु ।

तेन जेष्म धनंधनं ॥ १५२७ ॥

यया गा आकरामहै सेनयाग्ने तवोत्या ।

तां नो हिन्व मघत्तये ॥ १५२८ ॥

आग्ने स्थूरं रयिं भर पृथुं गोमन्तमश्विनं ।

अङ्धि खं वर्त्तया पविं ॥ १५२९ ॥

अग्ने नक्षत्रमजरमा सूर्यं रोहयो दिवि ।

दधज्ज्योतिर्जनेभ्यः ॥ १५३० ॥

अग्ने केतुर्विशामसि प्रेष्ठः श्रेष्ठ उपस्थसत् ।

बोधा स्तोत्रे वयो दधत् ॥१५३१ ॥

१६

अग्निर्मूर्धा दिवः ककुत्पतिः पृथिव्या अयं ।

अपां रेतांसि जिन्वति ॥ १५३२ ॥

ईशिषे वार्यस्य हि दात्रस्याग्ने स्वःपतिः ।

स्तोता स्यां तव शर्मणि ॥ १५३३ ॥

उदग्ने शुचयस्तव शुक्रा भ्राजन्त ईरते ।

तव ज्योतींष्यर्चयः ॥ १५३४ ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

डिजिटल दीमक और बिखरता समाज (The Modern Crisis)

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें