शरीर से सम्बंधित महत्वपूर्ण तथ्य

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6 षष्ठप्रपाठकः/2.6.3 तृतीयोऽर्द्धः


पवस्व वृष्टिमा सु नोऽपामूर्मिं दिवस्परि ।

अयक्ष्मा बृहतीरिषः ।। १४३५ ।।

तया पवस्व धारया यया गाव इहागमन् ।

जन्यास उप नो गृहं ।। १४३६ ।।

घृतं पवस्व धारया यज्ञेषु देववीतमः ।

अस्मभ्यं वृष्टिमा पव ।। १४३७ ।।

स न ऊर्जे व्या३व्ययं पवित्रं धाव धारया ।

देवासः शृणवन्हि कं ।। १४३८ ।।

पवमानो असिष्यदद्रक्षांस्यपजङ्घनत् ।

प्रत्नवद्रोचयन्रुचः ।। १४३९ ।।

प्रत्यस्मै पिपीषते विश्वानि विदुषे भर ।

अरङ्गमाय जग्मयेऽपश्चादध्वने नरः ।। १४४० ।।

एमेनं प्रत्येतन सोमेभिः सोमपातमं ।

अमत्रेभिरृजीषिणमिन्द्रं सुतेभिरिन्दुभिः ।। १४४१ ।।

यदी सुतेभिरिन्दुभिः सोमेभिः प्रतिभूषथ ।

वेदा विश्वस्य मेधिरो धृषत्तन्तमिदेषते ।। १४४२ ।।

अस्माअस्मा इदन्धसोऽध्वर्यो प्र भरा सुतं ।

कुवित्समस्य जेन्यस्य शर्धतोऽभिशस्तेरवस्वरत् ।।१४४३ ।।

बभ्रवे नु स्वतवसेऽरुणाय दिविस्पृशे ।

सोमाय गाथमर्चत ।। १४४४ ।।

हस्तच्युतेभिरद्रिभिः सुतं सोमं पुनीतन ।

मधावा धावता मधु ।। १४४५ ।।

नमसेदुप सीदत दध्नेदभि श्रीणीतन ।

इन्दुमिन्द्रे दधातन ।। १४४६ ।।

अमित्रहा विचर्षणिः पवस्व सोम शं गवे ।

देवेभ्यो अनुकामकृत् ।।१४४७ ।।

इन्द्राय सोम पातवे मदाय परि षिच्यसे ।

मनश्चिन्मनसस्पतिः ।। १४४८ ।।

पवमान सुवीर्यं रयिं सोम रिरीहि नः ।

इन्दविन्द्रेण नो युजा ।। १४४९ ।।

उद्धेदभि श्रुतामघं वृषमं नर्यापसं ।

अस्तारमेषि सूर्य ।। १४५० ।।

नव यो नवतिं पुरो बिभेद बाह्वोजसा ।

अहिं च वृत्रहावधीत् ।।१४५१ ।।

स न इन्द्रः शिवः सखाश्वावद्गोमद्यवमत् ।

उरुधारेव दोहते ।। १४५२ ।।

विभ्राड्बृहत्पिबतु सोम्यं मध्वायुर्दधद्यज्ञपतावविह्रुतं ।

वातजूतो यो अभिरक्षति त्मना प्रजाः पिपर्ति बहुधा वि राजति ।। १४५३ ।।

विभ्राड्बृहत्सुभृतं वाजसातमं धर्मं दिवो धरुणे सत्यमर्पितं ।

अमित्रहा वृत्रहा दस्युहन्तमं ज्योतिर्जज्ञे असुरहा सपत्नहा ।। १४५४ ।।

इदं श्रेष्ठं ज्योतिषां ज्योतिरुत्तमं विश्वजिद्धनजिदुच्यते बृहत् ।

विश्वभ्राड्भ्राजो महि सूर्यो दृश उरु पप्रथे सह ओजो अच्युतं ।। १४५५ ।।

इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।

शिक्षा णो अस्मिन्पुरुहूत यामनि जीव ज्योतिरशीमहि ।। १४५६ ।।

मा नो अज्ञाता वृजना दुराध्यो३ माशिवासोऽव क्रमुः ।

त्वया वयं प्रवतः शश्वतीरपोऽति शूर तरामसि ।। १४५७ ।।

अद्याद्या श्वःश्व इन्द्र त्रास्व परे च नः ।

विश्वा च नो जरित्ऱीन्त्सत्पते अहा दिवा नक्तं च रक्षिषः ।। १४५८ ।।

प्रभङ्गी शूरो मघवा तुवीमघः सम्मिश्लो विर्याय कं ।

उभा ते बाहू वृषणा शतक्रतो नि या वज्रं मिमिक्षतुः ।। १४५९ ।।


जनीयन्तो न्वग्रवः पुत्रीयन्तः सुदानवः ।

सरस्वन्तं हवामहे ।। १४६० ।।

उत नः प्रिया प्रियासु सप्तस्वसा सुजुष्टा ।

सरस्वती स्तोम्या भूत् ।।१४६१ ।।

१०

तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि ।

धियो यो नः प्रचोदयात् ।।१४६२ ।।

गायत्रं साम

सोमानां स्वरणं कृणुहि ब्रह्मणस्पते ।

कक्षीवन्तं य औशिजः ।। १४६३ ।।

अग्न आयूंषि पवसे आ सुवोर्जं इषं च नः ।

आरे बाधस्व दुच्छुनां ।। १४६४ ।।

११

ता नः शक्तं पार्थिवस्य महो रायो दिव्यस्य ।

महि वा क्षत्रं देवेषु ।। १४६५ ।।

ऋतमृतेन सपन्तेषिरं दक्षमाशाते ।

अद्रुहा देवौ वर्धेते ।। १४६६ ।।

वृष्टिद्यावा रीत्यापेषस्पती दानुमत्याः ।

बृहन्तं गर्त्तमाशाते ।। १४६७ ।।

१२

युञ्जन्ति ब्रध्नमरुषं चरन्तं परि तस्थुषः ।

रोचन्ते रोचना दिवि ।। १४६८ ।।

युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।

शोणा धृष्णू नृवाहसा ।। १४६९ ।।

केतुं कृण्वन्नकेतवे पेशो मर्या अपेशसे ।

समुषद्भिरजायथाः ।। १४७० ।।

१३

अयं सोम इन्द्र तुभ्यं सुन्वे तुभ्यं पवते त्वमस्य पाहि ।

त्वं ह यं चकृषे त्वं ववृष इन्दुं मदाय युज्याय सोमं ।। १४७१ ।।

स ईं रथो न भुरिषाडयोजि महः पुरूणि सातये वसूनि ।

आदीं विश्वा नहुष्याणि जाता स्वर्षाता वन ऊर्ध्वा नवन्त ।। १४७२ ।।

शुष्मी शर्धो न मारुतं पवस्वानभिशस्ता दिव्या यथा विट् ।

आपो न मक्षू सुमतिर्भवा नः सहस्राप्साः पृतनाषाण्न यज्ञः ।। १४७३ ।।

१४

त्वमग्ने यज्ञानां होता विश्वेषां हितः ।

देवेभिर्मानुषे जने ।। १४७४ ।।

स नो मन्द्राभिरध्वरे जिह्वाभिर्यजा महः ।

आ देवान्वक्षि यक्षि च ।। १४७५ ।।

वेत्था हि वेधो अध्वनः पथश्च देवाञ्जसा ।

अग्ने यज्ञेषु सुक्रतो ।। १४७६ ।।

१५

होता देवो अमर्त्यः पुरस्तादेति मायया ।

विदथानि प्रचोदयन् ।।१४७७ ।।

वाजी वाजेषु धीयतेऽध्वरेषु प्र णीयते ।

विप्रो यज्ञस्य साधनः ।। १४७८ ।।

धिया चक्रे वरेण्यो भूतानां गर्भमा दधे ।

दक्षस्य पितरं तना ।। १४७९ ।।

१६

आ सुते सिञ्चत श्रियं रोदस्योरभिश्रियं ।

रसा दधीत वृषभं ।। १४८० ।।

ते जानत स्वमोक्या३ं सं वत्सासो न मातृभिः ।

मिथो नसन्त जामिभिः ।। १४८१ ।।

उप स्रक्वेषु बप्सतः कृण्वते धरुणं दिवि ।

इन्द्रे अग्ना नमः स्वः ।। १४८२ ।।

१७

तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।

सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ।। १४८३ ।।

वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।

अव्यनच्च व्यनच्च सस्नि सं ते नवन्त प्रभृता मदेषु ।। १४८४ ।।

त्वे क्रतुमपि वृञ्जन्ति विश्वे द्विर्यदेते त्रिर्भवन्त्यूमाः ।

स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ।। १४८५ ।।

१८

त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशं ।

स ईं ममाद महि कर्म कर्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ।। १४८६ ।।

साकं जातः क्रतुना साकमोजसा ववक्षिथ साकं वृद्धो वीर्यैः सासहिर्मृधो विचर्षणिः ।

दाता राध स्तुवते काम्यं वसु प्रचेतन सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ।। १४८७ ।।

अध त्विषीमां अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे ।

अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रम् ।। १४८८ ।।


एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

डिजिटल दीमक और बिखरता समाज (The Modern Crisis)

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें