सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6 षष्ठप्रपाठकः/2.6.1 प्रथमोऽर्द्धः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6 षष्ठप्रपाठकः/2.6.1 प्रथमोऽर्द्धः

[१]सुषमिद्धो न आ वह देवां अग्ने हविष्मते ।

होतः पावक यक्षि च ॥ १३४७ ॥ ऋ. १.१३.१

मधुमन्तं तनूनपाद्यज्ञं देवेषु नः कवे ।

अद्या कृणुय्हूतये ॥ १३४८ ॥

नराशंसमिह प्रियमस्मिन्यज्ञ उप ह्वये ।

मधुजिह्वं हविष्कृतं ॥ १३४९ ॥

अग्ने सुखतमे रथे देवां ईडित आ वह ।

असि होता मनुर्हितः ॥ १३५० ॥

[२]यदद्य सूर उदितेऽनागा मित्रो अर्यमा ।

सुवाति सविता भगः ॥ १३५१ ॥

सुप्रावीरस्तु स क्षयः प्र नु यामन्त्सुदानवः ।

ये नो अंहोऽतिपिप्रति ॥ १३५२ ॥

उत स्वराजो अदितिरदब्धस्य व्रतस्य ये ।

महो राजान ईशते ॥ १३५३ ॥

उ त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः ।

अव ब्रह्मद्विषो जहि ॥ १३५४ ॥ ऋ. ८.६४.१

पदा पणीनराधसो नि बाधस्व महां असि ।

न हि त्वा कश्च न प्रति ॥ १३५५ ॥

त्वमीशिषे सुतानामिन्द्र त्वमसुतानां ।

त्वं राजा जनानां ॥ १३५६ ॥

आ जागृविर्विप्र ऋतां मतीनां सोमः पुनानो असदच्चमूषु ।

सपन्ति यं मिथुनासो निकामा अध्वर्यवो रथिरासः सुहस्ताः ॥ १३५७ ॥

स पुनान उप सूरे दधान ओबे अप्रा रोदसी वि ष आवः ।

प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यंसत् ॥१३५८ ॥

स वर्धिता वर्धनः पूयमानः सोमो मीढ्वां अभि नो ज्योतिषावीत् ।

यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ॥१३५९ ॥

मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।

इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥ १३६० ॥

अवक्रक्षिणं वृषभं यथा जुवं गां न चर्षणीसहं ।

विद्वेषणं संवननमुभयङ्करं मंहिष्ठमुभयाविनं ॥ १३६१ ॥

उदु त्ये मधुमत्तमा गिर स्तोमास ईरते ।

सत्राजितो धनसा अक्षितोतयो वाजन्तो रथा इव ॥ १३६२ ॥

कण्वा इव भृगवः सूर्या इव विश्वमिद्धीतमाशत ।

इन्द्रं स्तोमेभिर्महयन्त आयवः प्रियमेधासो अस्वरन् ॥१३६३ ॥

पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।

द्विषस्तरध्या ऋणया न ईरसे ॥ १३६४ ॥

अजीजनो हि पवमान सूर्यं विधारे शक्मना पयः ।

गोजीरया रंहमाणः पुरन्ध्या ॥ १३६५ ॥

अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।

वाजाँ अभि पवमान प्र गाहसे ॥ १३६६ ॥

परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ॥ १३६७ ॥

एवामृताय महे क्षयाय स शुक्रो अर्ष दिव्यः पीयूषः ॥ १३६८ ॥

इन्द्रस्ते सोम सुतस्य पेयात्क्रत्वे दक्षाय विश्वे च देवाः ॥ १३६९ ॥

सूर्यस्येव रश्मयो द्रावयित्नवो मत्सरासः प्रसुतः साकमीरते ।

तन्तुं ततं परि सर्गास आशवो नेन्द्रादृते पवते धाम किं चन ॥ १३७० ॥

उपो मतिः पृच्यते सिच्यते मधु मन्द्राजनी चोदते अन्तरासनि ।

पवमानः सन्तनिः सुन्वतामिव मधुमान्द्रप्सः परि वारमर्षति ॥ १३७१ ॥

उक्षा मिमेति प्रति यन्ति धेनवो देवस्य देवीरुप यन्ति निष्कृतं ।

अत्यक्रमीदर्जुनं वारमव्ययमत्कं न निक्तं परि सोमो अव्यत ॥ १३७२ ॥

१०

अग्निं नरो दीधितिभिररण्योर्हस्तच्युतं जनयत प्रशस्तं ।

दूरेदृशं गृहपतिमथव्युं ॥ १३७३ ॥

तमग्निमस्ते वसवो न्यृण्वन्त्सुप्रतिचक्षमवसे कुतश्चित् ।

दक्षाय्यो यो दम आस नित्यः ॥ १३७४ ॥

प्रेद्धो अग्ने दीदिहि पुरो नोऽजस्रया सूर्म्या यविष्ठ ।

त्वां शश्वन्त उप यन्ति वाजाः ॥ १३७५ ॥

११

आयं गौः पृश्निरक्रमीदसदन्मातरं पुरः ।

पितरं च प्रयन्त्स्वः ॥ १३७६ ॥

अन्तश्चरति रोचनास्य प्राणादपानती ।

व्यख्यन्महिषो दिवं ॥ १३७७ ॥

त्रिंशद्धाम वि राजति वाक्पतङ्गाय धीयते ।

प्रति वस्तोरह द्युभिः ॥ १३७८ ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

डिजिटल दीमक और बिखरता समाज (The Modern Crisis)

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें