सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6 षष्ठप्रपाठकः/2.6.2 द्वितीयोऽर्द्धः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.6 षष्ठप्रपाठकः/2.6.2 द्वितीयोऽर्द्धः

उपप्रयन्तो अध्वरं मन्त्रं वोचेमाग्नये ।

आरे अस्मे च शृण्वते ॥ १३७९ ॥

यः स्नीहितीषु पूर्व्यः संजग्मानासु कृष्टिषु ।

अरक्षद्दाशुषे गयं ॥ १३८० ॥

स नो वेदो अमात्यमग्नी रक्षतु शन्तमः ।

उतास्मान्पात्वंहसः ॥ १३८१ ॥

उत ब्रुवन्तु जन्तव उदग्निर्वृत्रहाजनि ।

धनञ्जयो रणेरणे ॥ १३८२ ॥

अग्ने युङ्क्ष्वा हि ये तवाश्वासो देव साधवः ।

अरं वहन्त्याशवः ॥ १३८३ ॥

अच्छा नो याह्या वहाभि प्रयांसि वीतये ।

आ देवान्त्सोमपीतये ॥ १३८४ ॥

उदग्ने भारत द्युमदजस्रेण दविद्युतत् ।

शोचा वि भाह्यजर ॥ १३८५ ॥

प्र सुन्वानायान्धसो मर्त्तो न वष्ट तद्वचः ।

अप श्वानमराधसं हता मखं न भृगवः ॥ १३८६ ॥

आ जामिरत्के अव्यत भुजे न पुत्र ओण्योः ।

सरज्जारो न योषणां वरो न योनिमासदं ॥ १३८७ ॥

स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी ।

हरिः पवित्रे अव्यत वेधा न योनिमासदं ॥ १३८८ ॥

अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि ।

युधेदापित्वमिच्छसे ॥ १३८९ ॥

न की रेवन्तं सख्याय विन्दसे पीयन्ति ते सुराश्वः ।

यदा कृणोषि नदनुं समूहस्यादित्पितेव हूयसे ॥ १३९० ॥

आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ।

ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥ १३९१ ॥

आ त्वा रथे हिरण्यये हरी मयूरशेप्या ।

शितिपृष्ठा वहतां मध्वो अन्धसो विवक्षणस्य पीतये ॥ १३९२ ॥

पिबा त्वा३स्य गिर्वणः सुतस्य पूर्वपा इव ।

परिष्कृतस्य रसिन इयमासुतिश्चारुर्मदाय पत्यते ॥ १३९३ ॥

आ सोता परि षिञ्चताश्वं न स्तोममप्तुरं रजस्तुरं ।

वनप्रक्षमुदप्रुतं ॥ १३९४ ॥

सहस्रधारं वृषभं पयोदुहं प्रियं देवाय जन्मने ।

ऋतेन य ऋतजातो विवावृधे राजा देव ऋतं बृहत् ॥१३९५ ॥

अग्निर्वृत्राणि जङ्घनद्द्रविणस्युर्विपन्यया ।

समिद्धः शुक्र आहुतः ॥ १३९६ ॥

गर्भे मातुः पितुष्पिता विदिद्युतानो अक्षरे ।

सीदन्नृतस्य योनिमा ॥ १३९७ ॥

ब्रह्म प्रजावदा भर जातवेदो विचर्षणे ।

अग्ने यद्दीदयद्दिवि ॥ १३९८ ॥

अस्य प्रेषा हेमना पूयमानो देवो देवेभिः समपृक्त रसं ।

सुतः पवित्रं पर्येति रेभन्मितेव सद्म पशुमन्ति होता ॥ १३९९ ॥

भद्रा वस्त्रा समन्याऽऽ३ वसानो महान्कविर्निवचनानि शंसन् ।

आ वच्यस्व चम्वोः पूयमानो विचक्षणो जागृविर्देववीतौ ॥ १४०० ॥

समु प्रियो मृज्यते सानो अव्ये यशस्तरो यशसां क्षैतो अस्मे ।

अभि स्वर धन्वा पूयमानो यूयं पात स्वस्तिभिः सदा नः ॥ १४०१ ॥

एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना ।

शुद्धैरुक्थैर्वावृध्वांसं शुद्धैराशीर्वान्ममत्तु ॥ १४०२ ॥

इन्द्र शुद्धो न आ गहि शुद्धः शुद्धाभिरूतिभिः ।

शुद्धो रयिं नि धारय शुद्धो ममद्धि सोम्य ॥ १४०३ ॥

इन्द्र शुद्धो हि नो रयिं शुद्धो रत्नानि दाशुषे ।

शुद्धो वृत्राणि जिघ्नसे शुद्धो वाजं सिषाससि ॥ १४०४ ॥

१०

अग्ने स्तोमं मनामहे सिध्रमद्य दिविस्पृशः ।

देवस्य द्रविणस्यवः ॥ १४०५ ॥

अग्निर्जुषत नो गिरो होता यो मानुषेष्वा ।

स यक्षद्दैव्यं जनं ॥ १४०६ ॥

त्वमग्ने सप्रथा असि जुष्टो होता वरेण्यः ।

त्वया यज्ञं वि तन्वते ॥ १४०७ ॥

११

अभि त्रिपृष्ठं वृषणं वयोधामाङ्गोषिणमवावशंत वाणीः ।

वना वसानो वरुणो न सिन्धूर्वि रत्नधा दयते वार्याणि ॥ १४०८ ॥

शूरग्रामः सर्ववीरः सहावान्जेता पवस्व सनिता धनानि ।

तिग्मायुधः क्षिप्रधन्वा समत्स्वषाढः साह्वान्पृतनासु शत्रून् ॥१४०९ ॥

उरुगव्यूतिरभयानि कृण्वन्त्समीचीने आ पवस्वा पुरन्धी ।

अपः सिषासन्नुषसः स्वा३र्गाः सं चिक्रदो महो अस्मभ्यं वाजान् ॥१४१० ॥

१२

त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः ।

त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥ १४११ ॥

तमु त्वा नूनमसुर प्रचेतसं राधो भागमिवेमहे ।

महीव कृत्तिः शरणा त इन्द्र प्र ते सुम्ना नो अश्नवन् ॥१४१२ ॥

१३

यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यं ।

अस्य यज्ञस्य सुक्रतुं ॥ १४१३ ॥

अपां नपातं सुभगं सुदीदितिमग्निमु श्रेष्ठशोचिषं ।

स नो मित्रस्य वरुणस्य सो अपामा सुम्नं यक्षते दिवि ॥ १४१४ ॥

१४

यमग्ने पृत्सु मर्त्यमवा वाजेषु यं जुनाः ।

स यन्ता शश्वतीरिषः ॥ १४१५ ॥

न किरस्य सहन्त्य पर्येता कयस्य चित् ।

वाजो अस्ति श्रवाय्यः ॥ १४१६ ॥

स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता ।

विप्रेभिरस्तु सनिता ॥ १४१७ ॥

१५

साकमुक्षो मर्जयन्त स्वसारो दश धीरस्य धीतयो धनुत्रीः ।

हरिः पर्यद्रवज्जाः सूर्यस्य द्रोणं ननक्षे अत्यो न वाजी ॥ १४१८ ॥

सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः ।

मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥ १४१९ ॥

उत प्र पिप्य ऊधरघ्न्याया इन्दुर्धाराभिः सचते सुमेधाः ।

मूर्धानं गावः पयसा चमूष्वभि श्रीणन्ति वसुभिर्न निक्तैः ॥ १४२० ॥

१६

पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।

आपिर्नो बोधि सधमाद्ये वृधे३ऽस्मां अवन्तु ते धियः ॥ १४२१ ॥

भूयाम ते सुमतौ वाजिनो वयं मा न स्तरभिमातये ।

अस्मां चित्राभिरवतादभिष्टिभिरा नः सुम्नेषु यामय ॥ १४२२ ॥

१७

त्रिरस्मै सप्त धेनवो दुदुह्रिरे सत्यामाशिरं परमे व्योमनि ।

चत्वार्यन्या भुवनानि निर्णिजे चारूणि चक्रे यदृतैरवर्धत ॥ १४२३ ॥

स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे ।

तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥ १४२४ ॥

ते अस्य सन्तु केतवोऽमृत्यवोऽदाभ्यासो जनुषी उभे अनु ।

येभिर्नृम्णा च देव्या च पुनत आदिद्राजानं मनना अगृभ्णत ॥ १४२५ ॥

१८

अभि वायुं वीत्यर्षा गृणानो३ऽभि मित्रावरुणा पूयमानः ।

अभी नरं धीजवनं रथेष्ठामभीन्द्रं वृषणं वज्रबाहुं ॥ १४२६ ॥

अभि वस्त्रा सुवसनान्यर्षाभि धेनूः सुदुघाः पूयमानः ।

अभि चन्द्रा भर्त्तवे नो हिरण्याभ्यश्वान्रथिनो देव सोम ॥ १४२७ ॥

अभी नो अर्ष दिव्या वसून्यभि विश्वा पार्थिवा पूयमानः ।

अभि येन द्रविणमश्नवामाभ्यार्षेयं जमदग्निवन्नः ॥ १४२८ ॥

१९

यज्जायथा अपूर्व्य मघवन्वृत्रहत्याय ।

तत्पृथिवीमप्रथयस्तदस्तभ्ना उतो दिवं ॥ १४२९ ॥

तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः ।

तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वं ॥ १४३० ॥

आमासु पक्वमैरय आ सूर्यं रोहयो दिवि ।

घर्मं न सामं तपता सुवृक्तिभिर्जुष्टं गिर्वणसे बृहत् ॥१४३१ ॥

२०

मत्स्यपायि ते महः पात्रस्येव हरिवो मत्सरो मदः ।

वृषा ते वृष्ण इन्दुर्वाजी सहस्रसातमः ॥ १४३२ ॥

आ नस्ते गन्तु मत्सरो वृषा मदो वरेण्यः ।

सहावां इन्द्र सानसिः पृतनषाडमर्त्यः ॥ १४३३ ॥

त्वं हि शूरः सनिता चोदयो मनुषो रथं ।

सहावान्दस्युमव्रतमोषः पात्रं न शोचिषा ॥ १४३४ ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

डिजिटल दीमक और बिखरता समाज (The Modern Crisis)

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें