पितृपात्रं तदुत्तानं कृत्वा विप्रान्विसर्जयेत् । । १.२४८ । । |
प्रदक्षिणं अनुव्रज्य भुञ्जीत पितृसेवितम् । ब्रह्मचारी भवेत्तां तु रजनीं ब्राह्मणैः सह । । १.२४९ । । |
एवं प्रदक्षिणावृत्को वृद्धौ नान्दीमुखान्पितॄन् । यजेत दधि कर्कन्धु मिश्रान्पिण्डान्यवैः क्रियाः । । १.२५० । । |
एकोद्दिष्टं देवहीनं एकार्घ्यैकपवित्रकम् । आवाहनाग्नौकरण रहितं ह्यपसव्यवत् । । १.२५१ । । |
उपतिष्ठतां अक्षय्य स्थाने विप्रविसर्जने । अभिरम्यतां इति वदेद्ब्रूयुस्तेऽभिरताः स्म ह । । १.२५२ । । |
गन्धोदकतिलैर्युक्तं कुर्यात्पात्रचतुष्टयम् । अर्घ्यार्थं पितृपात्रेषु प्रेतपात्रं प्रसेचयेत् । । १.२५३ । । |
ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् । एतत्सपिण्डीकरणं एकोद्दिष्टं स्त्रिया अपि । । १.२५४ । । |
अर्वाक्सपिण्डीकरणं यस्य संवत्सराद्भवेत् । तस्याप्यन्नं सोदकुम्भं दद्यात्संवत्सरं द्विजे । । १.२५५ । । |
मृतेऽहनि प्रकर्तव्यं प्रतिमासं तु वत्सरम् । प्रतिसंवत्सरं चैवं आद्यं एकादशेऽहनि । । १.२५६ । । |
पिण्डांस्तु गोऽजविप्रेभ्यो दद्यादग्नौ जलेऽपि वा । प्रक्षिपेत्सत्सु विप्रेषु द्विजोच्छिष्टं न मार्जयेत् । । १.२५७ । । |
हविष्यान्नेन वै मासं पायसेन तु वत्सरम् । मात्स्यहारिणकौरभ शाकुनच्छागपार्षतैः । । १.२५८ । । |
ऐणरौरववाराह शाशैर्मांसैर्यथाक्रमम् । मासवृद्ध्याभितृप्यन्ति दत्तैरिह पितामहाः । । १.२५९ । । |
खड्दामिषं महाशल्कं मधु मुन्यन्नं एव वा । लौहामिषं महाशाकं मांसं वार्ध्रीणसस्य च । । १.२६० । । |
यद्ददाति गयास्थश्च सर्वं आनन्त्यं अश्नुते । तथा वर्षात्रयोदश्यां मघासु च विशेषतः । । १.२६१ । । |
कन्यां कन्यावेदिनश्च पशून्वै सत्सुतानपि । द्यूतं कृषिं वाणिज्यां च द्विशफैकशफांस्तथा । । १.२६२ । । |
ब्रह्मवर्चस्विनः पुत्रान्स्वर्णरूप्ये सकुप्यके । ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा । । १.२६३ । । |
प्रतिपत्प्रभृतिष्वेकां वर्जयित्वा चतुर्दशीम् । शस्त्रेण तु हता ये वै तेभ्यस्तत्र प्रदीयते । । १.२६४ । । |
स्वर्गं ह्यपत्यं ओजश्च शौर्यं क्षेत्रं बलं तथा । पुत्रं श्रैष्ठ्यं च सौभाग्यं समृद्धिं मुख्यतां शुभम् । । १.२६५ । । |
प्रवृत्तचक्रतां चैव वाणिज्यप्रभृतीनपि । अरोगित्वं यशो वीत शोकतां परमां गतिम् । । १.२६६ । । |
धनं वेदान्भिषक्सिद्धिं कुप्यं गा अप्यजाविकम् । अश्वानायुश्च विधिवद्यः श्राद्धं संप्रयच्छति । । १.२६७ । । |
कृत्तिकादिभरण्यन्तं स कामानाप्नुयादिमान् । आस्तिकः श्रद्दधानश्च व्यपेतमदमत्सरः । । १.२६८ । । |
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः । प्रीणयन्ति मनुष्याणां पितॄन्श्राद्धेन तर्पिताः । । १.२६९ । । |
आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च । प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः । । १.२७० । । |
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know