सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.7 सप्तमप्रपाठकः/2.7.3 तृतीयोऽर्द्धः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.7 सप्तमप्रपाठकः/2.7.3 तृतीयोऽर्द्धः

अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।

समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यं ॥ १५७३ ॥

अस्येदिन्द्रो वावृधे वृष्ण्यं शवो मदे सुतस्य विष्णवि ।

अद्या तमस्य महिमानमायवोऽनु ष्टुवन्ति पूर्वथा ॥ १५७४ ॥

प्र वामर्चन्त्युक्थिनो नीथाविदो जरितारः ।

इन्द्राग्नी इष आ वृणे ॥ १५७५ ॥

इन्द्राग्नी नवतिं पुरो दासपत्नीरधूनुतं ।

साकमेकेन कर्मणा ॥ १५७६ ॥

इन्द्राग्नी अपसस्पर्युप प्र यन्ति धीतयः ।

ऋतस्य पथ्याऽऽ३ अनु ॥ १५७७ ॥

इन्द्राग्नी तविषाणी वां सधस्थानि प्रयांसि च ।

युवोरप्तूर्यं हितं ॥ १५७८ ॥

शग्ध्यू३ षु शचीपत इन्द्र विश्वाभिरूतिभिः ।

भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ॥ १५७९ ॥

पौरो अश्वस्य पुरुकृद्गवामस्युत्सो देव हिरण्ययः ।

न किर्हि दानं परि मर्धिषत्वे यद्यद्यामि तदा भर ॥ १५८० ॥

त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।

उद्वावृषस्व मधवन्गविष्टय उदिन्द्राश्वमिष्टये ॥ १५८१ ॥

त्वं पुरू सहस्राणि शतानि च यूथा दानाय मंहसे ।

आ पुरन्दरं चकृम विप्रवचस इन्द्रं गायन्तोऽवसे ॥ १५८२ ॥

यो विश्वा दयते वसु होता मन्द्रो जनानां ।

मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥ १५८३ ॥

अश्व न गीर्भी रथ्यं सुदानवो मर्मृज्यन्ते देवयवः ।

उभे तोके तनये दस्म विस्पते पर्षि राधो मघोनां ॥ १५८४ ॥

इमं मे वरुण श्रुधी हवमद्या च मृडय ।

त्वामवस्युरा चके ॥ १५८५ ॥

कया त्वं न ऊत्याभि प्र मन्दसे वृषन् ।

कया स्तोतृभ्य आ भर ॥ १५८६ ॥

इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।

इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ १५८७ ॥

इन्द्रो मह्ना रोदसी पप्रथच्छव इन्द्रः सूर्यमरोचयत् ।

इन्द्रे ह विश्वा भुवनानि येमिर इन्द्रे सुवानास इन्दवः ॥ १५८८ ॥

विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व तन्वा३ं स्वा हि ते ।

मुह्यन्त्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥ १५८९ ॥

१०

अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः ।

धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः ।

विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिरृक्वभिः ॥ १५९० ॥

प्राचीमनु प्रदिशं पाति चेकितत्सं रश्मिभिर्यतते दर्शतो रथो दैव्यो दर्शतो रथः ।

अग्मन्नुक्थानि पौंस्येन्द्रं जैत्राय हर्षयन् ।

वज्रश्च यद्भवथो अनपच्युता समत्स्वनपच्युता ॥ १५९१ ॥

त्वं ह त्यत्पणीनां विदो वसु सं मातृभिर्मर्जयसि स्व आ दम ऋतस्य धीतिभिर्दमे ।

परावतो न साम तद्यत्रा रणन्ति धीतयः ।

त्रिधातुभिररुषीभिर्वयो दधे रोचमानो वयो दधे । १५९२ ॥

११

उत नो गोषणिं धियमश्वसां वाजसामुत ।

नृवत्कृणुह्यूतये ॥ १५९३ ॥

१२

शशमानस्य वा नरः स्वेदस्य सत्यशवसः ।

विदा कामस्य वेनतः ॥ १५९४ ॥

१३

उप नः सूनवो गिरः शृण्वन्त्वमृतस्य ये ।

सुमृडीका भवन्तु नः ॥ १५९५ ॥

१४

प्र वां महि द्यवी अभ्युपस्तुतिं भरामहे ।

शुची उप प्रशस्तये ॥ १५९६ ॥

पुनाने तन्वा मिथः स्वेन दक्षेण राजथः ।

ऊह्याथे सनादृतं ॥ १५९७ ॥

मही मित्रस्य साधथस्तरन्ती पिप्रती ऋतं ।

परि यज्ञं नि षेदथुः ॥ १५९८ ॥

१५

अयमु ते समतसि कपोत इव गर्भधिं ।

वचस्तच्चिन्न ओहसे ॥ १५९९ ॥

स्तोत्रं राधानां पते गिर्वाहो वीर यस्य ते ।

विभूतिरस्तु सूनृता ॥ १६०० ॥

ऊर्ध्वस्तिष्ठा न ऊतयेऽस्मिन्वाजे शतक्रतो ।

समन्येषु ब्रवावहै ॥ १६०१ ॥

१६

गाव उप वदावटे मही यज्ञस्य रप्सुदा ।

उभा कर्णा हिरण्यया ॥ १६०२ ॥

अभ्यारमिदद्रयो निषिक्तं पुष्करे मधु ।

अवटस्य विसर्जने ॥ १६०३ ॥

सिञ्चन्ति नमसावटमुच्चाचक्रं परिज्मानं ।

नीचीनबारमक्षितं ॥ १६०४ ॥

१७

मा भेम मा श्रमिष्मोग्रस्य सख्ये तव ।

महत्ते वृष्णो अभिचक्ष्यं कृतं पश्येम तुर्वशं यदुं ॥ १६०५ ॥

सव्यामनु स्फिग्यं वावसे वृष्ना न दानो अस्य रोषति ।

मध्वा संपृक्ताः सारघेण धेनवस्तूयमेहि द्रवा पिब ॥ १६०६ ॥

१८

इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।

पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥ १६०७ ॥

अयं सहस्रमृषिभिः सहस्कृतः समुद्र इव पप्रथे ।

सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये ॥ १६०८ ॥

१९

यस्यायं विश्व आर्यो दासः शेवधिपा अरिः ।

तिरश्चिदर्ये रुशमे पवीरवि तुभ्येत्सो अज्यते रयिः ॥ १६०९ ॥

तुरण्यवो मधुमन्तं घृतश्चतं विप्रासो अर्कमानृचुः ।

अस्मे रयिः पप्रथे वृष्ण्यं शवोऽस्मे स्वानास इन्दवः ॥ १६१० ॥

२०

गोमन्न इन्दो अश्ववत्सुतः सुदक्ष धनिव ।

शुचिं च वर्णमधि गोषु धार्य ॥ १६११ ॥

स नो हरीणां पत इन्दो देवप्सरस्तमः ।

सखेव सख्ये नर्यो रुचे भव ॥ १६१२ ॥

सनेमि त्वमस्मदा अदेवं कं चिदत्रिणं ।

साह्वां इन्दो परि बाधो अप द्वयुं ॥ १६१३ ॥

२१

अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मध्वाभ्यञ्जते ।

सिन्धोरुऽच्छ्वासे पतयन्तमुक्षणं हिरण्यपावाः पशुमप्सु गृभ्णते ॥ १६१४ ॥

विपश्चिते पवमानाय गायत मही न धारात्यन्धो अर्षति ।

अहिर्न जूर्णामति सर्पति त्वचमत्यो न क्रीडन्नसरद्वृषा हरिः ॥ १६१५ ॥

अग्रेगो राजाप्यस्तविष्यते विमानो अह्नां भुवनेष्वर्पितः ।

हरिर्घृतस्नुः सुदृशीको अर्णवो ज्योतीरथः पवते राय ओक्यः ॥ १६१६ ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

भीष्म जीवनी - अनुवाद का महत्व (Importance of Translation

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें