सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.7 सप्तमप्रपाठकः/2.7.2 द्वितीयोऽर्द्धः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.7 सप्तमप्रपाठकः/2.7.2 द्वितीयोऽर्द्धः

कस्ते जामिर्जनानामग्ने को दाश्वध्वरः ।

को ह कस्मिन्नसि श्रितः ॥ १५३५ ॥

त्वं जामिर्जनानामग्ने मित्रो असि प्रियः ।

सखा सखिभ्य ईड्यः ॥ १५३६ ॥

यजा नो मित्रावरुणा यजा देवां ऋतं बृहत् ।

अग्ने यक्षि स्वं दमं ॥ १५३७ ॥

ईडेन्यो नमस्यस्तिरस्तमांसि दर्शतः ।

समग्निरिध्यते वृषा ॥ १५३८ ॥

वृषो अग्निः समिध्यतेऽश्वो न देववाहनः ।

तं हविष्मन्त ईडते ॥ १५३९ ॥

वृषणं त्वा वयं वृषन्वृषणः समिधीमहि ।

अग्ने दीद्यतं बृहत् ॥१५४० ॥

उत्ते बृहन्तो अर्चयः समिधानस्य दीदिवः ।

अग्ने शुक्रास ईरते ॥ १५४१ ॥

उप त्वा जुह्वो३ मम घृताचीर्यन्तु हर्यत ।

अग्ने हव्या जुषस्व नः ॥ १५४२ ॥

मन्द्रं होतारमृत्विजं चित्रभानुं विभावसुं ।

अग्निमीडे स उ श्रवत् ॥१५४३ ॥

पाहि नो अग्न एकया पाह्यू३त द्वितीयया ।

पाहि गीर्भिस्तिसृभिरूर्जां पते पाहि चतसृभिर्वसो ॥ १५४४ ॥

पाहि विश्वस्माद्रक्षसो अराव्णः प्र स्म वाजेषु नोऽव ।

त्वामिद्धि नेदिष्ठं देवतातय आपिं नक्षामहे वृधे ॥ १५४५ ॥

इनो राजन्नरतिः समिद्धो रौद्रो दक्षाय सुषुमां अदर्शि ।

चिकिद्वि भाति भासा बृहतासिक्नीमेति रुशतीमपाजन् ॥१५४६ ॥

कृष्णां यदेनीमभि वर्पसाभूज्जनयन्योषां बृहतः पितुर्जां ।

ऊर्ध्वं भानुं सूर्यस्य स्तभायन्दिवो वसुभिररतिर्वि भाति ॥ १५४७ ॥

भद्रो भद्रया सचमान आगात्स्वसारं जारो अभ्येति पश्चात् ।

सुप्रकेतैर्द्युभिरग्निर्वितिष्ठन्रुशद्भिर्वर्णैरभि राममस्थात् ॥१५४८ ॥

कया ते अग्ने अङ्गिर ऊर्जो नपादुपस्तुतिं ।

वराय देव मन्यवे ॥ १५४९ ॥

दाशेम कस्य मनसा यज्ञस्य सहसो यहो ।

कदु वोच इदं नमः ॥ १५५० ॥

अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः ।

वाजद्रविणसो गिरः ॥ १५५१ ॥

अग्न आ याह्यग्निभिर्होतारं त्वा वृणीमहे ।

आ त्वामनक्तु प्रयता हविष्मती यजिष्ठं बर्हिरासदे ॥ १५५२ ॥

अच्छा हि त्वा सहसः सूनो अङ्गिरः स्रुचश्चरन्त्यध्वरे ।

ऊर्जो नपातं घृतकेशमीमहेऽग्निं यज्ञेषु पूर्व्यं ॥ १५५३ ॥

अच्छा नः शीरशोचिषं गिरो यन्तु दर्शतं ।

अच्छा यज्ञासो नमसा पुरूवसुं पुरुप्रशस्तमूतये ॥ १५५४ ॥

अग्निं सूनुं सहसो जातवेदसं दानाय वार्याणां ।

द्विता यो भूदमृतो मर्त्येष्वा होता मन्द्रतमो विशि ॥ १५५५ ॥

अदाभ्यः पुरएता विशामग्निर्मानुषीणां ।

तूर्णी रथः सदा नवः ॥ १५५६ ॥

अभि प्रयांसि वाहसा दाश्वां अश्नोति मर्त्यः ।

क्षयं पावकशोचिषः ॥ १५५७ ॥

साह्वान्विश्वा अभियुजः क्रतुर्देवानाममृक्तः ।

अग्निस्तुविश्रवस्तमः ॥ १५५८ ॥

१०

भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।

भद्रा उत प्रशस्तयः ॥ १५५९ ॥

भद्रं मनः कृणुष्व वृत्रतूर्ये येना समत्सु सासहिः ।

अव स्थिरा तनुहि भूरि शर्धतां वनेमा ते अभिष्टये ॥ १५६० ॥

११

अग्ने वाजस्य गोमत ईशानः सहसो यहो ।

अस्मे देहि जातवेदो महि श्रवः ॥ १५६१ ॥

स इधानो वसुष्कविरग्निरीडेन्यो गिरा ।

रेवदस्मभ्यं पुर्वणीक दीदिहि ॥ १५६२ ॥

क्षपो राजन्नुत त्मनाग्ने वस्तोरुतोषसः ।

स तिग्मजम्भ रक्षसो दह प्रति ॥ १५६३ ॥

१२

विशोविशो वो अतिथिं वाजयन्तः पुरुप्रियं ।

अग्निं वो दुर्यं वच स्तुषे शूषस्य मन्मभिः ॥ १५६४ ॥

यं जनासो हविष्मन्तो मित्रं न सर्पिरासुतिं ।

प्रशंसन्ति प्रशस्तिभिः ॥ १५६५ ॥

पन्यांसं जातवेदसं यो देवतात्युद्यता ।

हव्यान्यैरयद्दिवि ॥ १५६६ ॥

१३

समिद्धमग्निं समिधा गिरा गृणे शुचिं पावकं पुरो अध्वरे ध्रुवं ।

विप्रं होतारं पुरुवारमद्रुहं कविं सुम्नैरीमहे जातवेदसं ॥ १५६७ ॥

त्वां दूतमग्ने अमृतं युगेयुगे हव्यवाहं दधिरे पायुमीड्यम् ।

देवासश्च मर्त्तासश्च जागृविं विभुं विश्पतिं नमसा नि षेदिरे ॥ १५६८ ॥

विभूषन्नग्न उभयां अनु व्रता दूतो देवानां रजसी समीयसे ।

यत्ते धीतिं सुमतिमावृणीमहेऽध स्मा नस्त्रिवरूथः शिवो भव ॥ १५६९ ॥

१४

उप त्वा जामयो गिरो देदिशतीर्हविष्कृतः ।

वायोरनीके अस्थिरन् ॥१५७० ॥

यस्य त्रिधात्ववृतं बर्हिस्तस्थावसन्दिनं ।

आपश्चिन्नि दधा पदं ॥ १५७१ ॥

पदं देवस्य मीढुषोऽनाधृष्टाभिरूतिभिः ।

भद्रा सूर्य इवोपदृक् ॥१५७२ ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

भीष्म जीवनी - अनुवाद का महत्व (Importance of Translation

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें