सींनो विवादे क्षेत्रस्य सामन्ताः स्थविरादयः । गोपाः सीमाकृषाणा ये सर्वे च वनगोचराः । । २.१५० । । |
नयेयुरेते सीमानं स्थलाङ्गारतुषद्रुमैः । सेतुवल्मीकनिंनास्थि चैत्याद्यैरुपलक्षिताम् । । २.१५१ । । |
सामन्ता वा समग्रामाश्चत्वारोऽष्टौ दशापि वा । रक्तस्रग्वसनाः सीमां नयेयुः क्षितिधारिणः । । २.१५२ । । |
अनृते तु पृथग्दण्ड्या राज्ञा मध्यमसाहसम् । अभावे ज्ञातृचिह्नानां राजा सींनः प्रवर्तिता । । २.१५३ । । |
आरामायतनग्राम निपानोद्यानवेश्मसु । एष एव विधिर्ज्ञेयो वर्षाम्बुप्रवहादिषु । । २.१५४ । । |
मर्यादायाः प्रभेदे च सीमातिक्रमणे तथा । क्षेत्रस्य हरणे दण्डा अधमोत्तममध्यमाः । । २.१५५ । । |
न निषेध्योऽल्पबाधस्तु सेतुः कल्याणकारकः । परभूमिं हरन्कूपः स्वल्पक्षेत्रोबहूदकः । । २.१५६ । । |
स्वामिने योऽनिवेद्यैव क्षेत्रे सेतुं प्रवर्तयेत् । उत्पन्ने स्वामिनो भोगस्तदभावे महीपतेः । । २.१५७ । । |
फालाहतं अपि क्षेत्रं न कुर्याद्यो न कारयेत् । स प्रदाप्यः कृष्टफलं क्षेत्रं अन्येन कारयेत् । । २.१५८ । । |