असाक्षिकहते चिह्नैर्युक्तिभिश्चागमेन च । द्रष्टव्यो व्यवहारस्तु कूटचिह्नकृतो भयात् । । २.२१२ । । |
भस्मपङ्करजःस्पर्शे दण्डो दशपणः स्मृतः । अमेध्यपार्ष्णिनिष्ठ्यूत स्पर्शने द्विगुणस्ततः । । २.२१३ । । |
समेष्वेवं परस्त्रीषु द्विगुणस्तूत्तमेषु च । हीनेष्वर्धदमो मोह मदादिभिरदण्डनम् । । २.२१४ । । |
विप्रपीडाकरं छेद्यं अङ्गं अब्राह्मणस्य तु । उद्गूर्णे प्रथमो दण्डः संस्पर्शे तु तदर्धिकः । । २.२१५ । । |
उद्गूर्णे हस्तपादे तु दशविंशतिकौ दमौ । परस्परं तु सर्वेषां शस्त्रे मध्यमसाहसः । । २.२१६ । । |
पादकेशांशुककरोल् लुञ्चनेषु पणान्दश । पीडाकर्षांशुकावेष्ट पादाध्यासे शतं दमः । । २.२१७ । । |
शोणितेन विना दुःखं कुर्वन्काष्ठादिभिर्नरः । द्वात्रिंशतं पणान्दण्ड्यो द्विगुणं दर्शनेऽसृजः । । २.२१८ । । |
करपाददतो भङ्गे छेदने कर्णनासयोः । मध्यो दण्डो व्रणोद्भेदे मृतकल्पहते तथा । । २.२१९ । । |
चेष्टाभोजनवाग्रोधे नेत्रादिप्रतिभेदने । कन्धराबाहुसक्थ्नां च भङ्गे मध्यमसाहसः । । २.२२० । । |
एकं घ्नतां बहूनां च यथोक्ताद्द्विगुणो दमः । कलहापहृतं देयं दण्डश्च द्विगुणस्ततः । । २.२२१ । । |
दुःखं उत्पादयेद्यस्तु स समुत्थानजं व्ययम् । दाप्यो दण्डं च यो यस्मिन्कलहे समुदाहृतः । । २.२२२ । । |
अभिघाते तथा छेदे भेदे कुड्यावपातने । पणान्दाप्यः पञ्च दश विंशतिं तद्व्ययं तथा । । २.२२३ । । |
दुःखोत्पादि गृहे द्रव्यं क्षिपन्प्राणहरं तथा । षोडशाद्यः पणान्दाप्यो द्वितीयो मध्यमं दमम् । । २.२२४ । । |
दुःखे च शोणितोत्पादे शाखाङ्गच्छेदने तथा । दण्डः क्षुद्रपशूनां तु द्विपणप्रभृतिः क्रमात् । । २.२२५ । । |
लिङ्गस्य छेदने मृत्यौ मध्यमो मूल्यं एव च । महापशूनां एतेषु स्थानेषु द्विगुणो दमः । । २.२२६ । । |
प्ररोहिशाखिनां शाखा स्कन्धसर्वविदारणे । उपजीव्यद्रुमाणां च विंशतेर्द्विगुणो दमः । । २.२२७ । । |
चैत्यश्मशानसीमासु पुण्यस्थाने सुरालये । जातद्रुमाणां द्विगुणो दमो वृक्षे च विश्रुते । । २.२२८ । । |
गुल्मगुच्छक्षुपलता प्रतानौषधिवीरुधाम् । पूर्वस्मृतादर्धदण्डः स्थानेषूक्तेषु कर्तने । । २.२२९ । । |
0 टिप्पणियाँ
If you have any Misunderstanding Please let me know