स्वं लभेतान्यविक्रीतं क्रेतुर्दोषोऽप्रकाशिते । हीनाद्रहो हीनमूल्ये वेलाहीने च तस्करः । । २.१६८ । । |
नष्टापहृतं आसाद्य हर्तारं ग्राहयेन्नरम् । देशकालातिपत्तौ च गृहीत्वा स्वयं अर्पयेत् । । २.१६९ । । |
विक्रेतुर्दर्शनाच्छुद्धिः स्वामी द्रव्यं नृपो दमम् । क्रेता मूल्यं अवाप्नोति तस्माद्यस्तस्य विक्रयी । । २.१७० । । |
आगमेनोपभोगेन नष्टं भाव्यं अतोऽन्यथा । पञ्चबन्धो दमस्तस्य राज्ञे तेनाविभाविते । । २.१७१ । । |
हृतं प्रनष्टं यो द्रव्यं परहस्तादवाप्नुयात् । अनिवेद्य नृपे दण्ड्यः स तु षण्णवतिं पणान् । । २.१७२ । । |
शौल्किकैः स्थानपालैर्वा नष्टापहृतं आहृतम् । अर्वाक्संवत्सरात्स्वामी हरेत परतो नृपः । । २.१७३ । । |
पणानेकशफे दद्याच्चतुरः पञ्च मानुषे । महिषोष्ट्रगवां द्वौ द्वौ पादं पादं अजाविके । । २.१७४ । । |