माषानष्टौ तु महिषी सस्यघातस्य कारिणी । दण्डनीया तदर्धं तु गौस्तदर्धं अजाविकम् । । २.१५९ । । |
भक्षयित्वोपविष्टानां यथोक्ताद्द्विगुणो दमः । समं एषां विवीतेऽपि खरोष्ट्रं महिषीसमम् । । २.१६० । । |
यावत्सस्यं विनश्येत्तु तावत्स्यात्क्षेत्रिणः फलम् । गोपस्ताड्यश्च गोमी तु पूर्वोक्तं दण्डं अर्हति । । २.१६१ । । |
पथि ग्रामविवीतान्ते क्षेत्रे दोषो न विद्यते । अकामतः कामचारे चौरवद्दण्डं अर्हति । । २.१६२ । । |
महोक्षोत्सृष्टपशवः सूतिकागन्तुकादयः । पालो येषां न ते मोच्या दैवराजपरिप्लुताः । । २.१६३ । । |
यथार्पितान्पशून्गोपः सायं प्रत्यर्पयेत्तथा । प्रमादमृतनष्टांश्च प्रदाप्यः कृतवेतनः । । २.१६४ । । |
पालदोषविनाशे तु पाले दण्डो विधीयते । अर्धत्रयोदशपणः स्वामिनो द्रव्यं एव च । । २.१६५ । । |
ग्राम्येच्छया गोप्रचारो भूमिराजवशेन वा । द्विजस्तृणैधःपुष्पाणि सर्वतः सर्वदा हरेत् । । २.१६६ । । |
धनुःशतं परीणाहो ग्रामे क्षेत्रान्तरं भवेत् । द्वे शते खर्वटस्य स्यान्नगरस्य चतुःशतम् । । २.१६७ । । |