सवर्णेभ्यः सवर्णासु जायन्ते हि सजातयः । अनिन्द्येषु विवाहेषु पुत्राः संतानवर्धनाः । । १.९० । । |
विप्रान्मूर्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् । अम्बष्ठः शूद्र्यां निषादो जातः पारशवोऽपि वा । । १.९१ । । |
वैश्याशूद्र्योस्तु राजन्यान्माहिष्योग्रौ सुतौ स्मृतौ । वैश्यात्तु करणः शूद्र्यां विन्नास्वेष विधिः स्मृतः । । १.९२ । । |
ब्राह्मण्यां क्षत्रियात्सूतो वैश्याद्वैदेहकस्तथा । शूद्राज्जातस्तु चण्डालः सर्वधर्मबहिष्कृतः । । १.९३ । । |
क्षत्रिया मागधं वैश्याच्छूद्रात्क्षत्तारं एव च । शूद्रादायोगवं वैश्या जनयामास वै सुतम् । । १.९४ । । |
माहिष्येण करण्यां तु रथकारः प्रजायते । असत्सन्तस्तु विज्ञेयाः प्रतिलोमानुलोमजाः । । १.९५ । । |
जात्युत्कर्षो युगे ज्ञेयः सप्तमे पञ्चमेऽपि वा । व्यत्यये कर्मणां साम्यं पूर्ववच्चाधरोत्तरम् । । १.९६ । । |