सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.8 अष्टमप्रपाठकः/2.8.3 तृतीयोऽर्द्धः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.8 अष्टमप्रपाठकः/2.8.3 तृतीयोऽर्द्धः

अग्निः प्रत्नेन जन्मना शुम्भानस्तन्वा३ं स्वां ।

कविर्विप्रेण ववृधे ॥ १७११ ॥

ऊर्ज्जो नपातमा हुवेऽग्निं पावकशोचिषं ।

अस्मिन्यज्ञे स्वध्वरे ॥ १७१२ ॥

स नो मित्रमहस्त्वमग्ने शुक्रेण शोचिषा ।

देवैरा सत्सि बर्हिषि ॥ १७१३ ॥

उत्ते शुष्मासो अस्थू रक्षो भिन्दन्तो अद्रिवः ।

नुदस्व याः परिस्पृधः ॥ १७१४ ॥

अया निजघ्निरोजसा रथसङ्गे धने हिते ।

स्तवा अबिभ्युषा हृदा ॥ १७१५ ॥

अस्य व्रतानि नाधृषे पवमानस्य दूढ्या ।

रुज यस्त्वा पृतन्यति ॥ १७१६ ॥

तं हिन्वन्ति मदच्युतं हरिं नदीषु वाजिनं ।

इन्दुमिन्द्राय मत्सरं ॥ १७१७ ॥

आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।

मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव तां इहि ॥ १७१८ ॥

वृत्रखादो वलं रुजः पुरां दर्मो अपामजः ।

स्थाता रथस्य हर्योरभिस्वर इन्द्रो दृढा चिदारुजः ॥ १७१९ ॥

गम्भीरां उदधींरिव क्रतुं पुष्यसि गा इव ।

प्र सुगोपा यवसं धेनवो यथा ह्रदं कुल्या इवाशत ॥ १७२० ॥

यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणं ।

आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥ १७२१ ॥

मन्दन्तु त्वा मघवन्निन्द्रेन्दवो राधोदेयाय सुन्वते ।

आमुष्या सोममपिबश्चमू सुतं ज्येष्ठं तद्दधिषे सहः ॥ १७२२ ॥

त्वमङ्ग प्र शुंसिषो देवः शविष्ठ मर्त्यं ।

न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ १७२३ ॥

मा ते राधांसि मा त ऊतयो वसोऽस्मान्कदा चना दभन् ।

विश्वा च न उपमिमीहि मानुष वसूनि चर्षणिभ्य आ ॥ १७२४ ॥

प्रति ष्या सूनरी जनी व्युच्छन्ती परि स्वसुः ।

दिवो अदर्शि दुहिता ॥ १७२५ ॥

अश्वेव चित्रारुषी माता गवामृतावरी ।

सखा भूदश्विनोरुषाः ॥ १७२६ ॥

उत सखास्यश्विनोरुत माता गवामसि ।

उतोषो वस्व ईशिषे ॥ १७२७ ॥

एषो उषा अपूर्व्य व्युच्छति प्रिया दिवः ।

स्तुषे वामश्विना बृहत् ॥१७२८ ॥

या दस्रा सिन्धुमातरा मनोतरा रयीणां ।

धिया देवा वसुविदा ॥ १७२९ ॥

वच्यन्ते वां ककुहासो जूर्णायामधि विष्टपि ।

यद्वां रथो विभिष्पतात् ॥१७३० ॥

उषस्तच्चित्रमा भरास्मभ्यं वाजिनीवति ।

येन तोकं च तनयं च धामहे ॥ १७३१ ॥

उषो अद्येह गोमत्यश्वावति विभावरि ।

रेवदस्मे व्युच्छ सूनृतावति ॥ १७३२ ॥

युङ्क्ष्वा हि वाजिनीवत्यश्वां अद्यारुणां उषः ।

अथा नो विश्वा सौभगान्या वह ॥ १७३३ ॥

अश्विना वर्तिरस्मदा गोमद्दस्रा हिरण्यवत् ।

अर्वाग्रथं समनसा नि यच्छतं ॥ १७३४ ॥

एह देवा मयोभुवा दस्रा हिरण्यवर्त्तनी ।

उषर्बुधो वहन्तु सोमपीतये ॥ १७३५ ॥

यावित्था श्लोकमा दिवो ज्योतिर्जनाय चक्रथुः ।

आ न ऊर्जं वहतमश्विना युवं ॥ १७३६ ॥

१०

अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।

अस्तमर्वन्त आशवोस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥ १७३७ ॥

अग्निर्हि वाजिनं विशे ददाति विश्वचर्षणिः ।

अग्नी राये स्वाभुवं स प्रीतो याति वार्यमिषं स्तोतृभ्य आ भर ॥ १७३८ ॥

सो अग्निर्यो वसुर्गृणे सं यमायन्ति धेनवः ।

समर्वन्तो रघुद्रुवः सं सुजातासः सूरय इषं स्तोतृभ्य आ भर ॥ १७३९ ॥

११

महे नो अद्य बोधयोषो राये दिवित्मती ।

यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ १७४० ॥

या सुनीथे शौचद्रथे व्यौच्छो दुहितर्दिवः ।

सा व्युच्छ सहीयसि सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ १७४१ ॥

सा नो अद्याभरद्वसुर्व्युच्छा दुहितर्दिवः ।

यो व्यौच्छः सहीयसि सत्यश्रवसि याय्ये सुजाते अश्वसूनृते ॥ १७४२ ॥

१२

प्रति प्रियतमं रथं वृषणं वसुवाहनं ।

स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवं ॥ १७४३ ॥

अत्यायातमश्विना तिरो विश्वा अहं सना ।

दस्रा हिरण्यवर्त्तनी सुषुम्णा सिन्धुवाहसा माध्वी मम श्रुतं हवं ॥ १७४४ ॥

आ नो रत्नानि बिभ्रतावश्विना गच्छतं युवं ।

रुद्रा हिरण्यवर्त्तनी जुषाणा वाजिनीवसू माध्वी मम श्रुतं हवं ॥ १७४५ ॥

१३

अबोध्यग्निः समिधा जनानां प्रति धेनुमिवायतीमुषासं ।

यह्वा इव प्र वयामुज्जिहानाः प्र भानवः सस्रते नाकमच्छ ॥ १७४६ ॥

अबोधि होता यजथाय देवानूर्ध्वो अग्निः सुमनाः प्रातरस्थात् ।

समिद्धस्य रुशददर्शि पाजो महान्देवस्तमसो निरमोचि ॥ १७४७ ॥

यदीं गणस्य रशनामजीगः शुचिरङ्क्ते शुचिभिर्गोभिरग्निः ।

आद्दक्षिणा युज्यते वाजयन्त्युत्तानामूर्ध्वो अधयज्जुहूभिः ॥ १७४८ ॥

१४

इदं श्रेष्ठं ज्योतिषां ज्योतिरागाच्चित्रः प्रकेतो अजनिष्ट विभ्वा ।

यथा प्रसूता सवितुः सवायैवा रात्र्युषसे योनिमारैक् ॥१७४९ ॥

रुशाद्वत्सा रुशती श्वेत्यागादारैगु कृष्णा सदनान्यस्याः ।

समानबन्धू अमृते अनूची द्यावा वर्णं चरत आमिनाने ॥ १७५० ॥

समानो अध्वा स्वस्रोरनन्तस्तमन्यान्या चरतो देवशिष्टे ।

न मेथेते न तस्थतुः सुमेके नक्तोषासा समनसा विरूपे ॥ १७५१ ॥

१५

आ भात्यग्निरुषसामनीकमुद्विप्राणां देवया वाचो अस्थुः ।

अर्वाञ्चा नूनं रथ्येह यातं पीपिवांसमश्विना घर्ममच्छ ॥ १७५२ ॥

न संस्कृतं प्र मिमीतो गमिष्ठान्ति नूनमश्विनोपस्तुतेह ।

दिवाभिपित्वेवसागमिष्ठा प्रत्यवर्त्तिं दाशुषे शम्भविष्ठा ॥ १७५३ ॥

उता यातं संगवे प्रातरह्नो मध्यन्दिन उदिता सूर्यस्य ।

दिवा नक्तमवसा शन्तमेन नेदानीं पीतिरश्विना ततान ॥ १७५४ ॥

१६

एता उ त्या उषसः केतुमक्रत पूर्वे अर्धे रजसो भानुमञ्जते ।

निष्कृण्वाना आयुधानीव धृष्णवः प्रति गावोऽरुषीर्यन्ति मातरः ॥ १७५५ ॥

उदपप्तन्नरुणा भानवो वृथा स्वायुजो अरुषीर्गा अयुक्षत ।

अक्रन्नुषासो वयुनानि पूर्वथा रुशन्तं भानुमरुषीरशिश्रयुः ॥ १७५६ ॥

अर्चन्ति नारीरपसो न विष्टिभिः समानेन योजनेना परावतः ।

इषं वहन्तीः सुकृते सुदानवे विश्वेदह यजमानाय सुन्वते ॥ १७५७ ॥

१७

अबोध्यग्निर्ज्म उदेति सूर्यो व्यू३षाश्चन्द्रा मह्यावो अर्चिषा ।

आयुक्षातामश्विना यातवे रथं प्रासावीद्देवः सविता जगत्पृथक् ॥१७५८ ॥

यद्युञ्जाथे वृषणमश्विना रथं घृतेन नो मधुना क्षत्रमुक्षतं ।

अस्माकं ब्रह्म पृतनासु जिन्वतं वयं धना शूरसाता भजेमहि ॥ १७५९ ॥

अर्वाङ्त्रिचक्रो मधुवाहनो रथो जीराश्वो अश्विनोर्यातु सुष्टुतः ।

त्रिवन्धुरो मघवा विश्वसौभगः शं न आ वक्षद्द्विपदे चतुष्पदे ॥ १७६० ॥

१८

प्र ते धारा असश्चतो दिवो न यन्ति वृष्टयः ।

अच्छा वाजं सहस्रिणं ॥ १७६१ ॥

अभि प्रियाणि काव्या विश्वा चक्षाणो अर्षति ।

हरिस्तुञ्जान आयुधा ॥ १७६२ ॥

स मर्मृजान आयुभिरिभो राजेव सुव्रतः ।

श्येनो न वंसु षीदति ॥ १७६३ ॥

स नो विश्वा दिवो वसूतो पृथिव्या अधि ।

पुनान इन्दवा भर ॥ १७६४ ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

भीष्म जीवनी - अनुवाद का महत्व (Importance of Translation

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें