सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.9 नवमप्रपाठकः/2.9.1 प्रथमोऽर्द्धः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.9 नवमप्रपाठकः/2.9.1 प्रथमोऽर्द्धः

प्रास्य धारा अक्षरन्वृष्णः सुतस्यौजसा ।

देवां अनु प्रभूषतः ॥ १७६५ ॥

सप्तिं मृजन्ति वेधसो गृणन्तः कारवो गिरा ।

ज्योतिर्जज्ञानमुक्थ्यं ॥ १७६६ ॥

सुषहा सोम तानि ते पुनानाय प्रभूवसो ।

वर्धा समुद्रमुक्थ्यं ॥ १७६७ ॥

एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥ १७६८ ॥

त्वामिच्छवसस्पते यन्ति गिरो न संयतः ॥ १७६९ ॥

वि स्रुतयो यथा पथा इन्द्र त्वद्यन्तु रातयः ॥ १७७० ॥

आ त्वा रथं यथोतये सुम्नाय वर्त्तयामसि ।

तुविकूर्मिमृतीषहमिन्द्रं शविष्ठ सत्पतिं ॥ १७७१ ॥

तुविशुष्म तुविक्रतो शचीवो विश्वया मते ।

आ पप्राथ महित्वना ॥ १७७२ ॥

यस्य ते महिना महः परि ज्मायन्तमीयतुः ।

हस्ता वज्रं हिरण्ययं ॥ १७७३ ॥

आ यः पुरं नार्मिणीमदीदेदत्यः कविर्नभन्यो३ नार्व ।

सूरो न रुरुक्वाञ्छतात्मा ॥ १७७४ ॥

अभि द्विजन्मा त्री रोचनानि विश्वा रजांसि शुशुचनो अस्थात् ।

होता यजिष्ठो अपां सधस्थे ॥ १७७५ ॥

अयं स होता यो द्विजन्मा विश्वा दधे वार्याणि श्रवस्या ।

मर्तो यो अस्मै सुतुको ददाश ॥ १७७६ ॥

अग्ने तमद्याष्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृषं ।

ऋध्यामा त ओहैः ॥ १७७७ ॥

अधा ह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः ।

रथीरृतस्य बृहतो बभूथ ॥ १७७८ ॥

एभिर्नो अर्कैर्भवा नो अर्वाङ्क्स्वा३र्ण ज्योतिः ।

अग्ने विश्वेभिः सुमना अनीकैः ॥ १७७९ ॥

अग्ने विवस्वदुषसश्चित्रं राधो अमर्त्य ।

आ दाशुषे जातवेदो वहा त्वमद्या देवां उषर्बुधः ॥ १७८० ॥

जुष्टो हि दूतो असि हव्यवाहनोऽग्ने रथीरध्वराणां ।

सजूरश्विभ्यामुषसा सुवीर्यमस्मे धेहि श्रवो बृहत् ॥१७८१ ॥

विधुं दद्राणं समने बहूनां युवानं सन्तं पलितो जगार ।

देवस्य पश्य काव्यं महित्वाद्या ममार स ह्यः समान ॥ १७८२ ॥

शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः ।

यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥ १७८३ ॥

ऐभिर्ददे वृष्ण्या प्ॐस्यानि येभिरौक्षद्वृत्रहत्याय वज्री ।

ये कर्मणः क्रियमाणस्य मह्न ऋतेकर्ममुदजायन्त देवाः ॥ १७८४ ॥

अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः ।

उत स्वराजो अश्विना ॥ १७८५ ॥

पिबन्ति मित्रो अर्यमा तना पूतस्य वरुणः ।

त्रिषधस्थस्य जावतः ॥ १७८६ ॥

उतो न्वस्य जोषमा इन्द्रः सुतस्य गोमतः ।

प्रातर्होतेव मत्सति ॥ १७८७ ॥

बण्महां असि सूर्य बडादित्य महां असि ।

महस्ते सतो महिमा पनिष्तम मह्ना देव महां असि ॥ १७८८ ॥

बट्सूर्य श्रवसा महां असि सत्रा देव महां असि ।

मह्ना देवानामसुर्यः पुरोहितो विभु ज्योतिरदाभ्यं ॥ १७८९ ॥

१०

उप नो हरिभिः सुतं याहि मदानां पते ।

उप नो हरिभिः सुतं ॥ १७९० ॥

द्विता यो वृत्रहन्तमो विद इन्द्रः शतक्रतुः ।

उप नो हरिभिः सुतं ॥ १७९१ ॥

त्वं हि वृत्रहन्नेषां पाता सोमानामसि ।

उप नो हरिभिः सुतं ॥ १७९२ ॥

११

प्र वो महे महेवृधे भरध्वं प्रचेतसे प्र सुमतिं कृणुध्वं ।

विशः पूर्वीः प्र चर चर्षणिप्राः ॥ १७९३ ॥

उरुव्यचसे महिने सुवृक्तिमिन्द्राय ब्रह्म जनयन्त विप्राः ।

तस्य व्रतानि न मिनन्ति धीराः ॥ १७९४ ॥

इन्द्रं वाणीरनुत्तमन्युमेव सत्रा राजानं दधिरे सहध्यै ।

हर्यश्वाय बर्हया समापीन् ॥१७९५ ॥

१२

यदिन्द्र यावतस्त्वमेतावदहमीशीय ।

स्तोतारमिद्दधिषे रदावसो न पापत्वाय रंसिषं ॥ १७९६ ॥

शिक्षेयमिन्महयते दिवेदिवे राय आ कुहचिद्विदे ।

न हि त्वदन्यन्मघवन्न आप्यं वस्यो अस्ति पिता च न ॥ १७९७ ॥

१३

श्रुधी हवं विपिपानस्याद्रेर्बोधा विप्रस्यार्चतो मनीषां ।

कृष्वा दुवांस्यन्तमा सचेमा ॥ १७९८ ॥

न ते गिरो अपि मृष्ये तुरस्य न सुष्टुतिमसुर्यस्य विद्वान् ।

सदा ते नाम स्वयशो विवक्मि ॥ १७९९ ॥

भूरि हि ते सवना मानुषेषु भूरि मनीषी हवते त्वामित् ।

मारे अस्मन्मघवञ्ज्योक्कः ॥ १८०० ॥

१४

प्रो ष्वस्मै पुरोरथमिन्द्राय शूषमर्चत ।

अभीके चिदु लोककृत्सङ्गे समत्सु वृत्रह ।

अस्माकं बोधि चोदिता नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०१ ॥

त्वं सिन्धूंरवासृजोऽधराचो अहन्नहिं ।

अशत्रुरिन्द्र जज्ञिषे विश्वं पुष्यसि वार्यं ।

तं त्वा परि ष्वजामहे नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०२ ॥

वि षु विश्वा अरातयोऽर्यो नशन्त नो धियः ।

अस्तासि शत्रवे वधं यो न इन्द्र जिघांसति ।

या ते रातिर्ददिवसु नभन्तामन्यकेषां ज्याका अधि धन्वसु ॥ १८०३ ॥

१५

रेवां इद्रेवत स्तोता स्यात्त्वावतो मघोनः ।

प्रेदु हरिवः सुतस्य ॥ १८०४ ॥

उक्थं च न शस्यमानं नागो रयिरा चिकेत ।

न गायत्रं गीयमानं ॥ १८०५ ॥

मा न इन्द्र पीयत्नवे मा शर्धते परा दाः ।

शिक्षा शचीवः शचीभिः ॥ १८०६ ॥

१६

एन्द्र याहि हरिभिरुप कण्वस्य सुष्टुतिं ।

दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०७ ॥

अत्रा वि नेमिरेषामुरां न धूनुते वृकः ।

दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०८ ॥

आ त्वा ग्रावा वदनीह सोमी घोषेण वक्षतु ।

दिवो अमुष्य शासतो दिवं यय दिवावसो ॥ १८०९ ॥

१७

पवस्व सोम मन्दयन्निन्द्राय मधुमत्तमः ॥ १८१० ॥

ते सुतासो विपश्चितः शुक्रा वायुमसृक्षत ॥ १८११ ॥

असृग्रं देववीतये वाजयन्तो रथा इव ॥ १८१२ ॥

१८

अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसम् ।

य ऊर्ध्वरो स्वध्वरो देवो देवाच्या कृपा ।

घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ॥ १८१३ ॥

यजिष्ठं त्वा यजमाना हुवेम ज्येष्ठमङ्गिरसां विप्र मन्मभिर्विप्रेभिः शुक्रमन्मभिः ।

परिज्मानमिव द्यां होतारं चर्षणीनां ।

शोचिष्केशं वृषणं यमिमा विशः प्रावन्तु जूतये विशः ॥ १८१४ ॥

स हि पुरू चिदोजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर्न द्रुहन्तरः ।

वीडु चिद्यस्य समृतौ श्रुवद्वनेव यत्स्थिरं ।

निष्षहमाणो यमते नायते धन्वासहा नायते ॥ १८१५ ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

भीष्म जीवनी - अनुवाद का महत्व (Importance of Translation

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें