यः कश्चिदर्थो निष्णातः स्वरुच्या तु परस्परम् । लेख्यं तु साक्षिमत्कार्यं तस्मिन्धनिकपूर्वकम् । । २.८४ । । |
समामासतदर्धाहर् नामजातिस्वगोत्रकैः । सब्रह्मचारिकात्मीय पितृनामादिचिह्नितम् । । २.८५ । । |
समाप्तेऽर्थे ऋणी नाम स्वहस्तेन निवेशयेत् । मतं मेऽमुकपुत्रस्य यदत्रोपरि लेखितम् । । २.८६ । । |
साक्षिणश्च स्वहस्तेन पितृनामकपूर्वकम् । अत्राहं अमुकः साक्षी लिखेयुरिति ते समाः । । २.८७ । । |
उभयाभ्यर्थितेनैतन्मया ह्यमुकसूनुना । लिखितं ह्यमुकेनेति लेखकोऽन्ते ततो लिखेत् । । २.८८ । । |
विनापि साक्षिभिर्लेख्यं स्वहस्तलिखितं तु यत् । तत्प्रमाणं स्मृतं लेख्यं बलोपधिकृतादृते । । २.८९ । । |
ऋणं लेख्यकृतं देयं पुरुषैस्त्रिभिरेव तु । आधिस्तु भुज्यते तावद्यावत्तन्न प्रदीयते । । २.९० । । |
देशान्तरस्थे दुर्लेख्ये नष्टोन्मृष्टे हृते तथा । भिन्ने दग्धेऽथवा छिन्ने लेख्यं अन्यत्तु कारयेत् । । २.९१ । । |
संदिग्धलेख्यशुद्धिः स्यात्स्वहस्तलिखितादिभिः । युक्तिप्राप्तिक्रियाचिह्न संबन्धागमहेतुभिः । । २.९२ । । |
लेख्यस्य पृष्ठेऽभिलिखेद्दत्त्वा दत्त्वा र्णिको धनम् । धनी वोपगतं दद्यात्स्वहस्तपरिचिह्नितम् । । २.९३ । । |
दत्त्वा र्णं पाटयेल्लेख्यं शुद्ध्यै वान्यत्तु कारयेत् । साक्षिमच्च भवेद्यद्वा तद्दातव्यं ससाक्षिकम् । । २.९४ । । |