सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.9 नवमप्रपाठकः/2.9.2 द्वितीयोऽर्द्धः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.9 नवमप्रपाठकः/2.9.2 द्वितीयोऽर्द्धः

अग्ने तव श्रवो वयो महि भ्राजन्ते अर्चयो विभावसो ।

बृहद्भानो शवसा वाजमुक्थ्य३ं दधासि दाशुषे कवे ॥ १८१६ ॥

पावकवर्चाः शुक्रवर्चा अनूनवर्चा उदियर्षि भानुना ।

पुत्रो मातरा विचरन्नुपावसि पृणक्षि रोदसी उभे ॥ १८१७ ॥

ऊर्जो नपाज्जातवेदः सुशस्तिभिर्मन्दस्व धीतिभिर्हितः ।

त्वे इषः सं दधुर्भूरिवर्पसश्चित्रोतयो वामजाताः ॥ १८१८ ॥

इरज्यन्नग्ने प्रथयस्व जन्तुभिरस्मे रायो अमर्त्य ।

स दर्शतस्य वपुषो वि राजसि पृणक्षि दर्शतं क्रतुं ॥ १८१९ ॥

इष्कर्त्तारमध्वरस्य प्रचेतसं क्षयन्तं राधसो महः ।

रातिं वामस्य सुभगां महीमिषं दधासि सानसिं रयिं ॥ १८२० ॥

ऋतावानं महिषं विश्वदर्शतमग्निं सुम्नाय दधिरे पुरो जनाः ।

श्रुत्कर्णं सप्रथस्तमं त्वा गिरा दैव्यं मानुषा युगा ॥ १८२१ ॥

प्र सो अग्ने तवोतिभिः सुविराभिस्तरति वाजकर्मभिः ।

यस्य त्वं सख्यमाविथ ॥ १८२२ ॥

तव द्रप्सो नीलवान्वाश ऋत्विय इन्धानः सिष्णवा ददे ।

त्वं महीनामुषसामसि प्रियः क्षपो वस्तुषु राजसि ॥ १८२३ ॥

तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयन्त मातरः ।

तमित्समानं वनिनश्च वीरुधोऽन्तर्वतीश्च सुवते च विश्वहा ॥ १८२४ ॥

अग्निरिन्द्राय पवते दिवि शुक्रो वि राजति ।

महिषीव वि जायते ॥ १८२५ ॥

यो जागार तमृचः कामयन्ते यो जागार तमु सामानि यन्ति ।

यो जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥ १८२६ ॥

अग्निर्जागार तमृचः कामयन्तेग्निर्जागार तमु सामानि यन्ति ।

अग्निर्जागार तमयं सोम आह तवाहमस्मि सख्ये न्योकाः ॥ १८२७ ॥

नमः सखिभ्यः पूर्वसद्भ्यो नमः साकन्निषेभ्यः ।

युञ्जे वाचं शतपदीं ॥ १८२८ ॥

युञ्जे वाचं शतपदीं गाये सहस्रवर्त्तनि ।

गायत्रं त्रैष्टुभं जगत् ॥१८२९ ॥

गायत्रं त्रैष्टुभं जगद्विश्वा रूपाणि सम्भृता ।

देवा ओकांसि चक्रिरे ॥ १८३० ॥

अग्निर्ज्योतिर्ज्योतिरग्निरिन्द्रो ज्योतिर्ज्योतिरिन्द्रः ।

सूर्यो ज्योतिर्ज्योतिः सूर्यः ॥ १८३१ ॥

पुनरूर्जा नि वर्त्तस्व पुनरग्न इषायुषा ।

पुनर्नः पाह्यंहसः ॥ १८३२ ॥

सह रय्या नि वर्तस्वाग्ने पिन्वस्व धारया ।

विश्वप्स्न्या विश्वतस्परि ॥ १८३३ ॥

यदिन्द्राहं यथा त्वमीशीय वस्व एक इत् ।

स्तोता मे गोसखा स्यात् ॥१८३४ ॥

शिक्षेयमस्मै दित्सेयं शचीपते मनीषिणे ।

यदहं गोपतिः स्यां ॥ १८३५ ॥

धेनुष्ट इन्द्र सूनृता यजमानाय सुन्वते ।

गामश्वं पिप्युषी दुहे ॥ १८३६ ॥

१०

आपो हि ष्ठा मयोभुवस्ता न ऊर्जे दधातन ।

महे रणाय चक्षसे ॥ १८३७ ॥

यो वः शिवतमो रसस्तस्य भाजयतेह नः ।

उशतीरिव मातरः ॥ १८३८ ॥

तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ ।

आपो जनयथा च नः ॥ १८३९ ॥

११

वात आ वातु भेषजं शम्भु मयोभु नो हृदे ।

प्र न आयूंषि तारिषत् ॥१८४० ॥

उत वात पितासि न उत भ्रातोत नः सखा ।

स नो जीवातवे कृधि ॥ १८४१ ॥

यददो वात ते गृहे३ऽमृतं निहितं गुहा ।

तस्य नो धेहि जीवसे ॥ १८४२ ॥

१२

अभि वाजी विश्वरूपो जनित्रं हिरण्ययं बिभ्रदत्कं सुपर्णः ।

सूर्यस्य भानुमृतुथा वसानः परि स्वयं मेधमृज्रो जजान ॥ १८४३ ॥

अप्सु रेतः शिश्रिये विश्वरूपं तेजः पृथिव्यामधि यत्सम्बभूव ।

अन्तरिक्षे स्वं महिमानं मिमानः कनिक्रन्ति वृष्णो अश्वस्य रेतः ॥ १८४४ ॥

अयं सहस्रा परि युक्ता वसानः सूर्यस्य भानुं यज्ञो दाधार ।

सहस्रदाः शतदा भूरिदावा धर्त्ता दिवो भुवनस्य विश्पतिः ॥ १८४५ ॥

१३

नाके सुपर्णमुप यत्पतन्तं हृदा वेनन्तो अभ्यचक्षत त्वा ।

हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युं ॥ १८४६ ॥

ऊर्ध्वो गन्धर्वो अधि नाके अस्थात्प्रत्यञ्चित्रा बिभ्रदस्यायुधानि ।

वसानो अत्कं सुरभिं दृशे कं स्व३र्ण नाम जनत प्रियाणि ॥ १८४७ ॥

द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् ।

भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥ १८४८ ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

भीष्म जीवनी - अनुवाद का महत्व (Importance of Translation

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें