सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.4 चतुर्थप्रपाठकः/2.4.2 द्वितीयोऽर्द्धः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.4 चतुर्थप्रपाठकः/2.4.2 द्वितीयोऽर्द्धः

(१)

प्र काव्यमुशनेव ब्रुवाणो देवो देवानां जनिमा विवक्ति ।

महिव्रतः शुचिबन्धुः पावकः पदा वराहो अभ्येति रेभन् ॥१११६ ॥ ऋ. ९.९७.७

प्र हंसासस्तृपला वग्नुमच्छामादस्तं वृषगणा अयासुः ।

आङ्गोषिणं पवमानं सखायो दुर्मर्षं वाणं प्र वदन्ति साकं ॥ १११७ ॥

स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः ।

परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥ १११८ ॥

प्र स्वानासो रथा इवार्वन्तो न अवस्यवः ।

सोमासो राये अक्रमुः ॥ १११९ ॥ ऋ. ९.१०.१

हिन्वानासो रथा इव दधन्विरे गभस्त्योः ।

भरासः कारिणामिव ॥ ११२० ॥

राजानो न प्रशस्तिभिः सोमासो गोभिरञ्जते ।

यज्ञो न सप्त धातृभिः ॥ ११२१ ॥

परि स्वानास इन्दवो मदाय बर्हणा गिरा ।

मधो अर्षन्ति धारया ॥ ११२२ ॥ ऋ. ९.१०.४

आपानासो विवस्वतो जिन्वन्त उषसो भगं ।

सूरा अण्वं वि तन्वते ॥ ११२३ ॥

अप द्वारा मतीनां प्रत्ना ऋण्वन्ति कारवः ।

वृष्णो हरस आयवः ॥ ११२४ ॥

समीचीनास आशत होतारः सप्तजानयः ।

पदमेकस्य पिप्रतः ॥ ११२५ ॥ ऋ. ९.१०.७

नाभा नाभिं न आ ददे चक्षुषा सूर्य दृशे ।

कवेरपत्यमा दुहे ॥ ११२६ ॥

अभि प्रियं दिवस्पदमध्वर्युभिर्गुहा हितं ।

सूरः पस्यति चक्षसा ॥ ११२७ ॥

(२)

असृग्रमिन्दवः पथा धर्मन्नृतस्य सुश्रियः ।

विदाना अस्य योजना ॥ ११२८ ॥ ऋ. ९.७.१

प्र धारा मधो अग्रियो महीरपो वि गाहते ।

हविर्हविःषु वन्द्यः ॥ ११२९ ॥

प्र युजा वाचो अग्रियो वृषो अचिक्रदद्वने ।

सद्माभि सत्यो अध्वरः ॥ ११३० ॥

परि यत्काव्या कविर्नृम्णा पुनानो अर्षति ।

स्वर्वाजी सिषासति ॥ ११३१ ॥

पवमानो अभि स्पृधो विशो राजेव सीदति ।

यदीमृण्वन्ति वेधसः ॥ ११३२ ॥

अव्या वारे परि प्रियो हरिर्वनेषु सीदति ।

रेभो वनुष्यते मति । ११३३ ॥

स वायुमिन्द्रमश्विना साकं मदेन गच्छति ।

रणा यो अस्य धर्मणा ॥ ११३४ ॥

आ मित्रे वरुणे भगे मधोः पवन्त ऊर्मयः ।

विदाना अस्य शक्मभिः ॥ ११३५ ॥

अस्मभ्यं रोदसी रयिं मध्वो वाजस्य सातये ।

श्रवो वसूनि सञ्जितं ॥ ११३६ ॥

आ ते दक्षं मयोभुवं वह्निमद्या वृणीमहे ।

पान्तमा पुरुस्पृहं ॥ ११३७ ॥ ऋ. ९.६५.२८

आ मन्द्रमा वरेण्यमा विप्रमा मनीषिणं ।

पान्तमा पुरुस्पृहं ॥ ११३८ ॥

आ रयिमा सुचेतुनमा सुक्रतो तनूष्वा ।

पान्तमा पुरुस्पृहं ॥ ११३९ ॥

(३)

मूर्धानं दिवो अरतिं पृथिव्या वैश्वानरमृत आ जातमग्निं ।

कविं सम्राजमतिथिं जनानामासन्नः पात्रं जनयन्त देवाः ॥ ११४० ॥ ऋ. ६.७.१

त्वां विश्वे अमृत जायमानं शिशुं न देवा अभि सं नवन्ते ।

तव क्रतुभिरमृतत्वमायन्वैश्वानर यत्पित्रोरदीदेः ॥ ११४१ ॥

नाभिं यज्ञानां सदनं रयीणां महामाहावमभि सं नवन्त ।

वैश्वानरं रथ्यमध्वराणां यज्ञस्य केतुं जनयन्त देवाः ॥ ११४२ ॥

(४)

प्र वो मित्राय गायत वरुणाय विपा गिरा ।

महिक्षत्रावृतं बृहत् ॥११४३ ॥ ऋ. ५.६८.१

सम्राजा या घृतयोनी मित्रश्चोभा वरुणश्च ।

देवा देवेषु प्रशस्ता ॥ ११४४ ॥

ता नः शक्तं पर्थिवस्य महो रायो दिव्यस्य ।

महि वां क्षत्रं देवेषु ॥ ११४५ ॥

(५)

इन्द्रा याहि चित्रभानो सुता इमे त्वायवः ।

अण्वीभिस्तना पूतासः ॥ ११४६ ॥ ऋ. १.३.४

इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।

उप ब्रह्माणि वाघतः ॥ ११४७ ॥

इन्द्रा याहि तूतुजान उप ब्रह्माणि हरिवः ।

सुते दधिष्व नश्चनः ॥ ११४८ ॥

(६)

तमीडिष्व यो अर्चिषा वना विश्वा परिष्वजत् ।

कृष्णा कृणोति जिह्वया ॥ ११४९ ॥ ऋ. ६.६०.१०

य इद्ध आविवासति सुम्नमिन्द्रस्य मर्त्यः ।

द्युम्नाय सुतरा अपः ॥ ११५० ॥

ता नो वाजवतीरिष आशून्पिपृतमर्वतः ।

एन्द्रमग्निं च वोढवे ॥ ११५१ ॥

(७)

प्रो अयासीदिन्दुरिन्द्रस्य निष्कृतं सखा सख्युर्न प्र मिनाति सङ्गिरं ।

मर्य इव युवतिभिः समर्षति सोमः कलशे शतयाम्ना पथा ॥ ११५२ ॥ ऋ. ९.८६.१६

प्र वो धियो मन्द्रयुवो विपन्युवः पनस्युवः संवरणेष्वक्रमुः ।

हरिं क्रीडन्तमभ्यनूषत स्तुभोऽभि धेनवः पयसेदशिश्रयुः ॥ ११५३ ॥

आ नः सोम संयतं पिप्युषीमिषमिन्दो पवस्व पवमान ऊर्मिणा ।

या नो दोहते त्रिरहन्नसश्चुषी क्षुमद्वाजवन्मधुमत्सुवीर्यं ॥ ११५४ ॥

(८)

न किष्टं कर्मणा नशद्यश्चकार सदावृधं ।

इन्द्रं न यज्ञैर्विश्वगूर्त्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥ ११५५ ॥

अषाढमुग्रं पृतनासु सासहिं यस्मिन्महीरुरुज्रयः ।

सं धेनवो जायमाने अनोनवुर्द्यावः क्षामीरनोनवुः ॥ ११५६ ॥

(९)

सखाय आ नि षीदत पुनानाय प्र गायत ।

शिशुं न यज्ञैः परि भूषत श्रिये ॥ ११५७ ॥

समी वत्सं न मातृभिः सृजता गयसाधनं ।

देवाव्या३ं मदमभि द्विशवसं ॥ ११५८ ॥

पुनाता दक्षसाधनं यथा शर्धाय वीतये ।

यथा मित्राय वरुणाय शन्तमं ॥ ११५९ ॥

(१०)

प्र वाज्यक्षाः सहस्रधारस्तिरः पवित्रं वि वारमव्यं ॥ ११६० ॥

स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥ ११६१ ॥

प्र सोम याहीन्द्रस्य कुक्षा नृभिर्येमानो अद्रिभिः सुतः ॥ ११६२ ॥

(११)

ये सोमासः परावति ये अर्वावति सुन्विरे ।

ये वादः शर्यणावति ॥ ११६३ ॥

य आर्जीकेषु कृत्वसु ये मध्ये पस्त्यानां ।

ये वा जनेषु पञ्चसु ॥ ११६४ ॥

ते नो वृष्टिं दिवस्परि पवन्तामा सुवीर्यं ।

स्वाना देवास इन्दवः ॥ ११६५ ॥

(१२)

आ ते वत्सो मनो यमत्परमाच्चित्सधस्थात् ।

अग्ने त्वां कामये गिरा ॥ ११६६ ॥

पुरुत्रा हि सदृङ्ङसि दिशो विश्वा अनु प्रभुः ।

समत्सु त्वा हवामहे ॥ ११६७ ॥

समत्स्वग्निमवसे वाजयन्तो हवामहे ।

वाजेषु चित्रराधसं ॥ ११६८ ॥

(१३)

त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे ।

आ वीरं पृतनासहं ॥ ११६९ ॥

त्वं हि नः पिता वसो त्वं माता शतक्रतो बभूविथ ।

अथा ते सुम्नमीमहे ॥ ११७० ॥

त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे सहस्कृत ।

स नो रास्व सुवीर्यं ॥ ११७१ ॥

(१४)

यदिन्द्र चित्र म इह नास्ति त्वादातमद्रिवः ।

राधस्तन्नो विदद्वस उभयाहस्त्या भर ॥ ११७२ ॥

यन्मन्यसे वरेण्यमिन्द्र द्युक्षं तदा भर ।

विद्याम तस्य ते वयमकूपारस्य दावनः ॥ ११७३ ॥

यत्ते दिक्षु प्रराध्यं मनो अस्ति श्रुतं बृहत् ।

तेन दृढा चिदद्रिव आ वाजं दर्षि सातये ॥ ११७४ ॥



एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

डिजिटल दीमक और बिखरता समाज (The Modern Crisis)

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें