सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.2 द्वितीयप्रपाठकः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः/2.2 द्वितीयप्रपाठकः

पवस्व वाचो अग्रियः सोम चित्राभिरूतिभिः ।

अभि विश्वानि काव्या ।। ७७५[१] ।।

त्वं समुद्रिया अपोऽग्रियो वाच ईरयन् ।

पवस्व विश्वचर्षणे ।। ७७६ ।।

तुभ्येमा भुवना कवे महिम्ने सोम तस्थिरे ।

तुभ्यं धावन्ति धेनवः ।। ७७७ ।।

पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने ।

विश्वा अप द्विषो जहि ।। ७७८[२] ।।

यस्य ते सख्ये वयं सासह्याम पृतन्यतः ।

तवेन्दो द्युम्न उत्तमे ।। ७७९ ।।

या ते भीमान्यायुधा तिग्मानि सन्ति धूर्वणे ।

रक्षा समस्य नो निदः ।। ७८० ।।

वृषा सोम द्युमां असि वृषा देव वृषव्रतः ।

वृषा धर्माणि दध्रिषे ।। ७८१ ।।

वृष्णस्ते वृष्ण्यं शवो वृषा वनं वृषा सुतः ।

स त्वं वृषन्वृषेदसि ।। ७८२ ।।

अश्वो न चक्रदो वृषा सं गा इन्दो समर्वतः ।

वि नो राये दुरो वृधि ।। ७८३ ।।

वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे ।

पवमान स्वर्दृशं ।। ७८४ ।।

यदद्भिः परिशिच्यसे मर्मृज्यमान आयुभिः ।

द्रोणे सधस्थमश्नुषे ।। ७८५ ।।

आ पवस्व सुवीर्यं मन्दमानः स्वायुध ।

इहो ष्विन्दवा गहि ।। ७८६ ।।

पवमानस्य ते वयं पवित्रमभ्युन्दतः ।

सखित्वमा वृणीमहे ।। ७८७ ।।

ये ते पवित्रमूर्मयोऽभिक्षरन्ति धारया ।

तेभिर्नः सोम मृडय ।। ७८८ ।।

स नः पुनान आ भर रयिं वीरवतीमिषम्

ईशानः सोम विश्वतः ।। ७८९ ।।

अग्निं दूतं वृणीमहे होतारं विश्ववेदसं ।

अस्य यज्ञस्य सुक्रतुं ।। ७९० [३]।।

अग्निमग्निं हवीमभिः सदा हवन्त विश्पतिं ।

हव्यवाहं पुरुप्रियं ।। ७९१ ।।

अग्ने देवां इहा वह जज्ञानो वृक्तबर्हिषे ।

असि होता न ईड्यः ।। ७९२ ।।

मित्रं वयं हवामहे वरुणं सोमपीतये ।

य जाता पूतदक्षसा ।। ७९३ ।।

ऋतेन यावृतावृधावृतस्य ज्योतिषस्पती ।

ता मित्रावरुणा हुवे ।। ७९४ ।।

वरुणः प्राविता भुवन्मित्रो विश्वाभिरूतिभिः ।

करतां नः सुराधसः ।। ७९५ ।।

इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।

इन्द्रं वाणीरनूषत ।। ७९६ ।।

इन्द्र इद्धर्योः सचा सम्मिश्ल आ वचोयुजा ।

इन्द्रो वज्री हिरण्ययः ।। ७९७ ।।

इन्द्र वाजेषु नोऽव सहस्रप्रधनेषु च ।

उग्र उग्राभिरूतिभिः ।। ७९८ ।।

इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद्दिवि ।

वि गोभिरद्रिमैरयत्।।७९९।।

इन्द्रे अग्ना नमो बृहत्सुवृक्तिमेरयामहे ।

धिया धेना अवस्यवः ।। ८०० ।।

ता हि शश्वन्त ईडत इत्था विप्रास ऊतये ।

सबाधो वाजसातये ।। ८०१ ।।

ता वां गीर्भिर्विपन्युवः प्रयस्वन्तो हवामहे ।

मेधसाता सनिष्यवः ।। ८०२ ।।

१०

वृषा पवस्व धारया मरुत्वते च मत्सरः ।

विश्वा दधान ओजसा ।। ८०३[४] ।।

तं त्वा धर्त्तारमोण्यो३ः पवमान स्वर्दृशम् ।

हिन्वे वाजेषु वाजिनं ।। ८०४ ।।

अया चित्तो विपानया हरिः पवस्व धारया ।

युजं वाजेषु चोदय ।। ८०५ ।।

११

वृषा शोणो अभिकनिक्रदद्गा नदयन्नेषि पृथिवीमुत द्यां ।

इन्द्रस्येव वग्नुरा शृण्व आजौ प्रचोदयन्नर्षसि वाचमेमां ।। ८०६ ।।

रसाय्यः पयसा पिन्वमान ईरयन्नेषि मधुमन्तमंशुं ।

पवमान सन्तनिमेषि कृण्वन्निन्द्राय सोम परिषिच्यमानः ।। ८०७ ।।

एवा पवस्व मदिरो मदायोदग्राभस्य नमयन्वधस्नुं ।

परि वर्णं भरमाणो रुशन्तं गव्युर्नो अर्ष परि सोम सिक्तः ।। ८०८ ।।

१२

त्वामिद्धि हवामहे सातौ वाजस्य कारवः ।

त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ।। ८०९ ।।

स त्वं नश्चित्र वज्रहस्त धृष्णुया मह स्तवानो अद्रिवः ।

गामश्वं रथ्यमिन्द्र सं किर सत्रा वाजं न जिग्युषे ।। ८१० ।।

१३

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।

यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ।। ८११ ।।

शतानीकेव प्र जिगाति धृष्णुया हन्ति वृत्राणि दाशुषे ।

गिरेरिव प्र रसा अस्य पिन्विरे दत्राणि पुरुभोजसः ।। ८१२ ।।

१४

त्वामिदा ह्यो नरोऽपीप्यन्वज्रिन्भूर्णयः ।

स इन्द्र स्तोमवाहस इह श्रुध्युप स्वसरमा गहि ।। ८१३ ।।

मत्स्वा सुशिप्रिन्हरिवस्तमीमहे त्वया भूषन्ति वेधसः ।

तव श्रवांस्युपमान्युक्थ्य सुतेष्विन्द्र गिर्वणः ।। ८१४ ।।

१५

यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।

देवावीरघशंसहा ।। ८१५ ।।

जघ्निर्वृत्रममित्रियं सस्निर्वाजं दिवेदिवे ।

गोषातिरश्वसा असि ।। ८१६ ।।

सम्मिश्लो अरुषो भुवः सूपस्थाभिर्न धेनुभि ।

सीदं च्छ्येनो न योनिमा ।। ८१७ ।।

१६

अयं पूषा रयिर्भगः सोमः पुनानो अर्षति ।

पतिर्विश्वस्य भूमनो व्यख्यद्रोदसी उभे ।। ८१८ ।।

समु प्रिया अनूषत गावो मदाय घृष्वयः ।

सोमासः कृण्वते पथः पवमानास इन्दवः ।। ८१९ ।।

य ओजिष्ठस्तमा भर पवमान श्रवाय्यं ।

यः पञ्च चर्षणीरभि रयिं येन वनामहे ।। ८२० ।।

१७

वृषा मतीनां पवते विचक्षणः सोमो अह्नां प्रतरीतोषसां दिवः ।

प्राणा सिन्धूनां कलशां अचिक्रददिन्द्रस्य हार्द्याविशन्मनीषिभिः ।। ८२१ ।।

मनीषिभिः पवते पूर्व्यः कविर्नृभिर्यतः परि कोशां असिष्यदत् ।

त्रितस्य नाम जनयन्मधु क्षरन्निन्द्रस्य वायूं सख्याय वर्धयन् ।।८२२ ।।

अयं पुनान उषसो अरोचयदयं सिन्धुभ्यो अभवदु लोककृत् ।

अयं त्रिः सप्त दुदुहान आशिरं सोमो हृदे पवते चारु मत्सरः ।। ८२३ ।।

१८

एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।

एवा ते राध्यं मनः ।। ८२४ ।।

एवा रातिस्तुवीमघ विश्वेभिर्धायि धातृभिः ।

अधा चिदिन्द्र नः सचा ।। ८२५ ।।

मो षु ब्रह्मेव तदिन्द्रयुर्भुवो वाजानां पते ।

मत्स्वा सुतस्य गोमतः ।। ८२६ ।।

१९

इन्द्रं विश्वा अवीवृधन्त्समुद्रव्यचसं गिरः ।

रथीतमं रथीनां वाजानां सत्पतिं पतिं ।। ८२७ ।।

सख्ये त इन्द्र वाजिनो मा भेम शवसस्पते ।

त्वामभि प्र नोनुमो जेतारमपराजितं ।। ८२८ ।।

पूर्वीरिन्द्रस्य रातयो न वि दस्यन्त्यूतयः ।

यदा वाजस्य गोमत स्तोतृभ्यो मंहते मघं ।। ८२९ ।।


एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

डिजिटल दीमक और बिखरता समाज (The Modern Crisis)

संपर्क फ़ॉर्म

नाम

ईमेल *

संदेश *

View of the Site

यह ब्लॉग खोजें