सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.3 तृतीयप्रपाठकः

सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.3 तृतीयप्रपाठकः



उत्त्वा मन्दन्तु सोमाः कृणुष्व राधो अद्रिवः ।
अव ब्रह्मद्विषो जहि ।। १९४ ।।

गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे ।
इन्द्र त्वादातमिद्यशः ।। १९५ ।।

सदा व इन्द्रश्चर्कृषदा उपो नु स सपर्यन् ।
न देवो वृतः शूर इन्द्रः ।। १९६ ।।

आ त्वा विशन्त्विन्दवः समुद्रमिव सिन्धवः ।
न त्वामिन्द्राति रिच्यते ।। १९७ ।।

इन्द्रमिद्गाथिनो बृहदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ।। १९८ ।।

इन्द्र इषे ददातु न ऋभुक्षणमृभुं रयिं ।
वाजी ददातु वाजिनं ।। १९९ ।।

इन्द्रो अङ्ग महद्भयमभी षदप चुच्यवत् ।
स हि स्थिरो विचर्षणिः ।। २०० ।।

इमा उ त्वा सुतेसुते नक्षन्ते गिर्वणो गिरः ।
गावो वत्सं न धेनवः ।। २०१ ।।

इन्द्रा नु पूषणा वयं सख्याय स्वस्तये ।
हुवेम वाजसातये ।। २०२ ।।

न कि इन्द्र त्वदुत्तरं न ज्यायो अस्ति वृत्रहन् ।
न क्येवं यथा त्वं ।। २०३ ।।

तरणिं वो जनानां त्रदं वाजस्य गोमतः ।

समानमु प्र शंसिषं ।। २०४ ।।

असृग्रमिन्द्र ते गिरः प्रति त्वामुदहासत ।

सजोषा वृषभं पतिं ।। २०५ ।।

सुनीथो घा स मर्त्यो यं मरुतो यमर्यमा ।

मित्रास्पान्त्यद्रुहः ।। २०६ ।।

यद्वीडाविन्द्र यत्स्थिरे यत्पर्शाने पराभृतं ।

वसु स्पार्हं तदा भर ।। २०७ ।।

श्रुतं वो वृत्रहन्तमं प्र शर्धं चर्षणीनां ।

आशिषे राधसे महे ।। २०८ ।।

अरं त इन्द्र श्रवसे गमेम शूर त्वावतः ।

अरं शक्र परेमणि ।। २०९ ।।

धानावन्तं करम्भिणमपूपवन्तमुक्थिनं ।

इन्द्र प्रातर्जुषस्व नः ।। २१० ।।

अपां फेनेन नमुचेः शिर इन्द्रोदवर्तयः ।

विश्वा यदजय स्पृधः ।। २११ ।।

इमे त इन्द्र सोमाः सुतासो ये च सोत्वाः ।

तेषां मत्स्व प्रभूवसो ।। २१२ ।।

तुभ्यं सुतासः सोमाः स्तीर्णं बर्हिर्विभावसो ।

स्तोतृभ्य इन्द्र मृडय ।। २१३ ।।

आ व इन्द्रं कृविं यथा वाजयन्तः शतक्रतुं ।
मंहिष्ठं सिञ्च इन्दुभिः ॥ २१४ ॥

अतश्चिदिन्द्र न उपा याहि शतवाजया ।
इषा सहस्रवाजया ॥ २१५ ॥

आ बुन्दं वृत्रहा ददे जातः पृच्छद्वि मातरं ।
क उग्राः के ह शृण्विरे ॥ २१६ ॥

बृबदुक्थं हवामहे सृप्रकरस्नमूतये ।
साधः कृण्वन्तमवसे ॥ २१७ ॥

ऋजुनीती नो वरुणो मित्रो नयति विद्वान् ।
अर्यमा देवैः सजोषाः ॥ २१८ ॥

दूरादिहेव यत्सतोऽरुणप्सुरशिश्वितत् ।
वि भानुं विश्वथातनत् ॥२१९ ॥

आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतं ।
मध्वा रजांसि सुक्रतू ॥ २२० ॥

उदु त्ये सूनवो गिरः काष्ठा यज्ञेष्वत्नत ।
वाश्रा अभिज्ञु यातवे ॥ २२१ ॥

इदं विष्णुर्वि चक्रमे त्रेधा नि दधे पदं ।
समूढमस्य पांसुले ॥ २२२ ॥

अतीहि मन्युषाविणं सुषुवांसमुपेरय ।
अस्य रातौ सुतं पिब ॥ २२३ ॥

कदु प्रचेतसे महे वचो देवाय शस्यते ।
तदिध्यस्य वर्धनं ॥ २२४ ॥

उक्थं च न शस्यमानं नागो रयिरा चिकेत ।
न गायत्रं गीयमानं ॥ २२५ ॥

इन्द्र उक्थेभिर्मन्दिष्ठो वाजानां च वाजपतिः ।
हरिवान्त्सुतानां सखा ॥ २२६ ॥

आ याह्युप नः सुतं वाजेभिर्मा हृणीयथाः ।
महां इव युवजानिः ॥ २२७ ॥

कदा वसो स्तोत्रं हर्यत आ अव श्मशा रुधद्वाः ।
दीर्घं सुतं वाताप्याय ॥ २२८ ॥

ब्राह्मणादिन्द्र राधसः पिबा सोममृतूँरनु ।
तवेदं सख्यमस्तृतं ॥ २२९ ॥

वयं घा ते अपि स्मसि स्तोतार इन्द्र गिर्वणः ।
त्वं नो जिन्व सोमपाः ॥ २३० ॥

एन्द्र पृक्षु कासु चिन्नृम्णं तनूषु धेहि नः ।
सत्राजिदुग्र पौंस्यम्॥ २३१ ॥

एवा ह्यसि वीरयुरेवा शूर उत स्थिरः ।
एवा ते राध्यं मनः ॥ २३२ ॥

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।
ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥ २३३ ॥

त्वामिद्धि हवामहे सातौ वाजस्य कारवः।
त्वां वृत्रेष्विन्द्र सत्पतिं नरस्त्वां काष्ठास्वर्वतः ॥ २३४ ॥

अभि प्र वः सुराधसमिन्द्रमर्च यथा विदे ।
यो जरितृभ्यो मघवा पुरूवसुः सहस्रेणेव शिक्षति ॥ २३५ ॥

तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।
अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥ २३६ ॥

तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।
बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणं ॥ २३७ ॥

तरणिरित्सिषासति वाजं पुरन्ध्या युजा ।
आ व इन्द्रं पुरुहूतं नमे गिरा नेमिं तष्टेव सुद्रुवं ॥ २३८ ॥

पिबा सुतस्य रसिनो मत्स्वा न इन्द्र गोमतः ।
आपिर्नो बोधि सधमाद्ये वृधे३ऽस्मां अवन्तु ते धियः ॥ २३९ ॥

त्वं ह्येहि चेरवे विदा भगं वसुत्तये ।
उद्वावृषस्व मघवन्गविष्टय उदिन्द्राश्वमिष्टये ॥ २४० ॥

न हि वश्चरमं च न वसिष्ठः परिमंस्ते ।
अस्माकमद्य मरुतः सुते सचा विश्वे पिबन्तु कामिनः ॥ २४१ ॥

मा चिदन्यद्वि शंसत सखायो मा रिषण्यत ।
इन्द्रमित्स्तोता वृषणं सचा सुते मुहुरुक्था च शंसत ॥ २४२ ॥

न किष्टं कर्मणा नशद्यश्चकार सदावृधं ।
इन्द्रं न यज्ञैर्विश्वगूर्तमृभ्वसमधृष्टं धृष्णुमोजसा ॥ २४३ ॥

य ऋते चिदभिश्रिषः पुरा जत्रुभ्य आतृदः ।
सन्धाता सन्धिं मघवा पुरूवसुर्निष्कर्ता विह्रुतं पुनः ॥ २४४ ॥

आ त्वा सहस्रमा शतं युक्ता रथे हिरण्यये ।
ब्रह्मयुजो हरय इन्द्र केशिनो वहन्तु सोमपीतये ॥ २४५ ॥

आ मन्द्रैरिन्द्र हरिभिर्याहि मयूररोमभिः ।
मा त्वा के चिन्नि येमुरिन्न पाशिनोऽति धन्वेव तां इहि ॥ २४६ ॥

त्वमङ्ग प्र शंसिषो देवः शविष्ठ मर्त्यं ।
न त्वदन्यो मघवन्नस्ति मर्डितेन्द्र ब्रवीमि ते वचः ॥ २४७ ॥

त्वमिन्द्र यशा अस्यृजीषी शवसस्पतिः ।
त्वं वृत्राणि हंस्यप्रतीन्येक इत्पुर्वनुत्तश्चर्षणीधृतिः ॥ २४८ ॥

इन्द्रमिद्देवतातय इन्द्रं प्रयत्यध्वरे ।
इन्द्रं समीके वनिनो हवामह इन्द्रं धनस्य सातये ॥ २४९ ॥

इमा उ त्वा पुरूवसो गिरो वर्धन्तु या मम ।
पावकवर्णाः शुचयो विपश्चितोऽभि स्तोमैरनूषत ॥ २५० ॥

उदु त्ये मधुमत्तमा गिर स्तोमास ईरते ।
सत्राजितो धनसा अक्षितोतयो वाजयन्तो रथा इव ॥ २५१ ॥

यथा गौरो अपा कृतं तृष्यन्नेत्यवेरिणं ।
आपित्वे नः प्रपित्वे तूयमा गहि कण्वेषु सु सचा पिब ॥ २५२ ॥

शग्ध्यू३षु शचीपत इन्द्र विश्वाभिरूतिभिः ।
भगं न हि त्वा यशसं वसुविदमनु शूर चरामसि ।। २५३ ।।

या इन्द्र भुज आभरः स्वर्वां असुरेभ्यः ।
स्तोतारमिन्मघवन्नस्य वर्धय ये च त्वे वृक्तबर्हिषः ।। २५४ ।।

प्र मित्राय प्रार्यम्णे सचथ्यमृतावसो ।
वरूथ्ये३ वरुणे छन्द्यं वचः स्तोत्रं राजसु गायत ।। २५५ ।।

अभि त्वा पूर्वपीतय इन्द्र स्तोमेभिरायवः ।
समीचीनास ऋभवः समस्वरन्रुद्रा गृणन्त पूर्व्यं ।। २५६ ।।

प्र व इन्द्राय बृहते मरुतो ब्रह्मार्चत ।
वृत्रं हनति वृत्रहा शतक्रतुर्वज्रेण शतपर्वणा ।। २५७ ।।

बृहदिन्द्राय गायत मरुतो वृत्रहन्तमं ।
येन ज्योतिरजनयन्नृतावृधो देवं देवाय जागृवि ।। २५८ ।।

इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा ।
शिक्षा णो अस्मिन्पुरुहूत यामनि जीवा ज्योतिरशीमहि ।। २५९ ।।

मा न इन्द्र परा वृणग्भवा नः सधमाद्ये ।
त्वं न ऊती त्वमिन्न आप्यं मा न इन्द्र परा वृणक् ।।२६० ।।

वयं घ त्वा सुतावन्त आपो न वृक्तबर्हिषः ।
पवित्रस्य प्रस्रवणेषु वृत्रहन्परि स्तोतार आसते ।। २६१ ।।

यदिन्द्र नाहुषीष्वा ओजो नृम्णं च कृष्टिषु ।
यद्वा पञ्च क्षितीनां द्युम्नमा भर सत्रा विश्वानि प्ॐस्या ।। २६२ ।।

सत्यमित्था वृषेदसि वृषजूतिर्नोऽविता ।
वृषा ह्युग्र शृण्विषे परावति वृषो अर्वावति श्रुतः ॥ २६३ ॥

यच्छक्रासि परावति यदर्वावति वृत्रहन् ।
अतस्त्वा गीर्भिर्द्युगदिन्द्र केशिभिः सुतावां आ विवासति ॥ २६४ ॥

अभि वो वीरमन्धसो मदेषु गाय गिरा महा विचेतसं ।
इन्द्रं नाम श्रुत्यं शाकिनं वचो यथा ॥ २६५ ॥

इन्द्र त्रिधातु शरणं त्रिवरूथं स्वस्तये ।
छर्दिर्यच्छ मघवद्भ्यश्च मह्यं च यावया दिद्युमेभ्यः ॥ २६६ ॥

श्रायन्त इव सूर्यं विश्वेदिन्द्रस्य भक्षत ।
वसूनि जातो जनिमान्योजसा प्रति भागं न दीधिमः ॥ २६७ ॥

न सीमदेव आप तदिषं दीर्घायो मर्त्यः ।
एतग्वा चिद्या एतशो युयोजत इन्द्रो हरी युयोजते ॥ २६८ ॥

आ नो विश्वासु हव्यमिन्द्रं समत्सु भूषत ।
उप ब्रह्माणि सवनानि वृत्रहन्परमज्या ऋचीषम ॥ २६९ ॥

तवेदिन्द्रावमं वसु त्वं पुष्यसि मध्यमं ।
सत्रा विश्वस्य परमस्य राजसि न किष्ट्वा गोषु वृण्वते ॥ २७० ॥

क्वेयथ क्वेदसि पुरुत्रा चिद्धि ते मनः ।
अलर्षि युध्म खजकृत्पुरन्दर प्र गायत्रा अगासिषुः ॥ २७१ ॥

वयमेनमिदा ह्योपीपेमेह वज्रिणं ।
तस्मा उ अद्य सवने सुतं भरा नूनं भूषत श्रुते ॥ २७२ ॥

यो राजा चर्षणीनां याता रथेभिरध्रिगुः ।
विश्वासां तरुता पृतनानां ज्येष्ठं यो वृत्रहा गृणे ।। २७३ ।।

यत इन्द्र भयामहे ततो नो अभयं कृधि ।
मघवञ्छग्धि तव तन्न ऊतये वि द्विषो वि मृधो जहि ।। २७४ ।।

वास्तोष्पते ध्रुवा स्थूणां सत्रं सोम्यानां ।
द्रप्सः पुरां भेत्ता शश्वतीनामिन्द्रो मुनीनां सखा ।। २७५ ।।

बण्महां असि सूर्य बडादित्य महां असि ।
महस्ते सतो महिमा पनिष्टम मह्ना देव महां असि ।। २७६ ।।

अश्वी रथी सुरूप इद्गोमां यदिन्द्र ते सखा ।
श्वात्रभाजा वयसा सचते सदा चन्द्रैर्याति सभामुप ।। २७७ ।।

यद्द्याव इन्द्र ते शतं शतं भूमीरुत स्युः ।
न त्वा वज्रिन्त्सहस्रं सूर्या अनु न जातमष्ट रोदसी ।। २७८ ।।

यदिन्द्र प्रागपागुदग्न्यग्वा हूयसे नृभिः ।
सिमा पुरू नृषूतो अस्यानवेऽसि प्रशर्ध तुर्वशे ।। २७९ ।।

कस्तमिन्द्र त्वा वसवा मर्त्यो दधर्षति ।
श्रद्धा हि ते मघवन्पार्ये दिवि वाजी वाजं सिषासति ।। २८० ।।

इन्द्राग्नी अपादियं पूर्वागात्पद्वतीभ्यः ।
हित्वा शिरो जिह्वया रारपच्चरत्त्रिंशत्पदा न्यक्रमीत् ।।२८१ ।।

इन्द्र नेदीय एदिहि मितमेधाभिरूतिभिः ।
आ शं तम शं तमाभिरभिष्टिभिरा स्वापे स्वापिभिः ।। २८२ ।।

इत ऊती वो अजरं प्रहेतारमप्रहितं ।
आशुं जेतारं हेतारं रथीतममतूर्तं तुग्रियावृधं ॥ २८३ ॥

मो षु त्वा वाघतश्च नारे अस्मन्नि रीरमन् ।
आरात्ताद्वा सधमादं न आ गहीह वा सन्नुप श्रुधि ॥ २८४ ॥

सुनोत सोमपाव्ने सोममिन्द्राय वज्रिणे ।
पचता पक्तीरवसे कृणुध्वमित्पृणन्नित्पृणते मयः ॥ २८५ ॥

यः सत्राहा विचर्षणिरिन्द्रं तं हूमहे वयं ।
सहस्रमन्यो तुविनृम्ण सत्पते भवा समत्सु नो वृधे ॥ २८६ ॥

शचीभिर्नः शचीवसू दिवानक्तं दिशस्यतं ।
मा वां रातिरुप दसत्कदा च नास्मद्रातिः कदा च न ॥ २८७ ॥

यदा कदा च मीढुषे स्तोता जरेत मर्त्यः ।
आदिद्वन्देत वरुणं विपा गिरा धर्त्तारं विव्रतानां ॥ २८८ ॥

पाहि गा अन्धसो मद इन्द्राय मेध्यातिथे ।
यः सम्मिश्लो हर्योर्यो हिरण्यय इन्द्रो वज्री हिरण्ययः ॥ २८९ ॥

उभयं शृणवच्च न इन्द्रो अर्वागिदं वचः ।
सत्राच्या मघवान्त्सोमपीतये धिया शविष्ठ आ गमत् ॥२९० ॥

महे च न त्वाद्रिवः परा शुल्काय दीयसे ।
न सहस्राय नायुताये वज्रिवो न शताय शतामघ ॥ २९१ ॥

वस्यां इन्द्रासि मे पितुरुत भ्रातुरभुञ्जतः ।
माता च मे छदयथः समा वसो वसुत्वनाय राधसे ॥ २९२ ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

आधुनिक कोशिकीय जीव विज्ञान (Cell Biology), शरीर विज्ञान (Anatomy) और क्वांटम चेतना

View of the Site

यह ब्लॉग खोजें