सुन्दरकाण्डरामायणनिर्णयः
श्रीमदानन्दतीर्थीयमहाभारततात्पर्यनिर्णयान्तर्गतः
नत्वा लिलङ्घयिषुरर्णवमुत्पपात निष्पीड्य तं गिरिवरं पवनस्य सूनुः ॥ १॥
वृक्षाश्च पर्वतगताः पवनेन पूर्वं क्षिप्तोऽर्णवे गिरिरुदागमदस्य हेतोः ॥ २॥
हैमो गिरिः पवनजस्य तु विक्रमार्थ- मुद्भिद्य वारिधिमवर्धदनेकसानुः ॥ ३॥
आश्लिष्य पर्वतवरं स ददर्श गच्छन् देवैस्तु नागजननीं प्रहितां वरेण ॥ ४॥
आस्यं प्रविश्य सपाद प्रविनिःसृतोऽस्मात् देवाननन्दयदुत स्वकमेषु रक्षन् ॥ ५॥
तैरादृतः पुनरसौ वियतैव गच्छन् छायाग्रहं प्रतिददर्श च सिंहिकाख्यम् ॥ ६॥
छायामवाक्षिपदसौ पवनात्मजस्य सोऽस्याः शरीरमनुविश्य बिभेद चाशु ॥ ७॥
लम्बे स लम्बशिखरे निपपात लङ्का- प्राकाररूपकगिराथ च सञ्चुकोचे ॥ ८॥
रुद्धोऽनयाऽऽश्वथ विजित्य च तां स्वमुष्टि- पिष्टां तयानुमत एव विवेश लङ्काम् ॥ ९॥
ददर्श शिंशपावृक्षमूलस्थितरमाकृतिम् ॥ १०॥
तस्य चेष्टानुसारेण कृत्वा चेष्टाश्च संविदम् ॥ ११॥
सीताया यानि चैवासन्नाकृतेस्तानि सर्वशः ॥ १२॥
अथ चूडामणिं दिव्यं दातुं रामाय सा ददौ ॥ १३॥
द्युलोकचारिणः सर्वे पश्यन्त्यृषय एव च ॥ १४॥
पश्यतां कलिमुख्यानां विडम्बोऽयं कृतो भवेत् ॥ १५॥
आत्माविष्करणे चित्तं चक्रे मतिमतां वरः ॥ १६॥
रजनिचरविनाशं कांक्षमाणोऽतिवेलं मुहुरतिरवनादी तोरणं चारुरोह ॥ १७॥
दिदेश किङ्करान् बहून् कपिर्निगृह्यतामिति ॥ १८॥
समासदन्महाबलं सुरान्तरात्मनोऽङ्गजम् ॥ १९॥
अनेकहेतिसङ्कुलं कपीन्द्रमावृणोद्बलम् ॥ २०॥
चकार तान् समस्तशस्तलप्रहारचूर्णितान् ॥ २१॥
ममर्द सप्तपर्वतप्रभान् वराभिरक्षितान् ॥ २२॥
निहत्य सर्वरक्षसां तृतीयभागमक्षिणोत् ॥ २३॥
कुमारमक्षमात्मनः समं सुतं न्ययोजयत् ॥ २४॥
शितैर्वरास्त्रमन्त्रितैर्न चैनमभ्यचालयत् ॥ २५॥
तृतीय एष भांशको बलस्य हीत्यचिन्तयत् ॥ २६॥
युधीन्द्रजिन्मया हतो न चास्य शक्तिरीक्ष्यते ॥ २७॥
विचार्य चैवमाशु तं पदोः प्रगृह्य पुप्लुवे ॥ २८॥
अपोथयद्धरातले क्षणेन मारुतीतनुः ॥ २९॥
निशम्य शोकतापितस्तदग्रजं समादिशत् ॥ ३०॥
ततश्च वानरोत्तमं न चाशकद्विचालने ॥ ३१॥
स तेन ताडितो हरिर्व्यचिन्तयन्निराकुलः ॥ ३२॥
स माननीय एव मे ततोऽत्र मानयाम्यहम् ॥ ३३॥
इतीह लक्ष्यमेव मे स रावणश्च दृश्यते ॥ ३४॥
बबन्धुरन्यपाशकैर्जगाम चास्त्रमस्य तत् ॥ ३५॥
निशाचरेश्वरस्य तं स पृष्टवांश्च रावणः ॥ ३६॥
इतीरितः स चावदत् प्रणम्य राममीश्वरम् ॥ ३७॥
रघूत्तमस्य मारुतिं कुलक्षये तवेश्वरम् ॥ ३८॥
सपुत्रमित्रबान्धवो विनाशमाशु यास्यसि ॥ ३९॥
विरिञ्चशर्वपूर्वकाः किमु त्वमल्पसारकः ॥ ४०॥
सुरासुरोरगादिके जगत्यचिन्त्यकर्मणः ॥ ४१॥
स पुच्छदाहकर्मणे न्ययोजयन्निशाचरान् ॥ ४२॥
ददुर्ददाह नास्य तन्मरुत्सखो हुताशनः ॥ ४३॥
बलोद्धतश्च कौतुकात् प्रदग्धुमेव तां पुरीम् ॥ ४४॥
कृतिस्तु विश्वकर्मणोऽप्यदह्यतास्य तेजसा ॥ ४५॥
प्रदह्य सर्वशः पुरीं मुदान्वितो जगर्ज वै ॥ ४६॥
तयोः प्रपश्यतोः पुरीं विधाय भस्मसाद्ययौ ॥ ४७॥
प्रभक्ष्य वानरेशितुर्मधु प्रभुं समेयिवान् ॥ ४८॥
चूडामणिं पवनजः पदयोर्निधाय सर्वाङ्गकैः प्रणतिमस्य चकार भक्त्या ॥ ४९॥
स्वात्मप्रदानमधिकं पवनात्मजस्य कुर्वन् समाश्लिषदमुं परमाभितुष्टः ॥ ५०॥
इति श्रीमदानन्दतीर्थीयमहाभारततात्पर्यनिर्णये रामचरिते हनुमत्प्रतियानं सुन्दरकाण्डकथानिर्णयः समाप्तः ॥
.jpeg)