पुरु त्वा दाशिवां वोचेऽरिरग्ने तव स्विदा ।
तोदस्येव शरण आ महस्य ॥ ९७ ॥
प्र होत्रे पूर्व्यं वचोऽग्नये भरता बृहत् ।
विपां ज्योतींषि बिभ्रते न वेधसे ॥ ९८ ॥
अग्ने वाजस्य गोमत ईशानः सहसो यहो ।
अस्मे धेहि जातवेदो महि श्रवः ॥ ९९ ॥
अग्ने यजिष्ठो अध्वरे देवां देवयते यज ।
होता मन्द्रो वि राजस्यति स्रिधः ॥ १०० ॥
जज्ञानः सप्त मातृभिर्मेधामाशासत श्रिये ।
अयं ध्रुवो रयीणां चिकेतदा ॥ १०१ ॥
उत स्या नो दिवा मतिरदितिरूत्यागमत् ।
सा शन्ताता मयस्करदप स्रिधः ॥ १०२ ॥
ईडिष्वा हि प्रतीव्या३ं यजस्व जातवेदसं ।
चरिष्णुधूममगृभीतशोचिषं ॥ १०३ ॥
न तस्य मायया च न रिपुरीशीत मर्त्यः ।
यो अग्नये ददाश हव्यदातये ॥ १०४ ॥
अप त्यं वृजिनं रिपुं स्तेनमग्ने दुराध्यं ।
दविष्ठमस्य सत्पते कृधी सुगं ॥ १०५ ॥
श्रुष्ट्यग्ने नवस्य मे स्तोमस्य वीर विश्पते ।
नि मायिनस्तपसा रक्षसो दह ॥ १०६ ॥
प्र मंहिष्ठाय गायत ऋताव्ने बृहते शुक्रशोचिषे ।
उपस्तुतासो अग्नये ॥ १०७ ॥
प्र सो अग्ने तवोतिभिः सुवीराभिस्तरति वाजकर्मभिः ।
यस्य त्वं सख्यमाविथ ॥ १०८ ॥
तं गूर्धया स्वर्णरं देवासो देवमरतिं दधन्विरे ।
देवत्रा हव्यमूहिषे ॥ १०९ ॥
मा नो हृणीथा अतिथिं वसुरग्निः पुरुप्रशस्त एशः ।
यः सुहोता स्वध्वरः ॥ ११० ॥
भद्रो नो अग्निराहुतो भद्रा रातिः सुभग भद्रो अध्वरः ।
भद्रा उत प्रशस्तयः ॥ १११ ॥
यजिष्ठं त्वा ववृमहे देवं देवत्रा होतारममर्त्यं ।
अस्य यज्ञस्य सुक्रतुं ॥ ११२ ॥
तदग्ने द्युम्नमा भर यत्सासाहा सदने कं चिदत्रिणं ।
मन्युं जनस्य दूढ्यं ॥ ११३ ॥
यद्वा उ विश्पतिः शितः सुप्रीतो मनुषो विशे ।
विश्वेदग्निः प्रति रक्षांसि सेधति ॥ ११४ ॥
तद्वो गाय सुते सचा पुरुहूताय सत्वने ।
शं यद्गवे न शाकिने ॥ ११५ ॥
यस्ते नूनं शतक्रतविन्द्र द्युम्नितमो मदः ।
तेन नूनं मदे मदेः ॥ ११६ ॥
गाव उप वदावटे महि यज्ञस्य रप्सुदा ।
उभा कर्णा हिरण्यया ॥ ११७ ॥
अरमश्वाय गायत श्रुतकक्षारं गवे ।
अरमिन्द्रस्य धाम्ने ॥ ११८ ॥
तमिन्द्रं वाजयामसि महे वृत्राय हन्तवे ।
स वृषा वृषभो भुवत् ॥११९ ॥
त्वमिन्द्र बलादधि सहसो जात ओजसः ।
त्वं सन्वृषन्वृषेदसि ॥ १२० ॥
यज्ञ इन्द्रमवर्धयद्यद्भूमिं व्यवर्तयत् ।
चक्राण ओपशं दिवि ॥ १२१ ॥
यदिन्द्राहं तथा त्वमीशीय वस्व एक इत् ।
स्तोता मे गोसखा स्यात् ॥१२२ ॥
पन्यंपन्यमित्सोतार आ धावत मद्याय ।
सोमं वीराय शूराय ॥ १२३ ॥
इदं वसो सुतमन्धः पिबा सुपूर्णमुदरं ।
अनाभयिन्ररिमा ते ॥ १२४ ॥
उद्धेदभि श्रुतामघं वृषभं नर्यापसं ।
अस्तारमेषि सूर्य ।। १२५ ।।
यदद्य कच्च वृत्रहन्नुदगा अभि सूर्य ।
सर्वं तदिन्द्र ते वशे ।। १२६ ।।
य आनयत्परावतः सुनीती तुर्वशं यदुं ।
इन्द्रः स नो युवा सखा ।। १२७ ।।
मा न इन्द्राभ्याऽऽ३ दिशः सूरो अक्तुष्वा यमत ।
त्वा युजा वनेम तत् ।।१२८ ।।
एन्द्र सानसिं रयिं सजित्वानं सदासहं ।
वर्षिष्ठमूतये भर ।। १२९ ।।
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
युजं वृत्रेषु वज्रिणं ।। १३० ।।
अपिबत्कद्रुवः सुतमिन्द्रः सहस्रबाह्वे ।
तत्राददिष्ट प्ॐस्यं ।। १३१ ।।
वयमिन्द्र त्वायवोऽभि प्र नोनुमो वृषन् ।
विद्धी त्वा३स्य नो वसो ।। १३२ ।।
आ घा ये अग्निमिन्धते स्तृणन्ति बर्हिरानुषक् ।
येषामिन्द्रो युवा सखा ।। १३३ ।।
भिन्धि विश्वा अप द्विषः परि बाधो जही मृधः ।
वसु स्पार्हं तदा भर ।। १३४ ।।
इहेव शृण्व एषां कशा हस्तेषु यद्वदान् ।
नि यामं चित्रमृञ्जते ।। १३५ ।।
इम उ त्वा वि चक्षते सखाय इन्द्र सोमिनः ।
पुष्टावन्तो यथा पशुं ।। १३६ ।।
समस्य मन्यवे विशो विश्वा नमन्त कृष्टयः ।
समुद्रायेव सिन्धवः ।। १३७ ।।
देवानामिदवो महत्तदा वृणीमहे वयं ।
वृष्णामस्मभ्यमूतये ।। १३८ ।।
सोमानां स्वरणं कृणुहि ब्रह्मणस्पते ।
कक्षीवन्तं य औशिजः ।। १३९ ।।
बोधन्मना इदस्तु नो वृत्रहा भूर्यासुतिः ।
शृणोतु शक्र आशिषं ।। १४० ।।
अद्य नो देव सवितः प्रजावत्सावीः सौभगं ।
परा दुःष्वप्न्यं सुव ।। १४१ ।।
क्वा३स्य वृषभो युवा तुविग्रीवो अनानतः ।
ब्रह्मा कस्तं सपर्यति ।। १४२ ।।
उपह्वरे गिरीणां सङ्गमे च नदीनां ।
धिया विप्रो अजायत ।। १४३ ।।
प्र सम्राजं चर्षणीनामिन्द्रं स्तोता नव्यं गीर्भिः ।
नरं नृषाहं मंहिष्ठं ।। १४४ ।।
अपादु शिप्रयन्धसः सुदक्षस्य प्रहोषिणः ।
इन्द्रोरिन्द्रो यवाशिरः ।। १४५ ।।
इमा उ त्वा पुरुवसोऽभि प्र नोनवुर्गिरः ।
गावो वत्सं न धेनवः ।। १४६ ।।
अत्राह गोरमन्वत नाम त्वष्टुरपीच्यं ।
इत्था चन्द्रमसो गृहे ।। १४७ ।।
यदिन्द्रो अनयद्रितो महीरपो वृषन्तमः ।
तत्र पूषाभुवत्सचा ।। १४८ ।।
पौष्णः
गौर्धयति मरुतां श्रवस्युर्माता मघोनाम्
युक्ता वह्नी रथानां ।। १४९ ।।
उप नो हरिभिः सुतं याहि मदानां पते ।
उप नो हरिभिः सुतं ।। १५० ।।
इष्टा होत्रा असृक्षतेन्द्रं वृधन्तो अध्वरे ।
अच्छावभृथमोजसा ।। १५१ ।।
अहमिद्धि पितुष्परि मेधामृतस्य जग्रह ।
अहं सूर्य इवाजनि ।। १५२ ।।
रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः ।
क्षुमन्तो याभिर्मदेम ।। १५३ ।।
सोमः पूषा च चेततुर्विश्वासां सुक्षितीनां ।
देवत्रा रथ्योर्हिता ।। १५४ ।।
पान्तमा वो अन्धस इन्द्रमभि प्र गायत ।
विश्वासाहं शतक्रतुं मंहिष्ठं चर्षणीनां ॥ १५५ ॥
प्र व इन्द्राय मादनं हर्यश्वाय गायत ।
सखायः सोमपाव्ने ॥ १५६ ॥
वयमु त्वा तदिदर्था इन्द्र त्वायन्तः सखायः ।
कण्वा उक्थेभिर्जरन्ते ॥ १५७ ॥
इन्द्राय मद्वने सुतं परि ष्टोभन्तु नो गिरः ।
अर्कमर्चन्तु कारवः ॥ १५८ ॥
अयं त इन्द्र सोमो निपूतो अधि बर्हिषि ।
एहीमस्य द्रवा पिब ॥ १५९ ॥
सुरूपकृत्नुमूतये सुदुघामिव गोदुहे ।
जुहूमसि द्यविद्यवि ॥ १६० ॥
अभि त्वा वृषभा सुते सुतं सृजामि पीतये ।
तृम्पा व्यश्नुही मदं ॥ १६१ ॥
य इन्द्र चमसेष्वा सोमश्चमूषु ते सुतः ।
पिबेदस्य त्वमीशिषे ॥ १६२ ॥
योगेयोगे तवस्तरं वाजेवाजे हवामहे ।
सखाय इन्द्रमूतये ॥ १६३ ॥
आ त्वेता नि षीदतेन्द्रमभि प्र गायत ।
सखायः स्तोमवाहसः ॥ १६४ ॥
इदं ह्यन्वोजसा सुतं राधानां पते ।
पिबा त्वा३स्य गिर्वणः ॥ १६५ ॥
महां इन्द्रः पुरश्च नो महित्वमस्तु वज्रिणे ।
द्यौर्न प्रथिना शवः ॥ १६६ ॥
आ तू न इन्द्र क्षुमन्तं चित्रं ग्राभं सं गृभाय ।
महाहस्ती दक्षिणेन ॥ १६७ ॥
अभि प्र गोपतिं गिरेन्द्रमर्च यथा विदे ।
सूनुं सत्यस्य सत्पतिं ॥ १६८ ॥
कया नश्चित्र आ भुवदूती सदावृधः सखा ।
कया शचिष्ठया वृता ॥ १६९ ॥
त्यमु वः सत्रासाहं विश्वासु गीर्ष्वायतं ।
आ च्यावयस्यूतये ॥ १७० ॥
सदसस्पतिमद्भुतं प्रियमिन्द्रस्य काम्यं ।
सनिं मेधामयासिषं ॥ १७१ ॥
ये ते पन्था अधो दिवो येभिर्व्यश्वमैरयः ।
उत श्रोषन्तु नो भुवः ॥ १७२ ॥
भद्रंभद्रं न आ भरेषमूर्जं शतक्रतो ।
यदिन्द्र मृडयासि नः ॥ १७३ ॥
अस्ति सोमो अयं सुतः पिबन्त्यस्य मरुतः ।
उत स्वराजो अश्विना ॥ १७४ ॥
ईङ्खयन्तीरपस्युव इन्द्रं जातमुपासते ।
वन्वानासः सुवीर्यं ।। १७५ ।।
न कि देवा इनीमसि न क्या योपयामसि ।
मन्त्रश्रुत्यं चरामसि ।। १७६ ।।
दोषो आगाद्बृहद्गाय द्युमद्गामन्नाथर्वण ।
स्तुहि देवं सवितारं ।। १७७ ।।
एषो उषा अपूर्व्या व्युच्छति प्रिया दिवः ।
स्तुषे वामश्विना बृहत् ।।१७८ ।।
इन्द्रो दधीचो अस्थभिर्वृत्राण्यप्रतिष्कुतः ।
जघान नवतीर्नव ।। १७९ ।।
इन्द्रेहि मत्स्यन्धसो विश्वेभिः सोमपर्वभिः ।
महां अभिष्टिरोजसा ।। १८० ।।
आ तू न इन्द्र वृत्रहन्नस्माकमर्धमा गहि ।
महान्महीभिरूतिभिः ।। १८१ ।।
ओजस्तदस्य तित्विष उभे यत्समवर्तयत् ।
इन्द्रश्चर्मेव रोदसी ।। १८२ ।।
अयमु ते समतसि कपोत इव गर्भधिं ।
वचस्तच्चिन्न ओहसे ।। १८३ ।।
वात आ वातु भेषजं शम्भु मयोभु नो हृदे ।
प्र न आयूंषि तारिषत् ।।१८४ ।।
यं रक्षन्ति प्रचेतसो वरुणो मित्रो अर्यमा ।
न किः स दभ्यते जनः ॥ १८५ ॥
णो यथा पुराश्वयोत रथया ।
वरिवस्या महोनां ॥ १८६ ॥
इमास्त इन्द्र पृश्नयो घृतं दुहत आशिरं ।
एनामृतस्य पिप्युषीः ॥ १८७ ॥
अया धिया च गव्यया पुरुणामन्पुरुष्टुत ।
यत्सोमेसोम आभुवः ॥ १८८ ॥
पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥ १८९ ॥
क इमं नाहुषीष्वा इन्द्रं सोमस्य तर्पयात् ।
स नो वसून्या भरात् ॥१९० ॥
आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमं ।
एदं बर्हिः सदो मम ॥ १९१ ॥
महि त्रीणामवरस्तु द्युक्षं मित्रस्यार्यम्णः ।
दुराधर्षं वरुणस्य ॥ १९२ ॥
त्वावतः पुरूवसो वयमिन्द्र प्रणेतः ।
स्मसि स्थातर्हरीणां ॥ १९३ ॥

0 टिप्पणियाँ
If you have any Misunderstanding Please let me know