सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः

सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.5 पञ्चमप्रपाठकः


गृणे तदिन्द्र ते शव उपमां देवतातये ।

यद्धंसि वृत्रमोजसा शचीपते ॥ ३९१ ॥

यस्य त्यच्छम्बरं मदे दिवोदासाय रन्धयन् ।

अयं स सोम इन्द्र ते सुतः पिब ॥ ३९२ ॥

एन्द्र नो गधि प्रिय सत्राजिदगोह्य ।

गिरिर्न विश्वतः पृथुः पतिर्दिवः ॥ ३९३ ॥

य इन्द्र सोमपातमो मदः शविष्ठ चेतति ।

येना हंसि न्या३त्रिणं तमीमहे ॥ ३९४ ॥

तुचे तुनाय तत्सु नो द्राधीय आयुर्जीवसे ।

आदित्यासः समहसः कृणोतन ॥ ३९५ ॥

वेत्था हि निरृतीनां वज्रहस्त परिवृजं ।

अहरहः शुन्ध्युः परिपदामिव ॥ ३९६ ॥

अपामीवामप स्त्रिधमप सेधत दुर्मतिं ।

आदित्यासो युयोतना नो अंहसः ॥ ३९७ ॥

पिबा सोममिन्द्र मन्दतु त्वा यं ते सुषाव हर्यश्वाद्रिः ।

सोतुर्बाहुभ्यां सुयतो नार्वा ॥ ३९८ ॥

अभ्रातृव्यो अना त्वमनापिरिन्द्र जनुषा सनादसि ।

युधेदापित्वमिच्छसे ॥ ३९९ ॥

यो न इदमिदं पुरा प्र वस्य आनिनाय तमु व स्तुषे ।

सखाय इन्द्रमूतये ॥ ४०० ॥

आ गन्ता मा रिषण्यत प्रस्थावानो माप स्थात समन्यवः ।

दृढा चिद्यमयिष्णवः ॥ ४०१ ॥

आ याह्ययमिन्दवेऽश्वपते गोपत उर्वरापते ।

सोमं सोमपते पिब ॥ ४०२ ॥

त्वया ह स्विद्युजा वयं प्रति श्वसन्तं वृषभ ब्रुवीमहि ।

संस्थे जनस्य गोमतः ॥ ४०३ ॥

गावश्चिद्धा समन्यवः सजात्येन मरुतः सबन्धवः ।

रिहते ककुभो मिथः ॥ ४०४ ॥

त्वं न इन्द्रा भर ओजो नृम्णं शतक्रतो विचर्षणे ।

आ वीरं पृतनासहं ॥ ४०५ ॥

अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे ।

उदेव ग्मन्त उदभिः ॥ ४०६ ॥

सीदन्तस्ते वयो यथा गोश्रीते मधौ मदिरे विवक्षणे ।

अभि त्वामिन्द्र नोनुमः ॥ ४०७ ॥

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।

वज्रिञ्चित्रं हवामहे ॥ ४०८ ॥

स्वादोरित्था विषूवतो मधोः पिबन्ति गौर्यः ।
या इन्द्रेण सयावरीर्वृष्णा मदन्ति शोभथा वस्वीरनु स्वराज्यं ॥ ४०९ ॥

इत्था हि सोम इन्मदो ब्रह्म चकार वर्धनं ।
शविष्ठ वज्रिन्नोजसा पृथिव्या निः शशा अहिमर्चन्ननु स्वराज्यं ॥ ४१० ॥

इन्द्रो मदाय वावृधे शवसे वृत्रहा नृभिः ।
तमिन्महत्स्वाजिषूतिमर्भे हवामहे स वाजेषु प्र नोऽविषत् ॥४११ ॥

इन्द्र तुभ्यमिदद्रिवोऽनुत्तं वज्रिन्वीर्यं ।
यद्ध त्यं मायिनं मृगं तव त्यन्माययावधीरर्चन्ननु स्वराज्यं ॥ ४१२ ॥

प्रेह्यभीहि धृष्णुहि न ते वज्रो नि यंसते ।
इन्द्र नृम्णं हि ते शवो हनो वृत्रं जया अपोऽर्चन्ननु स्वराज्यं ॥ ४१३ ॥

यदुदीरत आजयो धृष्णवे धीयते धनं ।
युङ्क्ष्वा मदच्युता हरी कं हनः कं वसौ दधोऽस्मां इन्द्र वसौ दधः ॥ ४१४ ॥

अक्षन्नमीमदन्त ह्यव प्रिया अधूषत ।
अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्विन्द्र ते हरी ॥ ४१५ ॥

उपो षु शृणुही गिरो मघवन्मातथा इव ।
कदा नः सूनृतावतः कर इदर्थयास इद्योजा न्विन्द्र ते हरी ॥ ४१६ ॥

चन्द्रमा अप्स्वा३न्तरा सुपर्णो धावते दिवि ।
न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥ ४१७ ॥

प्रति प्रियतमं रथं वृषणं वसुवाहनं ।
स्तोता वामश्विनावृषि स्तोमेभिर्भूषति प्रति माध्वी मम श्रुतं हवं ॥ ४१८ ॥

आ ते अग्न इधीमहि द्युमन्तं देवाजरं ।
युद्ध स्या ते पनीयसी समिद्दीदयति द्यवीषं स्तोतृभ्य आ भर ॥ ४१९ ॥

आग्निं न स्ववृक्तिभिर्होतारं त्वा वृणीमहे ।
शीरं पावकशोचिषं वि वो मदे यज्ञेषु स्तीर्णबर्हिषं विवक्षसे ॥ ४२० ॥

महे नो अद्य बोधयोषो राये दिवित्मती ।
यथा चिन्नो अबोधयः सत्यश्रवसि वाय्ये सुजाते अश्वसूनृते ॥ ४२१ ॥

भद्रं नो अपि वातय मनो दक्षमुत क्रतुं ।
अथा ते सख्ये अन्धसो वि वो मदे रणा गावो न यवसे विवक्षसे ॥ ४२२ ॥

क्रत्वा महां अनुष्वधं भीम आ वावृते शवः ।
श्रिय ऋष्व उपाकयोर्नि शिप्री हरिवां दधे हस्तयोर्वज्रमायसं ॥ ४२३ ॥

स घा तं वृषणं रथमधि तिष्ठाति गोविदं ।
यः पात्रं हारियोजनं पूर्णमिन्द्रा चिकेतति योजा न्विन्द्र ते हरी ॥ ४२४ ॥

अग्निं तं मन्ये यो वसुरस्तं यं यन्ति धेनवः ।
अस्तमर्वन्त आशवोऽस्तं नित्यासो वाजिन इषं स्तोतृभ्य आ भर ॥ ४२५ ॥

न तमंहो न दुरितं देवासो अष्ट मर्त्यं ।
सजोषसो यमर्यमा मित्रो नयति वरुणो अति द्विषः ॥ ४२६ ॥

परि प्र धन्वेन्द्राय सोम स्वादुर्मित्राय पूष्णे भगाय ।। ४२७ ।।

पर्यू षु प्र धन्व वाजसातये परि वृत्राणि सक्षणिः ।
द्विषस्तरध्या ऋणया न ईरसे ।। ४२८ ।।

पवस्व सोम महान्त्समुद्रः पिता देवानां विश्वाभि धाम ।। ४२९ ।।

पवस्व सोम महे दक्षायाश्वो न निक्तो वाजी धनाय ।। ४३० ।।

इन्दुः पविष्ट चारुर्मदायापामुपस्थे कविर्भगाय ।। ४३१ ।।

अनु हि त्वा सुतं सोम मदामसि महे समर्यराज्ये ।
वाजां अभि पवमान प्र गाहसे ।। ४३२ ।।

क ईं व्यक्ता नरः सनीडा रुद्रस्य मर्या अथ स्वश्वाः ।। ४३३ ।।

अग्ने तमद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशं ।
ऋध्यामा त ओहैः ।। ४३४ ।।

आविर्मर्या आ वाजं वाजिनो अग्मं देवस्य सवितुः सवं ।
स्वर्गां अर्वन्तो जयत ।। ४३५ ।।

पवस्व सोम द्युम्नी सुधारो महां अवीनामनुपूर्व्यः ।। ४३६ ।।

विश्वतोदावन्विश्वतो न आ भर यं त्वा शविष्ठमीमहे ॥ ४३७ ॥

एष ब्रह्मा य ऋत्विय इन्द्रो नाम श्रुतो गृणे ॥ ४३८ ॥

ब्रह्माण इन्द्रं महयन्तो अर्कैरवर्धयन्नहये हन्तवा उ ॥ ४३९ ॥

अनवस्ते रथमश्वाय तक्षुस्त्वष्टा वज्रं पुरुहूत द्युमन्तं ॥ ४४० ॥

शं पदं मघं रयीषिणो न काममव्रतो हिनोति न स्पृशद्रयिं ॥ ४४१ ॥

सदा गावः शुचयो विश्वधायसः सदा देवा अरेपसः ॥ ४४२ ॥

आ याहि वनसा सह गावः सचन्त वर्त्तनिं यदूधभिः ॥ ४४३ ॥

उप प्रक्षे मधुमति क्षियन्तः पुष्येम रयिं धीमहे त इन्द्र ॥ ४४४ ॥

अर्चन्त्यर्कं मरुतः स्वर्क्का आ स्तोभति श्रुतो युवा स इन्द्रः ॥ ४४५ ॥

प्र व इन्द्राय वृत्रहन्तमाय विप्राय गाथं गायत यं जुजोषते ॥ ४४६ ॥
अचेत्यग्निश्चिकितिर्हव्यवाड्न सुमद्रथः ॥ ४४७ ॥

अग्ने त्वं नो अन्तम उत त्राता शिवो भुवो वरूथ्यः ॥ ४४८ ॥

भगो न चित्रो अग्निर्महोनां दधाति रत्नं ॥ ४४९ ॥

विश्वस्य प्र स्तोभ पुरो वा सन्यदि वेह नूनं ॥ ४५० ॥

उषा अप स्वसुष्टमः सं वर्त्तयति वर्त्तनिं सुजातता ॥ ४५१ ॥

इमा नु कं भुवना सीषधेमेन्द्रश्च विश्वे च देवाः ॥ ४५२ ॥


वि स्रुतयो यथा पथ इन्द्र त्वद्यन्तु रातयः ॥ ४५३ ॥

अया वाजं देवहितं सनेम मदेम शतहिमाः सुवीराः ॥ ४५४ ॥

ऊर्जा मित्रो वरुणः पिन्वतेडाः पीवरीमिषं कृणुही न इन्द्र ॥ ४५५ ॥

इन्द्रो विश्वस्य राजति ॥ ४५६ ॥


त्रिकद्रुकेषु महिषो यवाशिरं तुविशुष्मस्तृम्पत्सोममपिबद्विष्णुना सुतं यथावशं ।
स ईं ममाद महि कर्म कर्त्तवे महामुरुं सैनं सश्चद्देवो देवं सत्य इन्दुः सत्यमिन्द्रं ।। ४५७ ।।

अयं सहस्रमानवो दृशः कवीनां मतिर्ज्योतिर्विधर्म ।
ब्रध्नः समीचीरुषसः समैरयदरेपसः सोचेतसः स्वसरे मन्युमन्तश्चिता गोः ।। ४५८ ।।

एन्द्र याह्युप नः परावतो नायमच्छा विदथानीव सत्पतिरस्ता राजेव सत्पतिः ।
हवामहे त्वा प्रयस्वन्तः सुतेष्वा पुत्रासो न पितरं वाजसातये मंहिष्ठं वाजसातये ।। ४५९ ।।

तमिन्द्रं जोहवीमि मघवानमुग्रं सत्रा दधानमप्रतिष्कुतं श्रवांसि भूरिः ।
मंहिष्ठो गीर्भिरा च यज्ञियो ववर्त्त राये नो विश्वा सुपथा कृणोतु वज्री ।। ४६० ।।

अस्तु श्रौषट् पुरो अग्निं धिया दध आ नु त्यच्छर्धो दिव्यं वृणीमह इन्द्रवायू वृणीमहे ।
यद्ध क्राणा विवस्वते नाभा सन्दाय नव्यसे ।
अध प्र नूनमुप यन्ति धीतयो देवांअच्छा न धीतयः ।। ४६१ ।।

प्र वो महे मतयो यन्तु विष्णवे मरुत्वते गिरिजा एवयामरुत् ।
प्र शर्धाय प्र यज्यवे सुखादये तवसे भन्ददिष्टये धुनिव्रताय शवसे ।। ४६२ ।।

अया रुचा हरिण्या पुनानो विश्वा द्वेषांसि तरति सयुग्वभिः सूरो न सयुग्वभिः ।
धारा पृष्ठस्य रोचते पुनानो अरुषो हरिः ।
विश्वा यद्रूपा परियास्यृक्वभिः सप्तास्येभिर्ऋक्वभिः ।। ४६३ ।।

अभि त्यं देवं सवितारमोण्योः कविक्रतुमर्चामि सत्यसवं रत्नधामभि प्रियं मतिम्
ऊर्ध्वा यस्यामतिर्भा अदिद्युतत्सवीमनि हिरण्यपाणिरमिमीत सुक्रतुः कृपा स्वः ।। ४६४ ।।

अग्निं होतारं मन्ये दास्वन्तं वसोः सूनुं सहसो जातवेदसं विप्रं न जातवेदसं ।
य ऊर्ध्वया स्वध्वरो देवो देवाच्या कृपा ।
घृतस्य विभ्राष्टिमनु शुक्रशोचिष आजुह्वानस्य सर्पिषः ।। ४६५ ।।

तव त्यन्नर्यं नृतोऽप इन्द्र प्रथमं पूर्व्यं दिवि प्रवाच्यं कृतं ।
यो देवस्य शवसा प्रारिणा असु रिणन्नपः ।
भुवो विश्वमभ्यदेवमोजसा विदेदूर्जं शतक्रतुर्विदेदिषं ।। ४६६ ।।

उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे ।
उग्रं शर्म महि श्रवः ॥ ४६७ ॥


स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।
इन्द्राय पातवे सुतः ॥ ४६८ ॥

वृषा पवस्व धारया मरुत्वते च मत्सरः ।
विश्वा दधान ओजसा ॥ ४६९ ॥

यस्ते मदो वरेण्यस्तेना पवस्वान्धसा ।
देवावीरघशंसहा ॥ ४७० ॥

तिस्रो वाच उदीरते गावो मिमन्ति धेनवः ।
हरिरेति कनिक्रदत् ॥४७१ ॥

इन्द्रायेन्दो मरुत्वते पवस्व मधुमत्तमः ।
अर्कस्य योनिमासदं ॥ ४७२ ॥

असाव्यंशुर्मदायाप्सु दक्षो गिरिष्ठाः ।
श्येनो न योनिमासदत् ॥४७३ ॥

पवस्व दक्षसाधनो देवेभ्यः पीतये हरे ।
मरुद्भ्यो वायवे मदः ॥ ४७४ ॥

परि स्वानो गिरिष्ठाः पवित्रे सोमो अक्षरत् ।
मदेषु सर्वधा असि ॥ ४७५ ॥

परि प्रिया दिवः कविर्वयांसि नप्त्योर्हितः ।
स्वानैर्याति कविक्रतुः ॥ ४७६ ॥

प्र सोमासो मदच्युतः श्रवसे नो मघोनः ।
सुता विदथे अक्रमुः ॥ ४७७ ॥

प्र सोमासो विपश्चितोऽपो नयन्त ऊर्मयः ।
वनानि महिषा इव ॥ ४७८ ॥

पवस्वेन्दो वृषा सुतः कृधी नो यशसो जने ।
विश्वा अप द्विषो जहि ॥ ४७९ ॥

वृषा ह्यसि भानुना द्युमन्तं त्वा हवामहे ।
पवमान स्वर्दृशं ॥ ४८० ॥

इन्दुः पविष्ट चेतनः प्रियः कवीनां मतिः ।
सृजदश्वं रथीरिव ॥ ४८१ ॥

असृक्षत प्र वाजिनो गव्या सोमासो अश्वया ।
शुक्रासो वीरयाशवः ॥ ४८२ ॥

पवस्व देव आयुषगिन्द्रं गच्छतु ते मदः ।
वायुमा रोह धर्मणा ॥ ४८३ ॥

पवमानो अजीजनद्दिवश्चित्रं न तन्यतुं ।
ज्योतिर्वैश्वानरं बृहत् ॥४८४ ॥

परि स्वानास इन्दवो मदाय बर्हणा गिरा ।
मधो अर्षन्ति धारया ॥ ४८५ ॥

परि प्रासिष्यदत्कविः सिन्धोरूर्मावधि श्रितः ।
कारुं बिभ्रत्पुरुस्पृहं ॥ ४८६ ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

आधुनिक कोशिकीय जीव विज्ञान (Cell Biology), शरीर विज्ञान (Anatomy) और क्वांटम चेतना

View of the Site

यह ब्लॉग खोजें