सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः

सामवेदः/कौथुमीया/संहिता/उत्तरार्चिकः

उपास्मै गायता नरः पवमानायेन्दवे ।

अभि देवां इयक्षते ॥ ६५१ ॥ ऋ. ९.११.१

अभि ते मधुना पयोऽथर्वाणो अशिश्रयुः ।

देवं देवाय देवयु ॥ ६५२ ॥

स नः पवस्व शं गवे शं जनाय शमर्वते ।

शं राजन्नोषधीभ्यः ॥ ६५३ ॥

दविद्युतत्या रुचा परिष्टोभन्त्या कृपा ।

सोमाः शुक्रा गवाशिरः ॥ ६५४ ॥ ऋ. ९.६४.२८, द्र. पंचवि.ब्रा. १२.१

हिन्वानो हेतृभिर्हित आ वाजं वाज्यक्रमीत् ।

सीदन्तो वनुषो यथा ॥ ६५५ ॥

ऋधक्सोम स्वस्तये संजग्मानो दिवा कवे ।

पवस्व सूर्यो दृशे ॥ ६५६ ॥

पवमानस्य ते कवे वाजिन्त्सर्गा असृक्षते ।

अर्वन्तो न श्रवस्यवः ॥ ६५७ ॥ ऋ. ९.६६.१०

अच्छा कोशं मधुश्चुतमसृग्रं वारे अव्यये ।

अवावशन्त धीतयः ॥ ६५८ ॥

अच्छा समुद्रमिन्दवोऽस्तं गावो न धेनवः ।

अग्मन्नृतस्य योनिमा ॥ ६५९ ॥

अग्न आ याहि[२] वीतये गृणानो हव्यदातये ।

नि होता सत्सि बर्हिषि ॥ ६६० ॥

तं त्वा समिद्भिरङ्गिरो घृतेन वर्धयामसि ।

बृहच्छोचा यविष्ठ्य ॥ ६६१ ॥

स नः पृथु श्रवाय्यमच्छा देव विवाससि ।

बृहदग्ने सुवीर्यं ॥ ६६२ ॥

आ नो मित्रावरुणा घृतैर्गव्यूतिमुक्षतं ।

मध्वा रजांसि सुक्रतू ॥ ६६३ ॥

उरुशंसा नमोवृधा मह्ना दक्षस्य राजथः ।

द्राघिष्ठाभिः शुचिव्रता ॥ ६६४ ॥

गृणाना जमदग्निना योनावृतस्य सीदतं ।

पातं सोममृतावृधा ॥ ६६५ ॥

आ याहि सुषुमा हि त इन्द्र सोमं पिबा इमं ।

एदं बर्हिः सदो मम ॥ ६६६ ॥

आ त्वा ब्रह्मयुजा हरी वहतामिन्द्र केशिना ।

उप ब्रह्माणि नः शृणु ॥ ६६७ ॥

ब्रह्माणस्त्वा युजा वयं सोमपामिन्द्र सोमिनः ।

सुतावन्तो हवामहे ॥ ६६८ ॥

इन्द्राग्नी आ गतं सुतं गीर्भिर्नभो वरेण्यं ।

अस्य पातं धियेषिता ॥ ६६९ ॥

इन्द्राग्नी जरितुः सचा यज्ञो जिगाति चेतनः ।

अया पातमिमं सुतं ॥ ६७० ॥

इन्द्रमग्निं कविच्छदा यज्ञस्य जूत्या वृणे ।

ता सोमस्येह तृम्पतां ॥ ६७१ ॥

उच्चा ते जातमन्धसो दिवि सद्भूम्या ददे ।

उग्रं शर्म महि श्रवः ॥ ६७२ ॥

स न इन्द्राय यज्यवे वरुणाय मरुद्भ्यः ।

वरिवोवित्परि स्रव ॥ ६७३ ॥

एना विश्वान्यर्य आ द्युम्नानि मानुषाणां ।

सिषासन्तो वनामहे ॥ ६७४ ॥

पुनानः सोम धारयापो वसानो अर्षसि ।

आ रत्नधा योनिमृतस्य सीदस्युत्सो देवो हिरण्ययः ॥ ६७५ ॥

दुहान ऊधर्दिव्यं मधु प्रियं प्रत्नं सधस्थमासदत् ।

आपृच्छ्यं धरुणं वाज्यर्षसि नृभिर्धौतो विचक्षणः ॥ ६७६ ॥

१०

प्र तु द्रव परि कोशं नि षीद नृभिः पुनानो अभि वाजमर्ष ।

अश्वं न त्वा वाजिनं मर्जयन्तोऽच्छा बर्ही रशनाभिर्नयन्ति ॥ ६७७ ॥

स्वायुधः पवते देव इन्दुरशस्तिहा वृजना रक्षमाणः ।

पिता देवानां जनिता सुदक्षो विष्टम्भो दिवो धरुणः पृथिव्याः ॥ ६७८ ॥

ऋषिर्विप्रः पुरएता जनानामृभुर्धीर उशना काव्येन ।

स चिद्विवेद निहितं यदासामपीच्या३ं गुह्यं नाम गोनां ॥ ६७९ ॥

११

अभि त्वा शूर नोनुमोऽदुग्धा इव धेनवः ।

ईशानमस्य जगतः स्वर्दृशमीशानमिन्द्र तस्थुषः ॥ ६८० ॥

न त्वावां अन्यो दिव्यो न पार्थिवो न जातो न जनिष्यते ।

अश्वायन्तो मघवन्निन्द्र वाजिनो गव्यन्तस्त्वा हवामहे ॥ ६८१ ॥

१२

कया नश्चित्र आ भुवदूती सदावृधः सखा ।

कया शचिष्ठया वृता ॥ ६८२ ॥

कस्त्वा सत्यो मदानां मंहिष्ठो मत्सदन्धसः ।

दृढा चिदारुजे वसु ॥ ६८३ ॥

अभी षु णः सखीनामविता जरितॄणाम् ।

शतं भवास्यूतये ॥ ६८४॥

१३

तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः ।

अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥ ६८५ ॥

द्युक्षं सुदानुं तविषीभिरावृतं गिरिं न पुरुभोजसं ।

क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे ॥ ६८६ ॥

१४

तरोभिर्वो विदद्वसुमिन्द्रं सबाध ऊतये ।

बृहद्गायन्तः सुतसोमे अध्वरे हुवे भरं न कारिणं ॥ ६८७ ॥

न यं दुध्रा वरन्ते न स्थिरा मुरो मदेषु शिप्रमन्धसः ।

य आदृत्या शशमानाय सुन्वते दाता जरित्र उक्थ्यं ॥ ६८८ ॥

१५

स्वादिष्ठया मदिष्ठया पवस्व सोम धारया ।

इन्द्राय पातवे सुतः ॥ ६८९ ॥

रक्षोहा विश्वचर्षणिरभि योनिमयोहते ।

द्रोणे सधस्थमासदत् ॥६९० ॥

वरिवोधातमो भुवो मंहिष्ठो वृत्रहन्तमः ।

पर्षि राधो मघोनां ॥ ६९१ ॥

१६

पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मदः ।

महि द्युक्षतमो मदः ॥ ६९२ ॥

यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीत्वा स्वर्विदः ।

स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥ ६९३ ॥

१७

इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः ।

श्रुष्टे जातास इन्दवः स्वर्विदः ॥ ६९४ ॥

अयं भराय सानसिरिन्द्राय पवते सुतः ।

सोमो जैत्रस्य चेतति यथा विदे ॥ ६९५ ॥

अस्येदिन्द्रो मदेष्वा ग्राभं गृभ्णाति सानसिं ।

वज्रं च वृषणं भरत्समप्सुजित् ॥६९६ ॥

१८

पुरोजिती वो अन्धसः सुताय मादयित्नवे ।

अप श्वानं श्नथिष्टन सखायो दीर्घजिह्व्यं ॥ ६९७ ॥

यो धारया पावकया परिप्रस्यन्दते सुतः ।

इन्दुरश्वो न कृत्व्यः ॥ ६९८ ॥

तं दुरोषमभी नरः सोमं विश्वाच्या धिया ।

यज्ञाय सन्त्वद्रयः ॥ ६९९ ॥

१९

अभि प्रियाणि पवते चनोहितो नामानि यह्वो अधि येषु वर्धते ।

आ सूर्यस्य बृहतो बृहन्नधि रथं विष्वञ्चमरुहद्विचक्षणः ॥७०० ॥

ऋतस्य जिह्वा पवते मधु प्रियं वक्ता पतिर्धियो अस्या अदाभ्यः ।

दधाति पुत्रः पित्रोरपीच्या३ं नाम तृतीयमधि रोचनं दिवः ॥ ७०१ ॥

अव द्युतानः कलशां अचिक्रदन्नृभिर्येमाणः कोश आ हिरण्यये ।

अभी ऋतस्य दोहना अनूषताधि त्रिपृष्ठ उषसो वि राजसि ॥ ७०२ ॥

२०

यज्ञायज्ञा वो अग्नये गिरागिरा च दक्षसे ।

प्रप्र वयममृतं जातवेदसं प्रियं मित्रं न शंसिषं ॥ ७०३ ॥

ऊर्जो नपातं स हिनायमस्मयुर्दाशेम हव्यदातये ।

भुवद्वाजेष्वविता भुवद्वृध उत त्राता तनूनां ॥ ७०४ ॥

२१

एह्यू षु ब्रवाणि तेऽग्न इत्थेतरा गिरः ।

एभिर्वर्धास इन्दुभिः ॥ ७०५ ॥

यत्र क्व च ते मनो दक्षं दधस उत्तरं ।

तत्रा योनिं कृणवसे ॥ ७०६ ॥

न हि ते पूर्तमक्षिपद्भुवन्नेमानां पते ।

अथा दुवो वनवसे ॥ ७०७ ॥

२२

वयमु त्वामपूर्व्य स्थूरं न कच्चिद्भरन्तोऽवस्यवः ।

वज्रिञ्चित्रं हवामहे ॥ ७०८ ॥

उप त्वा कर्मन्नूतये स नो युवोग्रश्चक्राम यो धृषत् ।

त्वामिध्यवितारं ववृमहे सखाय इन्द्र सानसिं ॥ ७०९ ॥

२३

अधा हीन्द्र गिर्वण उप त्वा काम ईमहे ससृग्महे ।

उदेव ग्मन्त उदभिः ॥ ७१० ॥

वार्ण त्वा यव्याभिर्वर्धन्ति शूर ब्रह्माणि ।

ववृध्वांसं चिदद्रिवो दिवेदिवे ॥ ७११ ॥

युञ्जन्ति हरी इषिरस्य गाथयोरौ रथ उरुयुगे वचोयुजा ।

इन्द्रवाहा स्वर्विदा ॥ ७१२ ॥


एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

आधुनिक कोशिकीय जीव विज्ञान (Cell Biology), शरीर विज्ञान (Anatomy) और क्वांटम चेतना

View of the Site

यह ब्लॉग खोजें