सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/महानाम्न्यार्चिकः

सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/महानाम्न्यार्चिकः

विदा मघवन्विदा गातुमनुशंसिषो दिशः ।

शिक्षा शचीनां पते पूर्वीणां पुरूवसो ॥ ६४१ ॥

आभिष्ट्वमभिष्टिभिः स्वाऽ३र्न्नांशुः ।

प्रचेतन प्रचेतयेन्द्र द्युम्नाय न इषे ॥ ६४२ ॥

एवा हि शक्रो राये वाजाय वज्रिवः ।

शविष्ठ वज्रिन्नृञ्जसे मंहिष्ठ वज्रिन्नृञ्जस ।

आ याहि पिब मत्स्व ॥ ६४३ ॥

विदा राये सुवीर्यं भवो वाजानां पतिर्वशां अनु ।

मंहिष्ठ वज्रिन्नृञ्जसे यः शविष्ठः शूराणां ॥ ६४४ ॥

यो मंहिष्ठो मघोनामंशुर्न्न शोचिः ।

चिकित्वो अभि नो नयेंद्रो विदे तमु स्तुहि ॥ ६४५ ॥

ईशे हि शक्रस्तमूतये हवामहे जेतारमपराजितं ।

स नः स्वर्षदति द्विषः क्रतुश्छन्द ऋतं बृहत् ॥६४६ ॥

इन्द्रं धनस्य सातये हवामहे जेतारमपराजितं ।

स नः स्वर्षदति द्विषः स नः स्वर्षदति द्विषः ॥ ६४७ ॥

पूर्वस्य यत्ते अद्रिवोंऽशुर्मदाय ।

सुम्न आ धेहि नो वसो पूर्तिः शविष्ठ शस्यते ।

वशी हि शक्रो नूनं तन्नव्यं संन्यसे ॥ ६४८ ॥

प्रभो जनस्य वृत्रहन्त्समर्येषु ब्रवावहै ।

शूरो यो गोषु गच्छति सखा सुशेवो अद्वयुः ॥ ६४९ ॥

एवाह्योऽ३ऽ३ऽ३वा । एवा ह्यग्ने । एवाहीन्द्र ।

एवा हि पूषन् । एवा हि देवाः ॐ एवाहि देवाः ॥ ६५० ॥

एक टिप्पणी भेजें

0 टिप्पणियाँ

Featured post

आधुनिक कोशिकीय जीव विज्ञान (Cell Biology), शरीर विज्ञान (Anatomy) और क्वांटम चेतना

View of the Site

यह ब्लॉग खोजें